Vana Parva, Adhyaya 283, Verse 1
तस्यां रात्र्यां व्यतीतायामुदिते सूर्यमण्डले
कृतपूर्वाह्णिकाः सर्वे समेयुस्ते तपोधनाः
Containing 16 sacred Sanskrit shlokas with multi-author commentaries and translations.
तस्यां रात्र्यां व्यतीतायामुदिते सूर्यमण्डले
कृतपूर्वाह्णिकाः सर्वे समेयुस्ते तपोधनाः
तदेव सर्वं सावित्र्या महाभाग्यं महर्षयः
द्युमत्सेनाय नातृप्यन्कथयन्तः पुनः पुनः
ततः प्रकृतयः सर्वाः शाल्वेभ्योऽभ्यागता नृप
आचख्युर्निहतं चैव स्वेनामात्येन तं नृपम्
तं मन्त्रिणा हतं श्रुत्वा ससहायं सबान्धवम्
न्यवेदयन्यथातत्त्वं विद्रुतं च द्विषद्बलम्
ऐकमत्यं च सर्वस्य जनस्याथ नृपं प्रति
सचक्षुर्वाप्यचक्षुर्वा स नो राजा भवत्विति
अनेन निश्चयेनेह वयं प्रस्थापिता नृप
प्राप्तानीमानि यानानि चतुरङ्गं च ते बलम्
प्रयाहि राजन्भद्रं ते घुष्टस्ते नगरे जयः
अध्यास्स्व चिररात्राय पितृपैतामहं पदम्
चक्षुष्मन्तं च तं दृष्ट्वा राजानं वपुषान्वितम्
मूर्धभिः पतिताः सर्वे विस्मयोत्फुल्ललोचनाः
ततोऽभिवाद्य तान्वृद्धान्द्विजानाश्रमवासिनः
तैश्चाभिपूजितः सर्वैः प्रययौ नगरं प्रति
शैब्या च सह सावित्र्या स्वास्तीर्णेन सुवर्चसा
नरयुक्तेन यानेन प्रययौ सेनया वृता
ततोऽभिषिषिचुः प्रीत्या द्युमत्सेनं पुरोहिताः
पुत्रं चास्य महात्मानं यौवराज्येऽभ्यषेचयन्
ततः कालेन महता सावित्र्याः कीर्तिवर्धनम्
तद्वै पुत्रशतं जज्ञे शूराणामनिवर्तिनाम्
भ्रातॄणां सोदराणां च तथैवास्याभवच्छतम्
मद्राधिपस्याश्वपतेर्मालव्यां सुमहाबलम्
एवमात्मा पिता माता श्वश्रूः श्वशुर एव च
भर्तुः कुलं च सावित्र्या सर्वं कृच्छ्रात्समुद्धृतम्
तथैवैषापि कल्याणी द्रौपदी शीलसंमता
तारयिष्यति वः सर्वान्सावित्रीव कुलाङ्गना
एवं स पाण्डवस्तेन अनुनीतो महात्मना
विशोको विज्वरो राजन्काम्यके न्यवसत्तदा