Vana Parva, Adhyaya 293, Verse 1
एतस्मिन्नेव काले तु धृतराष्ट्रस्य वै सखा
सूतोऽधिरथ इत्येव सदारो जाह्नवीं ययौ
Containing 23 sacred Sanskrit shlokas with multi-author commentaries and translations.
एतस्मिन्नेव काले तु धृतराष्ट्रस्य वै सखा
सूतोऽधिरथ इत्येव सदारो जाह्नवीं ययौ
तस्य भार्याभवद्राजन्रूपेणासदृशी भुवि
राधा नाम महाभागा न सा पुत्रमविन्दत
अपत्यार्थे परं यत्नमकरोच्च विशेषतः
सा ददर्शाथ मञ्जूषामुह्यमानां यदृच्छया
दत्तरक्षाप्रतिसरामन्वालभनशोभिताम्
ऊर्मीतरङ्गैर्जाह्नव्याः समानीतामुपह्वरम्
सा तां कौतूहलात्प्राप्तां ग्राहयामास भामिनी
ततो निवेदयामास सूतस्याधिरथस्य वै
स तामुद्धृत्य मञ्जूषामुत्सार्य जलमन्तिकात्
यन्त्रैरुद्घाटयामास सोऽपश्यत्तत्र बालकम्
तरुणादित्यसंकाशं हेमवर्मधरं तथा
मृष्टकुण्डलयुक्तेन वदनेन विराजता
स सूतो भार्यया सार्धं विस्मयोत्फुल्ललोचनः
अङ्कमारोप्य तं बालं भार्यां वचनमब्रवीत्
इदमत्यद्भुतं भीरु यतो जातोऽस्मि भामिनि
दृष्टवान्देवगर्भोऽयं मन्येऽस्मान्समुपागतः
अनपत्यस्य पुत्रोऽयं देवैर्दत्तो ध्रुवं मम
इत्युक्त्वा तं ददौ पुत्रं राधायै स महीपते
प्रतिजग्राह तं राधा विधिवद्दिव्यरूपिणम्
पुत्रं कमलगर्भाभं देवगर्भं श्रिया वृतम्
पुपोष चैनं विधिवद्ववृधे स च वीर्यवान्
ततः प्रभृति चाप्यन्ये प्राभवन्नौरसाः सुताः
वसुवर्मधरं दृष्ट्वा तं बालं हेमकुण्डलम्
नामास्य वसुषेणेति ततश्चक्रुर्द्विजातयः
एवं स सूतपुत्रत्वं जगामामितविक्रमः
वसुषेण इति ख्यातो वृष इत्येव च प्रभुः
स ज्येष्ठपुत्रः सूतस्य ववृधेऽङ्गेषु वीर्यवान्
चारेण विदितश्चासीत्पृथाया दिव्यवर्मभृत्
सूतस्त्वधिरथः पुत्रं विवृद्धं समये ततः
दृष्ट्वा प्रस्थापयामास पुरं वारणसाह्वयम्
तत्रोपसदनं चक्रे द्रोणस्येष्वस्त्रकर्मणि
सख्यं दुर्योधनेनैवमगच्छत्स च वीर्यवान्
द्रोणात्कृपाच्च रामाच्च सोऽस्त्रग्रामं चतुर्विधम्
लब्ध्वा लोकेऽभवत्ख्यातः परमेष्वासतां गतः
संधाय धार्तराष्ट्रेण पार्थानां विप्रिये स्थितः
योद्धुमाशंसते नित्यं फल्गुनेन महात्मना
सदा हि तस्य स्पर्धासीदर्जुनेन विशां पते
अर्जुनस्य च कर्णेन यतो दृष्टो बभूव सः
तं तु कुण्डलिनं दृष्ट्वा वर्मणा च समन्वितम्
अवध्यं समरे मत्वा पर्यतप्यद्युधिष्ठिरः
यदा तु कर्णो राजेन्द्र भानुमन्तं दिवाकरम्
स्तौति मध्यंदिने प्राप्ते प्राञ्जलिः सलिले स्थितः
तत्रैनमुपतिष्ठन्ति ब्राह्मणा धनहेतवः
नादेयं तस्य तत्काले किंचिदस्ति द्विजातिषु
तमिन्द्रो ब्राह्मणो भूत्वा भिक्षां देहीत्युपस्थितः
स्वागतं चेति राधेयस्तमथ प्रत्यभाषत