Mahabharata

Vana Parva, Adhyaya 285

Containing 17 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Vana Parva, Adhyaya 285, Verse 1

माहितं कर्ण कार्षीस्त्वमात्मनः सुहृदां तथा

पुत्राणामथ भार्याणामथो मातुरथो पितुः

Mahabharata

Vana Parva, Adhyaya 285, Verse 2

शरीरस्याविरोधेन प्राणिनां प्राणभृद्वर

इष्यते यशसः प्राप्तिः कीर्तिश्च त्रिदिवे स्थिरा

Mahabharata

Vana Parva, Adhyaya 285, Verse 3

यस्त्वं प्राणविरोधेन कीर्तिमिच्छसि शाश्वतीम्

सा ते प्राणान्समादाय गमिष्यति न संशयः

Mahabharata

Vana Parva, Adhyaya 285, Verse 4

जीवतां कुरुते कार्यं पिता माता सुतास्तथा

ये चान्ये बान्धवाः केचिल्लोकेऽस्मिन्पुरुषर्षभ

राजानश्च नरव्याघ्र पौरुषेण निबोध तत्

Mahabharata

Vana Parva, Adhyaya 285, Verse 5

कीर्तिश्च जीवतः साध्वी पुरुषस्य महाद्युते

मृतस्य कीर्त्या किं कार्यं भस्मीभूतस्य देहिनः

मृतः कीर्तिं न जानाति जीवन्कीर्तिं समश्नुते

Mahabharata

Vana Parva, Adhyaya 285, Verse 6

मृतस्य कीर्तिर्मर्त्यस्य यथा माला गतायुषः

अहं तु त्वां ब्रवीम्येतद्भक्तोऽसीति हितेप्सया

Mahabharata

Vana Parva, Adhyaya 285, Verse 7

भक्तिमन्तो हि मे रक्ष्या इत्येतेनापि हेतुना

भक्तोऽयं परया भक्त्या मामित्येव महाभुज

ममापि भक्तिरुत्पन्ना स त्वं कुरु वचो मम

Mahabharata

Vana Parva, Adhyaya 285, Verse 8

अस्ति चात्र परं किंचिदध्यात्मं देवनिर्मितम्

अतश्च त्वां ब्रवीम्येतत्क्रियतामविशङ्कया

Mahabharata

Vana Parva, Adhyaya 285, Verse 9

देवगुह्यं त्वया ज्ञातुं न शक्यं पुरुषर्षभ

तस्मान्नाख्यामि ते गुह्यं काले वेत्स्यति तद्भवान्

Mahabharata

Vana Parva, Adhyaya 285, Verse 10

पुनरुक्तं च वक्ष्यामि त्वं राधेय निबोध तत्

मास्मै ते कुण्डले दद्या भिक्षवे वज्रपाणये

Mahabharata

Vana Parva, Adhyaya 285, Verse 11

शोभसे कुण्डलाभ्यां हि रुचिराभ्यां महाद्युते

विशाखयोर्मध्यगतः शशीव विमलो दिवि

Mahabharata

Vana Parva, Adhyaya 285, Verse 12

कीर्तिश्च जीवतः साध्वी पुरुषस्येति विद्धि तत्

प्रत्याख्येयस्त्वया तात कुण्डलार्थे पुरंदरः

Mahabharata

Vana Parva, Adhyaya 285, Verse 13

शक्या बहुविधैर्वाक्यैः कुण्डलेप्सा त्वयानघ

विहन्तुं देवराजस्य हेतुयुक्तैः पुनः पुनः

Mahabharata

Vana Parva, Adhyaya 285, Verse 14

उपपत्त्युपपन्नार्थैर्माधुर्यकृतभूषणैः

पुरंदरस्य कर्ण त्वं बुद्धिमेतामपानुद

Mahabharata

Vana Parva, Adhyaya 285, Verse 15

त्वं हि नित्यं नरव्याघ्र स्पर्धसे सव्यसाचिना

सव्यसाची त्वया चैव युधि शूरः समेष्यति

Mahabharata

Vana Parva, Adhyaya 285, Verse 16

न तु त्वामर्जुनः शक्तः कुण्डलाभ्यां समन्वितम्

विजेतुं युधि यद्यस्य स्वयमिन्द्रः शरो भवेत्

Mahabharata

Vana Parva, Adhyaya 285, Verse 17

तस्मान्न देये शक्राय त्वयैते कुण्डले शुभे

संग्रामे यदि निर्जेतुं कर्ण कामयसेऽर्जुनम्