Mahabharata

Vana Parva, Adhyaya 288

Containing 19 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Vana Parva, Adhyaya 288, Verse 1

ब्राह्मणं यन्त्रिता राजनुपस्थास्यामि पूजया

यथाप्रतिज्ञं राजेन्द्र न च मिथ्या ब्रवीम्यहम्

Mahabharata

Vana Parva, Adhyaya 288, Verse 2

एष चैव स्वभावो मे पूजयेयं द्विजानिति

तव चैव प्रियं कार्यं श्रेयश्चैतत्परं मम

Mahabharata

Vana Parva, Adhyaya 288, Verse 3

यद्येवैष्यति सायाह्ने यदि प्रातरथो निशि

यद्यर्धरात्रे भगवान्न मे कोपं करिष्यति

Mahabharata

Vana Parva, Adhyaya 288, Verse 4

लाभो ममैष राजेन्द्र यद्वै पूजयती द्विजान्

आदेशे तव तिष्ठन्ती हितं कुर्यां नरोत्तम

Mahabharata

Vana Parva, Adhyaya 288, Verse 5

विस्रब्धो भव राजेन्द्र न व्यलीकं द्विजोत्तमः

वसन्प्राप्स्यति ते गेहे सत्यमेतद्ब्रवीमि ते

Mahabharata

Vana Parva, Adhyaya 288, Verse 6

यत्प्रियं च द्विजस्यास्य हितं चैव तवानघ

यतिष्यामि तथा राजन्व्येतु ते मानसो ज्वरः

Mahabharata

Vana Parva, Adhyaya 288, Verse 7

ब्राह्मणा हि महाभागाः पूजिताः पृथिवीपते

तारणाय समर्थाः स्युर्विपरीते वधाय च

Mahabharata

Vana Parva, Adhyaya 288, Verse 8

साहमेतद्विजानन्ती तोषयिष्ये द्विजोत्तमम्

न मत्कृते व्यथां राजन्प्राप्स्यसि द्विजसत्तमात्

Mahabharata

Vana Parva, Adhyaya 288, Verse 9

अपराधे हि राजेन्द्र राज्ञामश्रेयसे द्विजाः

भवन्ति च्यवनो यद्वत्सुकन्यायाः कृते पुरा

Mahabharata

Vana Parva, Adhyaya 288, Verse 10

नियमेन परेणाहमुपस्थास्ये द्विजोत्तमम्

यथा त्वया नरेन्द्रेदं भाषितं ब्राह्मणं प्रति

Mahabharata

Vana Parva, Adhyaya 288, Verse 11

एवमेतत्त्वया भद्रे कर्तव्यमविशङ्कया

मद्धितार्थं कुलार्थं च तथात्मार्थं च नन्दिनि

Mahabharata

Vana Parva, Adhyaya 288, Verse 12

एवमुक्त्वा तु तां कन्यां कुन्तिभोजो महायशाः

पृथां परिददौ तस्मै द्विजाय सुतवत्सलः

Mahabharata

Vana Parva, Adhyaya 288, Verse 13

इयं ब्रह्मन्मम सुता बाला सुखविवर्धिता

अपराध्येत यत्किंचिन्न तत्कार्यं हृदि त्वया

Mahabharata

Vana Parva, Adhyaya 288, Verse 14

द्विजातयो महाभागा वृद्धबालतपस्विषु

भवन्त्यक्रोधनाः प्रायो विरुद्धेष्वपि नित्यदा

Mahabharata

Vana Parva, Adhyaya 288, Verse 15

सुमहत्यपराधेऽपि क्षान्तिः कार्या द्विजातिभिः

यथाशक्ति यथोत्साहं पूजा ग्राह्या द्विजोत्तम

Mahabharata

Vana Parva, Adhyaya 288, Verse 16

तथेति ब्राह्मणेनोक्ते स राजा प्रीतमानसः

हंसचन्द्रांशुसंकाशं गृहमस्य न्यवेदयत्

Mahabharata

Vana Parva, Adhyaya 288, Verse 17

तत्राग्निशरणे कॢप्तमासनं तस्य भानुमत्

आहारादि च सर्वं तत्तथैव प्रत्यवेदयत्

Mahabharata

Vana Parva, Adhyaya 288, Verse 18

निक्षिप्य राजपुत्री तु तन्द्रीं मानं तथैव च

आतस्थे परमं यत्नं ब्राह्मणस्याभिराधने

Mahabharata

Vana Parva, Adhyaya 288, Verse 19

तत्र सा ब्राह्मणं गत्वा पृथा शौचपरा सती

विधिवत्परिचारार्हं देववत्पर्यतोषयत्