Vana Parva, Adhyaya 287, Verse 1
किं तद्गुह्यं न चाख्यातं कर्णायेहोष्णरश्मिना
कीदृशे कुण्डले ते च कवचं चैव कीदृशम्
Containing 29 sacred Sanskrit shlokas with multi-author commentaries and translations.
किं तद्गुह्यं न चाख्यातं कर्णायेहोष्णरश्मिना
कीदृशे कुण्डले ते च कवचं चैव कीदृशम्
कुतश्च कवचं तस्य कुण्डले चैव सत्तम
एतदिच्छाम्यहं श्रोतुं तन्मे ब्रूहि तपोधन
अयं राजन्ब्रवीम्येतद्यत्तद्गुह्यं विभावसोः
यादृशे कुण्डले चैव कवचं चैव यादृशम्
कुन्तिभोजं पुरा राजन्ब्राह्मणः समुपस्थितः
तिग्मतेजा महाप्रांशुः श्मश्रुदण्डजटाधरः
दर्शनीयोऽनवद्याङ्गस्तेजसा प्रज्वलन्निव
मधुपिङ्गो मधुरवाक्तपःस्वाध्यायभूषणः
स राजानं कुन्तिभोजमब्रवीत्सुमहातपाः
भिक्षामिच्छाम्यहं भोक्तुं तव गेहे विमत्सर
न मे व्यलीकं कर्तव्यं त्वया वा तव चानुगैः
एवं वत्स्यामि ते गेहे यदि ते रोचतेऽनघ
यथाकामं च गच्छेयमागच्छेयं तथैव च
शय्यासने च मे राजन्नापराध्येत कश्चन
तमब्रवीत्कुन्तिभोजः प्रीतियुक्तमिदं वचः
एवमस्तु परं चेति पुनश्चैनमथाब्रवीत्
मम कन्या महाब्रह्मन्पृथा नाम यशस्विनी
शीलवृत्तान्विता साध्वी नियता न च मानिनी
उपस्थास्यति सा त्वां वै पूजयानवमन्य च
तस्याश्च शीलवृत्तेन तुष्टिं समुपयास्यसि
एवमुक्त्वा तु तं विप्रमभिपूज्य यथाविधि
उवाच कन्यामभ्येत्य पृथां पृथुललोचनाम्
अयं वत्से महाभागो ब्राह्मणो वस्तुमिच्छति
मम गेहे मया चास्य तथेत्येवं प्रतिश्रुतम्
त्वयि वत्से पराश्वस्य ब्राह्मणस्याभिराधनम्
तन्मे वाक्यं न मिथ्या त्वं कर्तुमर्हसि कर्हिचित्
अयं तपस्वी भगवान्स्वाध्यायनियतो द्विजः
यद्यद्ब्रूयान्महातेजास्तत्तद्देयममत्सरात्
ब्राह्मणा हि परं तेजो ब्राह्मणा हि परं तपः
ब्राह्मणानां नमस्कारैः सूर्यो दिवि विराजते
अमानयन्हि मानार्हान्वातापिश्च महासुरः
निहतो ब्रह्मदण्डेन तालजङ्घस्तथैव च
सोऽयं वत्से महाभार आहितस्त्वयि सांप्रतम्
त्वं सदा नियता कुर्या ब्राह्मणस्याभिराधनम्
जानामि प्रणिधानं ते बाल्यात्प्रभृति नन्दिनि
ब्राह्मणेष्विह सर्वेषु गुरुबन्धुषु चैव ह
तथा प्रेष्येषु सर्वेषु मित्रसंबन्धिमातृषु
मयि चैव यथावत्त्वं सर्वमादृत्य वर्तसे
न ह्यतुष्टो जनोऽस्तीह पुरे चान्तःपुरे च ते
सम्यग्वृत्त्यानवद्याङ्गि तव भृत्यजनेष्वपि
संदेष्टव्यां तु मन्ये त्वां द्विजातिं कोपनं प्रति
पृथे बालेति कृत्वा वै सुता चासि ममेति च
वृष्णीनां त्वं कुले जाता शूरस्य दयिता सुता
दत्ता प्रीतिमता मह्यं पित्रा बाला पुरा स्वयम्
वसुदेवस्य भगिनी सुतानां प्रवरा मम
अग्र्यमग्रे प्रतिज्ञाय तेनासि दुहिता मम
तादृशे हि कुले जाता कुले चैव विवर्धिता
सुखात्सुखमनुप्राप्ता ह्रदाद्ध्रदमिवागता
दौष्कुलेया विशेषेण कथंचित्प्रग्रहं गताः
बालभावाद्विकुर्वन्ति प्रायशः प्रमदाः शुभे
पृथे राजकुले जन्म रूपं चाद्भुतदर्शनम्
तेन तेनासि संपन्ना समुपेता च भामिनी
सा त्वं दर्पं परित्यज्य दम्भं मानं च भामिनि
आराध्य वरदं विप्रं श्रेयसा योक्ष्यसे पृथे
एवं प्राप्स्यसि कल्याणि कल्याणमनघे ध्रुवम्
कोपिते तु द्विजश्रेष्ठे कृत्स्नं दह्येत मे कुलम्