Vana Parva, Adhyaya 291, Verse 1
सा तु कन्या बहुविधं ब्रुवन्ती मधुरं वचः
अनुनेतुं सहस्रांशुं न शशाक मनस्विनी
Containing 28 sacred Sanskrit shlokas with multi-author commentaries and translations.
सा तु कन्या बहुविधं ब्रुवन्ती मधुरं वचः
अनुनेतुं सहस्रांशुं न शशाक मनस्विनी
न शशाक यदा बाला प्रत्याख्यातुं तमोनुदम्
भीता शापात्ततो राजन्दध्यौ दीर्घमथान्तरम्
अनागसः पितुः शापो ब्राह्मणस्य तथैव च
मन्निमित्तः कथं न स्यात्क्रुद्धादस्माद्विभावसोः
बालेनापि सता मोहाद्भृशं सापह्नवान्यपि
नात्यासादयितव्यानि तेजांसि च तपांसि च
साहमद्य भृशं भीता गृहीता च करे भृशम्
कथं त्वकार्यं कुर्यां वै प्रदानं ह्यात्मनः स्वयम्
सैवं शापपरित्रस्ता बहु चिन्तयती तदा
मोहेनाभिपरीताङ्गी स्मयमाना पुनः पुनः
तं देवमब्रवीद्भीता बन्धूनां राजसत्तम
व्रीडाविह्वलया वाचा शापत्रस्ता विशां पते
पिता मे ध्रियते देव माता चान्ये च बान्धवाः
न तेषु ध्रियमाणेषु विधिलोपो भवेदयम्
त्वया मे संगमो देव यदि स्याद्विधिवर्जितः
मन्निमित्तं कुलस्यास्य लोके कीर्तिर्नशेत्ततः
अथ वा धर्ममेतं त्वं मन्यसे तपतां वर
ऋते प्रदानाद्बन्धुभ्यस्तव कामं करोम्यहम्
आत्मप्रदानं दुर्धर्ष तव कृत्वा सती त्वहम्
त्वयि धर्मो यशश्चैव कीर्तिरायुश्च देहिनाम्
न ते पिता न ते माता गुरवो वा शुचिस्मिते
प्रभवन्ति वरारोहे भद्रं ते शृणु मे वचः
सर्वान्कामयते यस्मात्कनेर्धातोश्च भामिनि
तस्मात्कन्येह सुश्रोणि स्वतन्त्रा वरवर्णिनि
नाधर्मश्चरितः कश्चित्त्वया भवति भामिनि
अधर्मं कुत एवाहं चरेयं लोककाम्यया
अनावृताः स्त्रियः सर्वा नराश्च वरवर्णिनि
स्वभाव एष लोकानां विकारोऽन्य इति स्मृतः
सा मया सह संगम्य पुनः कन्या भविष्यसि
पुत्रश्च ते महाबाहुर्भविष्यति महायशाः
यदि पुत्रो मम भवेत्त्वत्तः सर्वतमोपह
कुण्डली कवची शूरो महाबाहुर्महाबलः
भविष्यति महाबाहुः कुण्डली दिव्यवर्मभृत्
उभयं चामृतमयं तस्य भद्रे भविष्यति
यद्येतदमृतादस्ति कुण्डले वर्म चोत्तमम्
मम पुत्रस्य यं वै त्वं मत्त उत्पादयिष्यसि
अस्तु मे संगमो देव यथोक्तं भगवंस्त्वया
त्वद्वीर्यरूपसत्त्वौजा धर्मयुक्तो भवेत्स च
अदित्या कुण्डले राज्ञि दत्ते मे मत्तकाशिनि
तेऽस्य दास्यामि वै भीरु वर्म चैवेदमुत्तमम्
परमं भगवन्देव संगमिष्ये त्वया सह
यदि पुत्रो भवेदेवं यथा वदसि गोपते
तथेत्युक्त्वा तु तां कुन्तीमाविवेश विहंगमः
स्वर्भानुशत्रुर्योगात्मा नाभ्यां पस्पर्श चैव ताम्
ततः सा विह्वलेवासीत्कन्या सूर्यस्य तेजसा
पपाताथ च सा देवी शयने मूढचेतना
साधयिष्यामि सुश्रोणि पुत्रं वै जनयिष्यसि
सर्वशस्त्रभृतां श्रेष्ठं कन्या चैव भविष्यसि
ततः सा व्रीडिता बाला तदा सूर्यमथाब्रवीत्
एवमस्त्विति राजेन्द्र प्रस्थितं भूरिवर्चसम्
इति स्मोक्ता कुन्तिराजात्मजा सा; विवस्वन्तं याचमाना सलज्जा
तस्मिन्पुण्ये शयनीये पपात; मोहाविष्टा भज्यमाना लतेव
तां तिग्मांशुस्तेजसा मोहयित्वा; योगेनाविश्यात्मसंस्थां चकार
न चैवैनां दूषयामास भानुः; संज्ञां लेभे भूय एवाथ बाला