Vana Parva, Adhyaya 289, Verse 1
सा तु कन्या महाराज ब्राह्मणं संशितव्रतम्
तोषयामास शुद्धेन मनसा संशितव्रता
Containing 23 sacred Sanskrit shlokas with multi-author commentaries and translations.
सा तु कन्या महाराज ब्राह्मणं संशितव्रतम्
तोषयामास शुद्धेन मनसा संशितव्रता
प्रातरायास्य इत्युक्त्वा कदाचिद्द्विजसत्तमः
तत आयाति राजेन्द्र साये रात्रावथो पुनः
तं च सर्वासु वेलासु भक्ष्यभोज्यप्रतिश्रयैः
पूजयामास सा कन्या वर्धमानैस्तु सर्वदा
अन्नादिसमुदाचारः शय्यासनकृतस्तथा
दिवसे दिवसे तस्य वर्धते न तु हीयते
निर्भर्त्सनापवादैश्च तथैवाप्रियया गिरा
ब्राह्मणस्य पृथा राजन्न चकाराप्रियं तदा
व्यस्ते काले पुनश्चैति न चैति बहुशो द्विजः
दुर्लभ्यमपि चैवान्नं दीयतामिति सोऽब्रवीत्
कृतमेव च तत्सर्वं पृथा तस्मै न्यवेदयत्
शिष्यवत्पुत्रवच्चैव स्वसृवच्च सुसंयता
यथोपजोषं राजेन्द्र द्विजातिप्रवरस्य सा
प्रीतिमुत्पादयामास कन्या यत्नैरनिन्दिता
तस्यास्तु शीलवृत्तेन तुतोष द्विजसत्तमः
अवधानेन भूयोऽस्य परं यत्नमथाकरोत्
तां प्रभाते च साये च पिता पप्रच्छ भारत
अपि तुष्यति ते पुत्रि ब्राह्मणः परिचर्यया
तं सा परममित्येव प्रत्युवाच यशस्विनी
ततः प्रीतिमवापाग्र्यां कुन्तिभोजो महामनाः
ततः संवत्सरे पूर्णे यदासौ जपतां वरः
नापश्यद्दुष्कृतं किंचित्पृथायाः सौहृदे रतः
ततः प्रीतमना भूत्वा स एनां ब्राह्मणोऽब्रवीत्
प्रीतोऽस्मि परमं भद्रे परिचारेण ते शुभे
वरान्वृणीष्व कल्याणि दुरापान्मानुषैरिह
यैस्त्वं सीमन्तिनीः सर्वा यशसाभिभविष्यसि
कृतानि मम सर्वाणि यस्या मे वेदवित्तम
त्वं प्रसन्नः पिता चैव कृतं विप्र वरैर्मम
यदि नेच्छसि भद्रे त्वं वरं मत्तः शुचिस्मिते
इमं मन्त्रं गृहाण त्वमाह्वानाय दिवौकसाम्
यं यं देवं त्वमेतेन मन्त्रेणावाहयिष्यसि
तेन तेन वशे भद्रे स्थातव्यं ते भविष्यति
अकामो वा सकामो वा न स नैष्यति ते वशम्
विबुधो मन्त्रसंशान्तो वाक्ये भृत्य इवानतः
न शशाक द्वितीयं सा प्रत्याख्यातुमनिन्दिता
तं वै द्विजातिप्रवरं तदा शापभयान्नृप
ततस्तामनवद्याङ्गीं ग्राहयामास वै द्विजः
मन्त्रग्रामं तदा राजन्नथर्वशिरसि श्रुतम्
तं प्रदाय तु राजेन्द्र कुन्तिभोजमुवाच ह
उषितोऽस्मि सुखं राजन्कन्यया परितोषितः
तव गेहे सुविहितः सदा सुप्रतिपूजितः
साधयिष्यामहे तावदित्युक्त्वान्तरधीयत
स तु राजा द्विजं दृष्ट्वा तत्रैवान्तर्हितं तदा
बभूव विस्मयाविष्टः पृथां च समपूजयत्