Vana Parva, Adhyaya 292, Verse 1
ततो गर्भः समभवत्पृथायाः पृथिवीपते
शुक्ले दशोत्तरे पक्षे तारापतिरिवाम्बरे
Containing 27 sacred Sanskrit shlokas with multi-author commentaries and translations.
ततो गर्भः समभवत्पृथायाः पृथिवीपते
शुक्ले दशोत्तरे पक्षे तारापतिरिवाम्बरे
सा बान्धवभयाद्बाला तं गर्भं विनिगूहती
धारयामास सुश्रोणी न चैनां बुबुधे जनः
न हि तां वेद नार्यन्या काचिद्धात्रेयिकामृते
कन्यापुरगतां बालां निपुणां परिरक्षणे
ततः कालेन सा गर्भं सुषुवे वरवर्णिनी
कन्यैव तस्य देवस्य प्रसादादमरप्रभम्
तथैव बद्धकवचं कनकोज्ज्वलकुण्डलम्
हर्यक्षं वृषभस्कन्धं यथास्य पितरं तथा
जातमात्रं च तं गर्भं धात्र्या संमन्त्र्य भामिनी
मञ्जूषायामवदधे स्वास्तीर्णायां समन्ततः
मधूच्छिष्टस्थितायां सा सुखायां रुदती तथा
श्लक्ष्णायां सुपिधानायामश्वनद्यामवासृजत्
जानती चाप्यकर्तव्यं कन्याया गर्भधारणम्
पुत्रस्नेहेन राजेन्द्र करुणं पर्यदेवयत्
समुत्सृजन्ती मञ्जूषामश्वनद्यास्तदा जले
उवाच रुदती कुन्ती यानि वाक्यानि तच्छृणु
स्वस्ति तेऽस्त्वान्तरिक्षेभ्यः पार्थिवेभ्यश्च पुत्रक
दिव्येभ्यश्चैव भूतेभ्यस्तथा तोयचराश्च ये
शिवास्ते सन्तु पन्थानो मा च ते परिपन्थिनः
आगमाश्च तथा पुत्र भवन्त्वद्रोहचेतसः
पातु त्वां वरुणो राजा सलिले सलिलेश्वरः
अन्तरिक्षेऽन्तरिक्षस्थः पवनः सर्वगस्तथा
पिता त्वां पातु सर्वत्र तपनस्तपतां वरः
येन दत्तोऽसि मे पुत्र दिव्येन विधिना किल
आदित्या वसवो रुद्राः साध्या विश्वे च देवताः
मरुतश्च सहेन्द्रेण दिशश्च सदिगीश्वराः
रक्षन्तु त्वां सुराः सर्वे समेषु विषमेषु च
वेत्स्यामि त्वां विदेशेऽपि कवचेनोपसूचितम्
धन्यस्ते पुत्र जनको देवो भानुर्विभावसुः
यस्त्वां द्रक्ष्यति दिव्येन चक्षुषा वाहिनीगतम्
धन्या सा प्रमदा या त्वां पुत्रत्वे कल्पयिष्यति
यस्यास्त्वं तृषितः पुत्र स्तनं पास्यसि देवज
को नु स्वप्नस्तया दृष्टो या त्वामादित्यवर्चसम्
दिव्यवर्मसमायुक्तं दिव्यकुण्डलभूषितम्
पद्मायतविशालाक्षं पद्मताम्रतलोज्ज्वलम्
सुललाटं सुकेशान्तं पुत्रत्वे कल्पयिष्यति
धन्या द्रक्ष्यन्ति पुत्र त्वां भूमौ संसर्पमाणकम्
अव्यक्तकलवाक्यानि वदन्तं रेणुगुण्ठितम्
धन्या द्रक्ष्यन्ति पुत्र त्वां पुनर्यौवनगे मुखे
हिमवद्वनसंभूतं सिंहं केसरिणं यथा
एवं बहुविधं राजन्विलप्य करुणं पृथा
अवासृजत मञ्जूषामश्वनद्यास्तदा जले
रुदती पुत्रशोकार्ता निशीथे कमलेक्षणा
धात्र्या सह पृथा राजन्पुत्रदर्शनलालसा
विसर्जयित्वा मञ्जूषां संबोधनभयात्पितुः
विवेश राजभवनं पुनः शोकातुरा ततः
मञ्जूषा त्वश्वनद्याः सा ययौ चर्मण्वतीं नदीम्
चर्मण्वत्याश्च यमुनां ततो गङ्गां जगाम ह
गङ्गायाः सूतविषयं चम्पामभ्याययौ पुरीम्
स मञ्जूषागतो गर्भस्तरङ्गैरुह्यमानकः
अमृतादुत्थितं दिव्यं तत्तु वर्म सकुण्डलम्
धारयामास तं गर्भं दैवं च विधिनिर्मितम्