Vana Parva, Adhyaya 296, Verse 1
नापदामस्ति मर्यादा न निमित्तं न कारणम्
धर्मस्तु विभजत्यत्र उभयोः पुण्यपापयोः
Containing 43 sacred Sanskrit shlokas with multi-author commentaries and translations.
नापदामस्ति मर्यादा न निमित्तं न कारणम्
धर्मस्तु विभजत्यत्र उभयोः पुण्यपापयोः
प्रातिकाम्यनयत्कृष्णां सभायां प्रेष्यवत्तदा
न मया निहतस्तत्र तेन प्राप्ताः स्म संशयम्
वाचस्तीक्ष्णास्थिभेदिन्यः सूतपुत्रेण भाषिताः
अतितीक्ष्णा मया क्षान्तास्तेन प्राप्ताः स्म संशयम्
शकुनिस्त्वां यदाजैषीदक्षद्यूतेन भारत
स मया न हतस्तत्र तेन प्राप्ताः स्म संशयम्
ततो युधिष्ठिरो राजा नकुलं वाक्यमब्रवीत्
आरुह्य वृक्षं माद्रेय निरीक्षस्व दिशो दश
पानीयमन्तिके पश्य वृक्षान्वाप्युदकाश्रयान्
इमे हि भ्रातरः श्रान्तास्तव तात पिपासिताः
नकुलस्तु तथेत्युक्त्वा शीघ्रमारुह्य पादपम्
अब्रवीद्भ्रातरं ज्येष्ठमभिवीक्ष्य समन्ततः
पश्यामि बहुलान्राजन्वृक्षानुदकसंश्रयान्
सारसानां च निर्ह्रादमत्रोदकमसंशयम्
ततोऽब्रवीत्सत्यधृतिः कुन्तीपुत्रो युधिष्ठिरः
गच्छ सौम्य ततः शीघ्रं तूर्णं पानीयमानय
नकुलस्तु तथेत्युक्त्वा भ्रातुर्ज्येष्ठस्य शासनात्
प्राद्रवद्यत्र पानीयं शीघ्रं चैवान्वपद्यत
स दृष्ट्वा विमलं तोयं सारसैः परिवारितम्
पातुकामस्ततो वाचमन्तरिक्षात्स शुश्रुवे
मा तात साहसं कार्षीर्मम पूर्वपरिग्रहः
प्रश्नानुक्त्वा तु माद्रेय ततः पिब हरस्व च
अनादृत्य तु तद्वाक्यं नकुलः सुपिपासितः
अपिबच्छीतलं तोयं पीत्वा च निपपात ह
चिरायमाणे नकुले कुन्तीपुत्रो युधिष्ठिरः
अब्रवीद्भ्रातरं वीरं सहदेवमरिंदमम्
भ्राता चिरायते तात सहदेव तवाग्रजः
तं चैवानय सोदर्यं पानीयं च त्वमानय
सहदेवस्तथेत्युक्त्वा तां दिशं प्रत्यपद्यत
ददर्श च हतं भूमौ भ्रातरं नकुलं तदा
भ्रातृशोकाभिसंतप्तस्तृषया च प्रपीडितः
अभिदुद्राव पानीयं ततो वागभ्यभाषत
मा तात साहसं कार्षीर्मम पूर्वपरिग्रहः
प्रश्नानुक्त्वा यथाकामं ततः पिब हरस्व च
अनादृत्य तु तद्वाक्यं सहदेवः पिपासितः
अपिबच्छीतलं तोयं पीत्वा च निपपात ह
अथाब्रवीत्स विजयं कुन्तीपुत्रो युधिष्ठिरः
भ्रातरौ ते चिरगतौ बीभत्सो शत्रुकर्शन
तौ चैवानय भद्रं ते पानीयं च त्वमानय
एवमुक्तो गुडाकेशः प्रगृह्य सशरं धनुः
आमुक्तखड्गो मेधावी तत्सरः प्रत्यपद्यत
यतः पुरुषशार्दूलौ पानीयहरणे गतौ
तौ ददर्श हतौ तत्र भ्रातरौ श्वेतवाहनः
प्रसुप्ताविव तौ दृष्ट्वा नरसिंहः सुदुःखितः
धनुरुद्यम्य कौन्तेयो व्यलोकयत तद्वनम्
नापश्यत्तत्र किंचित्स भूतं तस्मिन्महावने
सव्यसाची ततः श्रान्तः पानीयं सोऽभ्यधावत
अभिधावंस्ततो वाचमन्तरिक्षात्स शुश्रुवे
किमासीदसि पानीयं नैतच्छक्यं बलात्त्वया
कौन्तेय यदि वै प्रश्नान्मयोक्तान्प्रतिपत्स्यसे
ततः पास्यसि पानीयं हरिष्यसि च भारत
वारितस्त्वब्रवीत्पार्थो दृश्यमानो निवारय
यावद्बाणैर्विनिर्भिन्नः पुनर्नैवं वदिष्यसि
एवमुक्त्वा ततः पार्थः शरैरस्त्रानुमन्त्रितैः
ववर्ष तां दिशं कृत्स्नां शब्दवेधं च दर्शयन्
कर्णिनालीकनाराचानुत्सृजन्भरतर्षभ
अनेकैरिषुसंघातैरन्तरिक्षं ववर्ष ह
किं विघातेन ते पार्थ प्रश्नानुक्त्वा ततः पिब
अनुक्त्वा तु ततः प्रश्नान्पीत्वैव न भविष्यसि