Mahabharata

Vana Parva, Adhyaya 290

Containing 26 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Vana Parva, Adhyaya 290, Verse 1

गते तस्मिन्द्विजश्रेष्ठे कस्मिंश्चित्कालपर्यये

चिन्तयामास सा कन्या मन्त्रग्रामबलाबलम्

Mahabharata

Vana Parva, Adhyaya 290, Verse 2

अयं वै कीदृशस्तेन मम दत्तो महात्मना

मन्त्रग्रामो बलं तस्य ज्ञास्ये नातिचिरादिव

Mahabharata

Vana Parva, Adhyaya 290, Verse 3

एवं संचिन्तयन्ती सा ददर्शर्तुं यदृच्छया

व्रीडिता साभवद्बाला कन्याभावे रजस्वला

Mahabharata

Vana Parva, Adhyaya 290, Verse 4

अथोद्यन्तं सहस्रांशुं पृथा दीप्तं ददर्श ह

न ततर्प च रूपेण भानोः संध्यागतस्य सा

Mahabharata

Vana Parva, Adhyaya 290, Verse 5

तस्या दृष्टिरभूद्दिव्या सापश्यद्दिव्यदर्शनम्

आमुक्तकवचं देवं कुण्डलाभ्यां विभूषितम्

Mahabharata

Vana Parva, Adhyaya 290, Verse 6

तस्याः कौतूहलं त्वासीन्मन्त्रं प्रति नराधिप

आह्वानमकरोत्साथ तस्य देवस्य भामिनी

Mahabharata

Vana Parva, Adhyaya 290, Verse 7

प्राणानुपस्पृश्य तदा आजुहाव दिवाकरम्

आजगाम ततो राजंस्त्वरमाणो दिवाकरः

Mahabharata

Vana Parva, Adhyaya 290, Verse 8

मधुपिङ्गो महाबाहुः कम्बुग्रीवो हसन्निव

अङ्गदी बद्धमुकुटो दिशः प्रज्वालयन्निव

Mahabharata

Vana Parva, Adhyaya 290, Verse 9

योगात्कृत्वा द्विधात्मानमाजगाम तताप च

आबभाषे ततः कुन्तीं साम्ना परमवल्गुना

Mahabharata

Vana Parva, Adhyaya 290, Verse 10

आगतोऽस्मि वशं भद्रे तव मन्त्रबलात्कृतः

किं करोम्यवशो राज्ञि ब्रूहि कर्ता तदस्मि ते

Mahabharata

Vana Parva, Adhyaya 290, Verse 11

गम्यतां भगवंस्तत्र यतोऽसि समुपागतः

कौतूहलात्समाहूतः प्रसीद भगवन्निति

Mahabharata

Vana Parva, Adhyaya 290, Verse 12

गमिष्येऽहं यथा मां त्वं ब्रवीषि तनुमध्यमे

न तु देवं समाहूय न्याय्यं प्रेषयितुं वृथा

Mahabharata

Vana Parva, Adhyaya 290, Verse 13

तवाभिसंधिः सुभगे सूर्यात्पुत्रो भवेदिति

वीर्येणाप्रतिमो लोके कवची कुण्डलीति च

Mahabharata

Vana Parva, Adhyaya 290, Verse 14

सा त्वमात्मप्रदानं वै कुरुष्व गजगामिनि

उत्पत्स्यति हि पुत्रस्ते यथासंकल्पमङ्गने

Mahabharata

Vana Parva, Adhyaya 290, Verse 15

अथ गच्छाम्यहं भद्रे त्वयासंगम्य सुस्मिते

शप्स्यामि त्वामहं क्रुद्धो ब्राह्मणं पितरं च ते

Mahabharata

Vana Parva, Adhyaya 290, Verse 16

त्वत्कृते तान्प्रधक्ष्यामि सर्वानपि न संशयः

पितरं चैव ते मूढं यो न वेत्ति तवानयम्

Mahabharata

Vana Parva, Adhyaya 290, Verse 17

तस्य च ब्राह्मणस्याद्य योऽसौ मन्त्रमदात्तव

शीलवृत्तमविज्ञाय धास्यामि विनयं परम्

Mahabharata

Vana Parva, Adhyaya 290, Verse 18

एते हि विबुधाः सर्वे पुरंदरमुखा दिवि

त्वया प्रलब्धं पश्यन्ति स्मयन्त इव भामिनि

Mahabharata

Vana Parva, Adhyaya 290, Verse 19

पश्य चैनान्सुरगणान्दिव्यं चक्षुरिदं हि ते

पूर्वमेव मया दत्तं दृष्टवत्यसि येन माम्

Mahabharata

Vana Parva, Adhyaya 290, Verse 20

ततोऽपश्यत्त्रिदशान्राजपुत्री; सर्वानेव स्वेषु धिष्ण्येषु खस्थान्

प्रभासन्तं भानुमन्तं महान्तं; यथादित्यं रोचमानं तथैव

Mahabharata

Vana Parva, Adhyaya 290, Verse 21

सा तान्दृष्ट्वा व्रीडमानेव बाला; सूर्यं देवी वचनं प्राह भीता

गच्छ त्वं वै गोपते स्वं विमानं; कन्याभावाद्दुःख एषोपचारः

Mahabharata

Vana Parva, Adhyaya 290, Verse 22

पिता माता गुरवश्चैव येऽन्ये; देहस्यास्य प्रभवन्ति प्रदाने

नाहं धर्मं लोपयिष्यामि लोके; स्त्रीणां वृत्तं पूज्यते देहरक्षा

Mahabharata

Vana Parva, Adhyaya 290, Verse 23

मया मन्त्रबलं ज्ञातुमाहूतस्त्वं विभावसो

बाल्याद्बालेति कृत्वा तत्क्षन्तुमर्हसि मे विभो

Mahabharata

Vana Parva, Adhyaya 290, Verse 24

बालेति कृत्वानुनयं तवाहं; ददानि नान्यानुनयं लभेत

आत्मप्रदानं कुरु कुन्तिकन्ये; शान्तिस्तवैवं हि भवेच्च भीरु

Mahabharata

Vana Parva, Adhyaya 290, Verse 25

न चापि युक्तं गन्तुं हि मया मिथ्याकृतेन वै

गमिष्याम्यनवद्याङ्गि लोके समवहास्यताम्

सर्वेषां विबुधानां च वक्तव्यः स्यामहं शुभे

Mahabharata

Vana Parva, Adhyaya 290, Verse 26

सा त्वं मया समागच्छ पुत्रं लप्स्यसि मादृशम्

विशिष्टा सर्वलोकेषु भविष्यसि च भामिनि