Mahabharata

Vana Parva, Adhyaya 294

Containing 43 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Vana Parva, Adhyaya 294, Verse 1

देवराजमनुप्राप्तं ब्राह्मणच्छद्मना वृषः

दृष्ट्वा स्वागतमित्याह न बुबोधास्य मानसम्

Mahabharata

Vana Parva, Adhyaya 294, Verse 2

हिरण्यकण्ठीः प्रमदा ग्रामान्वा बहुगोकुलान्

किं ददानीति तं विप्रमुवाचाधिरथिस्ततः

Mahabharata

Vana Parva, Adhyaya 294, Verse 3

हिरण्यकण्ठ्यः प्रमदा यच्चान्यत्प्रीतिवर्धनम्

नाहं दत्तमिहेच्छामि तदर्थिभ्यः प्रदीयताम्

Mahabharata

Vana Parva, Adhyaya 294, Verse 4

यदेतत्सहजं वर्म कुण्डले च तवानघ

एतदुत्कृत्य मे देहि यदि सत्यव्रतो भवान्

Mahabharata

Vana Parva, Adhyaya 294, Verse 5

एतदिच्छाम्यहं क्षिप्रं त्वया दत्तं परंतप

एष मे सर्वलाभानां लाभः परमको मतः

Mahabharata

Vana Parva, Adhyaya 294, Verse 6

अवनिं प्रमदा गाश्च निर्वापं बहुवार्षिकम्

तत्ते विप्र प्रदास्यामि न तु वर्म न कुण्डले

Mahabharata

Vana Parva, Adhyaya 294, Verse 7

एवं बहुविधैर्वाक्यैर्याच्यमानः स तु द्विजः

कर्णेन भरतश्रेष्ठ नान्यं वरमयाचत

Mahabharata

Vana Parva, Adhyaya 294, Verse 8

सान्त्वितश्च यथाशक्ति पूजितश्च यथाविधि

नैवान्यं स द्विजश्रेष्ठः कामयामास वै वरम्

Mahabharata

Vana Parva, Adhyaya 294, Verse 9

यदा नान्यं प्रवृणुते वरं वै द्विजसत्तमः

तदैनमब्रवीद्भूयो राधेयः प्रहसन्निव

Mahabharata

Vana Parva, Adhyaya 294, Verse 10

सहजं वर्म मे विप्र कुण्डले चामृतोद्भवे

तेनावध्योऽस्मि लोकेषु ततो नैतद्ददाम्यहम्

Mahabharata

Vana Parva, Adhyaya 294, Verse 11

विशालं पृथिवीराज्यं क्षेमं निहतकण्टकम्

प्रतिगृह्णीष्व मत्तस्त्वं साधु ब्राह्मणपुंगव

Mahabharata

Vana Parva, Adhyaya 294, Verse 12

कुण्डलाभ्यां विमुक्तोऽहं वर्मणा सहजेन च

गमनीयो भविष्यामि शत्रूणां द्विजसत्तम

Mahabharata

Vana Parva, Adhyaya 294, Verse 13

यदा नान्यं वरं वव्रे भगवान्पाकशासनः

ततः प्रहस्य कर्णस्तं पुनरित्यब्रवीद्वचः

Mahabharata

Vana Parva, Adhyaya 294, Verse 14

विदितो देवदेवेश प्रागेवासि मम प्रभो

न तु न्याय्यं मया दातुं तव शक्र वृथा वरम्

Mahabharata

Vana Parva, Adhyaya 294, Verse 15

त्वं हि देवेश्वरः साक्षात्त्वया देयो वरो मम

अन्येषां चैव भूतानामीश्वरो ह्यसि भूतकृत्

Mahabharata

Vana Parva, Adhyaya 294, Verse 16

यदि दास्यामि ते देव कुण्डले कवचं तथा

वध्यतामुपयास्यामि त्वं च शक्रावहास्यताम्

Mahabharata

Vana Parva, Adhyaya 294, Verse 17

तस्माद्विनिमयं कृत्वा कुण्डले वर्म चोत्तमम्

हरस्व शक्र कामं मे न दद्यामहमन्यथा

Mahabharata

Vana Parva, Adhyaya 294, Verse 18

विदितोऽहं रवेः पूर्वमायन्नेव तवान्तिकम्

तेन ते सर्वमाख्यातमेवमेतन्न संशयः

Mahabharata

Vana Parva, Adhyaya 294, Verse 19

काममस्तु तथा तात तव कर्ण यथेच्छसि

वर्जयित्वा तु मे वज्रं प्रवृणीष्व यदिच्छसि

Mahabharata

Vana Parva, Adhyaya 294, Verse 20

ततः कर्णः प्रहृष्टस्तु उपसंगम्य वासवम्

अमोघां शक्तिमभ्येत्य वव्रे संपूर्णमानसः

Mahabharata

Vana Parva, Adhyaya 294, Verse 21

वर्मणा कुण्डलाभ्यां च शक्तिं मे देहि वासव

अमोघां शत्रुसंघानां घातनीं पृतनामुखे

Mahabharata

Vana Parva, Adhyaya 294, Verse 22

ततः संचिन्त्य मनसा मुहूर्तमिव वासवः

शक्त्यर्थं पृथिवीपाल कर्णं वाक्यमथाब्रवीत्

Mahabharata

Vana Parva, Adhyaya 294, Verse 23

कुण्डले मे प्रयच्छस्व वर्म चैव शरीरजम्

गृहाण कर्ण शक्तिं त्वमनेन समयेन मे

Mahabharata

Vana Parva, Adhyaya 294, Verse 24

अमोघा हन्ति शतशः शत्रून्मम करच्युता

पुनश्च पाणिमभ्येति मम दैत्यान्विनिघ्नतः

Mahabharata

Vana Parva, Adhyaya 294, Verse 25

सेयं तव करं प्राप्य हत्वैकं रिपुमूर्जितम्

गर्जन्तं प्रतपन्तं च मामेवैष्यति सूतज

Mahabharata

Vana Parva, Adhyaya 294, Verse 26

एकमेवाहमिच्छामि रिपुं हन्तुं महाहवे

गर्जन्तं प्रतपन्तं च यतो मम भयं भवेत्

Mahabharata

Vana Parva, Adhyaya 294, Verse 27

एकं हनिष्यसि रिपुं गर्जन्तं बलिनं रणे

त्वं तु यं प्रार्थयस्येकं रक्ष्यते स महात्मना

Mahabharata

Vana Parva, Adhyaya 294, Verse 28

यमाहुर्वेदविद्वांसो वराहमजितं हरिम्

नारायणमचिन्त्यं च तेन कृष्णेन रक्ष्यते

Mahabharata

Vana Parva, Adhyaya 294, Verse 29

एवमप्यस्तु भगवन्नेकवीरवधे मम

अमोघा प्रवरा शक्तिर्येन हन्यां प्रतापिनम्

Mahabharata

Vana Parva, Adhyaya 294, Verse 30

उत्कृत्य तु प्रदास्यामि कुण्डले कवचं च ते

निकृत्तेषु च गात्रेषु न मे बीभत्सता भवेत्