Vana Parva, Adhyaya 281, Verse 1
अथ भार्यासहायः स फलान्यादाय वीर्यवान्
कठिनं पूरयामास ततः काष्ठान्यपाटयत्
Containing 108 sacred Sanskrit shlokas with multi-author commentaries and translations.
अथ भार्यासहायः स फलान्यादाय वीर्यवान्
कठिनं पूरयामास ततः काष्ठान्यपाटयत्
तस्य पाटयतः काष्ठं स्वेदो वै समजायत
व्यायामेन च तेनास्य जज्ञे शिरसि वेदना
सोऽभिगम्य प्रियां भार्यामुवाच श्रमपीडितः
व्यायामेन ममानेन जाता शिरसि वेदना
अङ्गानि चैव सावित्रि हृदयं दूयतीव च
अस्वस्थमिव चात्मानं लक्षये मितभाषिणि
शूलैरिव शिरो विद्धमिदं संलक्षयाम्यहम्
तत्स्वप्तुमिच्छे कल्याणि न स्थातुं शक्तिरस्ति मे
समासाद्याथ सावित्री भर्तारमुपगूह्य च
उत्सङ्गेऽस्य शिरः कृत्वा निषसाद महीतले
ततः सा नारदवचो विमृशन्ती तपस्विनी
तं मुहूर्तं क्षणं वेलां दिवसं च युयोज ह
मुहूर्तादिव चापश्यत्पुरुषं पीतवाससम्
बद्धमौलिं वपुष्मन्तमादित्यसमतेजसम्
श्यामावदातं रक्ताक्षं पाशहस्तं भयावहम्
स्थितं सत्यवतः पार्श्वे निरीक्षन्तं तमेव च
तं दृष्ट्वा सहसोत्थाय भर्तुर्न्यस्य शनैः शिरः
कृताञ्जलिरुवाचार्ता हृदयेन प्रवेपता
दैवतं त्वाभिजानामि वपुरेतद्ध्यमानुषम्
कामया ब्रूहि मे देव कस्त्वं किं च चिकीर्षसि
पतिव्रतासि सावित्रि तथैव च तपोन्विता
अतस्त्वामभिभाषामि विद्धि मां त्वं शुभे यमम्
अयं ते सत्यवान्भर्ता क्षीणायुः पार्थिवात्मजः
नेष्याम्येनमहं बद्ध्वा विद्ध्येतन्मे चिकीर्षितम्
इत्युक्त्वा पितृराजस्तां भगवान्स्वं चिकीर्षितम्
यथावत्सर्वमाख्यातुं तत्प्रियार्थं प्रचक्रमे
अयं हि धर्मसंयुक्तो रूपवान्गुणसागरः
नार्हो मत्पुरुषैर्नेतुमतोऽस्मि स्वयमागतः
ततः सत्यवतः कायात्पाशबद्धं वशं गतम्
अङ्गुष्ठमात्रं पुरुषं निश्चकर्ष यमो बलात्
ततः समुद्धृतप्राणं गतश्वासं हतप्रभम्
निर्विचेष्टं शरीरं तद्बभूवाप्रियदर्शनम्
यमस्तु तं तथा बद्ध्वा प्रयातो दक्षिणामुखः
सावित्री चापि दुःखार्ता यममेवान्वगच्छत
नियमव्रतसंसिद्धा महाभागा पतिव्रता
निवर्त गच्छ सावित्रि कुरुष्वास्यौर्ध्वदेहिकम्
कृतं भर्तुस्त्वयानृण्यं यावद्गम्यं गतं त्वया
यत्र मे नीयते भर्ता स्वयं वा यत्र गच्छति
मयापि तत्र गन्तव्यमेष धर्मः सनातनः
तपसा गुरुवृत्त्या च भर्तुः स्नेहाद्व्रतेन च
तव चैव प्रसादेन न मे प्रतिहता गतिः
प्राहुः सप्तपदं मित्रं बुधास्तत्त्वार्थदर्शिनः
मित्रतां च पुरस्कृत्य किंचिद्वक्ष्यामि तच्छृणु
नानात्मवन्तस्तु वने चरन्ति; धर्मं च वासं च परिश्रमं च
विज्ञानतो धर्ममुदाहरन्ति; तस्मात्सन्तो धर्ममाहुः प्रधानम्
एकस्य धर्मेण सतां मतेन; सर्वे स्म तं मार्गमनुप्रपन्नाः
मा वै द्वितीयं मा तृतीयं च वाञ्छे; तस्मात्सन्तो धर्ममाहुः प्रधानम्
निवर्त तुष्टोऽस्मि तवानया गिरा; स्वराक्षरव्यञ्जनहेतुयुक्तया
वरं वृणीष्वेह विनास्य जीवितं; ददानि ते सर्वमनिन्दिते वरम्
च्युतः स्वराज्याद्वनवासमाश्रितो; विनष्टचक्षुः श्वशुरो ममाश्रमे
स लब्धचक्षुर्बलवान्भवेन्नृप;स्तव प्रसादाज्ज्वलनार्कसंनिभः
ददानि ते सर्वमनिन्दिते वरं; यथा त्वयोक्तं भविता च तत्तथा
तवाध्वना ग्लानिमिवोपलक्षये; निवर्त गच्छस्व न ते श्रमो भवेत्
कुतः श्रमो भर्तृसमीपतो हि मे; यतो हि भर्ता मम सा गतिर्ध्रुवा
यतः पतिं नेष्यसि तत्र मे गतिः; सुरेश भूयश्च वचो निबोध मे
सतां सकृत्संगतमीप्सितं परं; ततः परं मित्रमिति प्रचक्षते
न चाफलं सत्पुरुषेण संगतं; ततः सतां संनिवसेत्समागमे
मनोनुकूलं बुधबुद्धिवर्धनं; त्वयाहमुक्तो वचनं हिताश्रयम्
विना पुनः सत्यवतोऽस्य जीवितं; वरं द्वितीयं वरयस्व भामिनि