Mahabharata

Vana Parva, Adhyaya 284

Containing 39 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Vana Parva, Adhyaya 284, Verse 1

यत्तत्तदा महाब्रह्मँल्लोमशो वाक्यमब्रवीत्

इन्द्रस्य वचनादेत्य पाण्डुपुत्रं युधिष्ठिरम्

Mahabharata

Vana Parva, Adhyaya 284, Verse 2

यच्चापि ते भयं तीव्रं न च कीर्तयसे क्वचित्

तच्चाप्यपहरिष्यामि सव्यसाचाविहागते

Mahabharata

Vana Parva, Adhyaya 284, Verse 3

किं नु तद्विदुषां श्रेष्ठ कर्णं प्रति महद्भयम्

आसीन्न च स धर्मात्मा कथयामास कस्यचित्

Mahabharata

Vana Parva, Adhyaya 284, Verse 4

अहं ते राजशार्दूल कथयामि कथामिमाम्

पृच्छते भरतश्रेष्ठ शुश्रूषस्व गिरं मम

Mahabharata

Vana Parva, Adhyaya 284, Verse 5

द्वादशे समतिक्रान्ते वर्षे प्राप्ते त्रयोदशे

पाण्डूनां हितकृच्छक्रः कर्णं भिक्षितुमुद्यतः

Mahabharata

Vana Parva, Adhyaya 284, Verse 6

अभिप्रायमथो ज्ञात्वा महेन्द्रस्य विभावसुः

कुण्डलार्थे महाराज सूर्यः कर्णमुपागमत्

Mahabharata

Vana Parva, Adhyaya 284, Verse 7

महार्हे शयने वीरं स्पर्ध्यास्तरणसंवृते

शयानमभिविश्वस्तं ब्रह्मण्यं सत्यवादिनम्

Mahabharata

Vana Parva, Adhyaya 284, Verse 8

स्वप्नान्ते निशि राजेन्द्र दर्शयामास रश्मिवान्

कृपया परयाविष्टः पुत्रस्नेहाच्च भारत

Mahabharata

Vana Parva, Adhyaya 284, Verse 9

ब्राह्मणो वेदविद्भूत्वा सूर्यो योगाद्धि रूपवान्

हितार्थमब्रवीत्कर्णं सान्त्वपूर्वमिदं वचः

Mahabharata

Vana Parva, Adhyaya 284, Verse 10

कर्ण मद्वचनं तात शृणु सत्यभृतां वर

ब्रुवतोऽद्य महाबाहो सौहृदात्परमं हितम्

Mahabharata

Vana Parva, Adhyaya 284, Verse 11

उपायास्यति शक्रस्त्वां पाण्डवानां हितेप्सया

ब्राह्मणच्छद्मना कर्ण कुण्डलापजिहीर्षया

Mahabharata

Vana Parva, Adhyaya 284, Verse 12

विदितं तेन शीलं ते सर्वस्य जगतस्तथा

यथा त्वं भिक्षितः सद्भिर्ददास्येव न याचसे

Mahabharata

Vana Parva, Adhyaya 284, Verse 13

त्वं हि तात ददास्येव ब्राह्मणेभ्यः प्रयाचितः

वित्तं यच्चान्यदप्याहुर्न प्रत्याख्यासि कर्हिचित्

Mahabharata

Vana Parva, Adhyaya 284, Verse 14

तं त्वामेवंविधं ज्ञात्वा स्वयं वै पाकशासनः

आगन्ता कुण्डलार्थाय कवचं चैव भिक्षितुम्

Mahabharata

Vana Parva, Adhyaya 284, Verse 15

तस्मै प्रयाचमानाय न देये कुण्डले त्वया

अनुनेयः परं शक्त्या श्रेय एतद्धि ते परम्

Mahabharata

Vana Parva, Adhyaya 284, Verse 16

कुण्डलार्थे ब्रुवंस्तात कारणैर्बहुभिस्त्वया

अन्यैर्बहुविधैर्वित्तैः स निवार्यः पुनः पुनः

Mahabharata

Vana Parva, Adhyaya 284, Verse 17

रत्नैः स्त्रीभिस्तथा भोगैर्धनैर्बहुविधैरपि

निदर्शनैश्च बहुभिः कुण्डलेप्सुः पुरंदरः

Mahabharata

Vana Parva, Adhyaya 284, Verse 18

यदि दास्यसि कर्ण त्वं सहजे कुण्डले शुभे

आयुषः प्रक्षयं गत्वा मृत्योर्वशमुपेष्यसि

Mahabharata

Vana Parva, Adhyaya 284, Verse 19

कवचेन च संयुक्तः कुण्डलाभ्यां च मानद

अवध्यस्त्वं रणेऽरीणामिति विद्धि वचो मम

Mahabharata

Vana Parva, Adhyaya 284, Verse 20

अमृतादुत्थितं ह्येतदुभयं रत्नसंभवम्

तस्माद्रक्ष्यं त्वया कर्ण जीवितं चेत्प्रियं तव

Mahabharata

Vana Parva, Adhyaya 284, Verse 21

को मामेवं भवान्प्राह दर्शयन्सौहृदं परम्

कामया भगवन्ब्रूहि को भवान्द्विजवेषधृक्

Mahabharata

Vana Parva, Adhyaya 284, Verse 22

अहं तात सहस्रांशुः सौहृदात्त्वां निदर्शये

कुरुष्वैतद्वचो मे त्वमेतच्छ्रेयः परं हि ते

Mahabharata

Vana Parva, Adhyaya 284, Verse 23

श्रेय एव ममात्यन्तं यस्य मे गोपतिः प्रभुः

प्रवक्ताद्य हितान्वेषी शृणु चेदं वचो मम

Mahabharata

Vana Parva, Adhyaya 284, Verse 24

प्रसादये त्वां वरदं प्रणयाच्च ब्रवीम्यहम्

न निवार्यो व्रतादस्मादहं यद्यस्मि ते प्रियः

Mahabharata

Vana Parva, Adhyaya 284, Verse 25

व्रतं वै मम लोकोऽयं वेत्ति कृत्स्नो विभावसो

यथाहं द्विजमुख्येभ्यो दद्यां प्राणानपि ध्रुवम्

Mahabharata

Vana Parva, Adhyaya 284, Verse 26

यद्यागच्छति शक्रो मां ब्राह्मणच्छद्मनावृतः

हितार्थं पाण्डुपुत्राणां खेचरोत्तम भिक्षितुम्

Mahabharata

Vana Parva, Adhyaya 284, Verse 27

दास्यामि विबुधश्रेष्ठ कुण्डले वर्म चोत्तमम्

न मे कीर्तिः प्रणश्येत त्रिषु लोकेषु विश्रुता

Mahabharata

Vana Parva, Adhyaya 284, Verse 28

मद्विधस्यायशस्यं हि न युक्तं प्राणरक्षणम्

युक्तं हि यशसा युक्तं मरणं लोकसंमतम्

Mahabharata

Vana Parva, Adhyaya 284, Verse 29

सोऽहमिन्द्राय दास्यामि कुण्डले सह वर्मणा

यदि मां बलवृत्रघ्नो भिक्षार्थमुपयास्यति

Mahabharata

Vana Parva, Adhyaya 284, Verse 30

हितार्थं पाण्डुपुत्राणां कुण्डले मे प्रयाचितुम्

तन्मे कीर्तिकरं लोके तस्याकीर्तिर्भविष्यति