Mahabharata

Vana Parva, Adhyaya 280

Containing 33 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Vana Parva, Adhyaya 280, Verse 1

ततः काले बहुतिथे व्यतिक्रान्ते कदाचन

प्राप्तः स कालो मर्तव्यं यत्र सत्यवता नृप

Mahabharata

Vana Parva, Adhyaya 280, Verse 2

गणयन्त्याश्च सावित्र्या दिवसे दिवसे गते

तद्वाक्यं नारदेनोक्तं वर्तते हृदि नित्यशः

Mahabharata

Vana Parva, Adhyaya 280, Verse 3

चतुर्थेऽहनि मर्तव्यमिति संचिन्त्य भामिनी

व्रतं त्रिरात्रमुद्दिश्य दिवारात्रं स्थिताभवत्

Mahabharata

Vana Parva, Adhyaya 280, Verse 4

तं श्रुत्वा नियमं दुःखं वध्वा दुःखान्वितो नृपः

उत्थाय वाक्यं सावित्रीमब्रवीत्परिसान्त्वयन्

Mahabharata

Vana Parva, Adhyaya 280, Verse 5

अतितीव्रोऽयमारम्भस्त्वयारब्धो नृपात्मजे

तिसृणां वसतीनां हि स्थानं परमदुष्करम्

Mahabharata

Vana Parva, Adhyaya 280, Verse 6

न कार्यस्तात संतापः पारयिष्याम्यहं व्रतम्

व्यवसायकृतं हीदं व्यवसायश्च कारणम्

Mahabharata

Vana Parva, Adhyaya 280, Verse 7

व्रतं भिन्धीति वक्तुं त्वां नास्मि शक्तः कथंचन

पारयस्वेति वचनं युक्तमस्मद्विधो वदेत्

Mahabharata

Vana Parva, Adhyaya 280, Verse 8

एवमुक्त्वा द्युमत्सेनो विरराम महामनाः

तिष्ठन्ती चापि सावित्री काष्ठभूतेव लक्ष्यते

Mahabharata

Vana Parva, Adhyaya 280, Verse 9

श्वोभूते भर्तृमरणे सावित्र्या भरतर्षभ

दुःखान्वितायास्तिष्ठन्त्याः सा रात्रिर्व्यत्यवर्तत

Mahabharata

Vana Parva, Adhyaya 280, Verse 10

अद्य तद्दिवसं चेति हुत्वा दीप्तं हुताशनम्

युगमात्रोदिते सूर्ये कृत्वा पौर्वाह्णिकीः क्रियाः

Mahabharata

Vana Parva, Adhyaya 280, Verse 11

ततः सर्वान्द्विजान्वृद्धाञ्श्वश्रूं श्वशुरमेव च

अभिवाद्यानुपूर्व्येण प्राञ्जलिर्नियता स्थिता

Mahabharata

Vana Parva, Adhyaya 280, Verse 12

अवैधव्याशिषस्ते तु सावित्र्यर्थं हिताः शुभाः

ऊचुस्तपस्विनः सर्वे तपोवननिवासिनः

Mahabharata

Vana Parva, Adhyaya 280, Verse 13

एवमस्त्विति सावित्री ध्यानयोगपरायणा

मनसा ता गिरः सर्वाः प्रत्यगृह्णात्तपस्विनाम्

Mahabharata

Vana Parva, Adhyaya 280, Verse 14

तं कालं च मुहूर्तं च प्रतीक्षन्ती नृपात्मजा

यथोक्तं नारदवचश्चिन्तयन्ती सुदुःखिता

Mahabharata

Vana Parva, Adhyaya 280, Verse 15

ततस्तु श्वश्रूश्वशुरावूचतुस्तां नृपात्मजाम्

एकान्तस्थामिदं वाक्यं प्रीत्या भरतसत्तम

Mahabharata

Vana Parva, Adhyaya 280, Verse 16

व्रतो यथोपदिष्टोऽयं यथावत्पारितस्त्वया

आहारकालः संप्राप्तः क्रियतां यदनन्तरम्

Mahabharata

Vana Parva, Adhyaya 280, Verse 17

अस्तं गते मयादित्ये भोक्तव्यं कृतकामया

एष मे हृदि संकल्पः समयश्च कृतो मया

Mahabharata

Vana Parva, Adhyaya 280, Verse 18

एवं संभाषमाणायाः सावित्र्या भोजनं प्रति

स्कन्धे परशुमादाय सत्यवान्प्रस्थितो वनम्

Mahabharata

Vana Parva, Adhyaya 280, Verse 19

सावित्री त्वाह भर्तारं नैकस्त्वं गन्तुमर्हसि

सह त्वयागमिष्यामि न हि त्वां हातुमुत्सहे

Mahabharata

Vana Parva, Adhyaya 280, Verse 20

वनं न गतपूर्वं ते दुःखः पन्थाश्च भामिनि

व्रतोपवासक्षामा च कथं पद्भ्यां गमिष्यसि

Mahabharata

Vana Parva, Adhyaya 280, Verse 21

उपवासान्न मे ग्लानिर्नास्ति चापि परिश्रमः

गमने च कृतोत्साहां प्रतिषेद्धुं न मार्हसि

Mahabharata

Vana Parva, Adhyaya 280, Verse 22

यदि ते गमनोत्साहः करिष्यामि तव प्रियम्

मम त्वामन्त्रय गुरून्न मां दोषः स्पृशेदयम्

Mahabharata

Vana Parva, Adhyaya 280, Verse 23

साभिगम्याब्रवीच्छ्वश्रूं श्वशुरं च महाव्रता

अयं गच्छति मे भर्ता फलाहारो महावनम्

Mahabharata

Vana Parva, Adhyaya 280, Verse 24

इच्छेयमभ्यनुज्ञातुमार्यया श्वशुरेण च

अनेन सह निर्गन्तुं न हि मे विरहः क्षमः

Mahabharata

Vana Parva, Adhyaya 280, Verse 25

गुर्वग्निहोत्रार्थकृते प्रस्थितश्च सुतस्तव

न निवार्यो निवार्यः स्यादन्यथा प्रस्थितो वनम्

Mahabharata

Vana Parva, Adhyaya 280, Verse 26

संवत्सरः किंचिदूनो न निष्क्रान्ताहमाश्रमात्

वनं कुसुमितं द्रष्टुं परं कौतूहलं हि मे

Mahabharata

Vana Parva, Adhyaya 280, Verse 27

यतः प्रभृति सावित्री पित्रा दत्ता स्नुषा मम

नानयाभ्यर्थनायुक्तमुक्तपूर्वं स्मराम्यहम्

Mahabharata

Vana Parva, Adhyaya 280, Verse 28

तदेषा लभतां कामं यथाभिलषितं वधूः

अप्रमादश्च कर्तव्यः पुत्रि सत्यवतः पथि

Mahabharata

Vana Parva, Adhyaya 280, Verse 29

उभाभ्यामभ्यनुज्ञाता सा जगाम यशस्विनी

सह भर्त्रा हसन्तीव हृदयेन विदूयता

Mahabharata

Vana Parva, Adhyaya 280, Verse 30

सा वनानि विचित्राणि रमणीयानि सर्वशः

मयूररवघुष्टानि ददर्श विपुलेक्षणा