Vana Parva, Adhyaya 295, Verse 1
एवं हृतायां कृष्णायां प्राप्य क्लेशमनुत्तमम्
प्रतिलभ्य ततः कृष्णां किमकुर्वत पाण्डवाः
Containing 17 sacred Sanskrit shlokas with multi-author commentaries and translations.
एवं हृतायां कृष्णायां प्राप्य क्लेशमनुत्तमम्
प्रतिलभ्य ततः कृष्णां किमकुर्वत पाण्डवाः
एवं हृतायां कृष्णायां प्राप्य क्लेशमनुत्तमम्
विहाय काम्यकं राजा सह भ्रातृभिरच्युतः
पुनर्द्वैतवनं रम्यमाजगाम युधिष्ठिरः
स्वादुमूलफलं रम्यं मार्कण्डेयाश्रमं प्रति
अनुगुप्तफलाहाराः सर्व एव मिताशनाः
न्यवसन्पाण्डवास्तत्र कृष्णया सह भारत
वसन्द्वैतवने राजा कुन्तीपुत्रो युधिष्ठिरः
भीमसेनोऽर्जुनश्चैव माद्रीपुत्रौ च पाण्डवौ
ब्राह्मणार्थे पराक्रान्ता धर्मात्मानो यतव्रताः
क्लेशमार्छन्त विपुलं सुखोदर्कं परंतपाः
अजातशत्रुमासीनं भ्रातृभिः सहितं वने
आगम्य ब्राह्मणस्तूर्णं संतप्त इदमब्रवीत्
अरणीसहितं मह्यं समासक्तं वनस्पतौ
मृगस्य घर्षमाणस्य विषाणे समसज्जत
तदादाय गतो राजंस्त्वरमाणो महामृगः
आश्रमात्त्वरितः शीघ्रं प्लवमानो महाजवः
तस्य गत्वा पदं शीघ्रमासाद्य च महामृगम्
अग्निहोत्रं न लुप्येत तदानयत पाण्डवाः
ब्राह्मणस्य वचः श्रुत्वा संतप्तोऽथ युधिष्ठिरः
धनुरादाय कौन्तेयः प्राद्रवद्भ्रातृभिः सह
सन्नद्धा धन्विनः सर्वे प्राद्रवन्नरपुंगवाः
ब्राह्मणार्थे यतन्तस्ते शीघ्रमन्वगमन्मृगम्
कर्णिनालीकनाराचानुत्सृजन्तो महारथाः
नाविध्यन्पाण्डवास्तत्र पश्यन्तो मृगमन्तिकात्
तेषां प्रयतमानानां नादृश्यत महामृगः
अपश्यन्तो मृगं श्रान्ता दुःखं प्राप्ता मनस्विनः
शीतलच्छायमासाद्य न्यग्रोधं गहने वने
क्षुत्पिपासापरीताङ्गाः पाण्डवाः समुपाविशन्
तेषां समुपविष्टानां नकुलो दुःखितस्तदा
अब्रवीद्भ्रातरं ज्येष्ठममर्षात्कुरुसत्तम
नास्मिन्कुले जातु ममज्ज धर्मो; न चालस्यादर्थलोपो बभूव
अनुत्तराः सर्वभूतेषु भूयः; संप्राप्ताः स्मः संशयं केन राजन्