Mahabharata

Vana Parva, Adhyaya 279

Containing 23 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Vana Parva, Adhyaya 279, Verse 1

अथ कन्याप्रदाने स तमेवार्थं विचिन्तयन्

समानिन्ये च तत्सर्वं भाण्डं वैवाहिकं नृपः

Mahabharata

Vana Parva, Adhyaya 279, Verse 2

ततो वृद्धान्द्विजान्सर्वानृत्विजः सपुरोहितान्

समाहूय तिथौ पुण्ये प्रययौ सह कन्यया

Mahabharata

Vana Parva, Adhyaya 279, Verse 3

मेध्यारण्यं स गत्वा च द्युमत्सेनाश्रमं नृपः

पद्भ्यामेव द्विजैः सार्धं राजर्षिं तमुपागमत्

Mahabharata

Vana Parva, Adhyaya 279, Verse 4

तत्रापश्यन्महाभागं शालवृक्षमुपाश्रितम्

कौश्यां बृस्यां समासीनं चक्षुर्हीनं नृपं तदा

Mahabharata

Vana Parva, Adhyaya 279, Verse 5

स राजा तस्य राजर्षेः कृत्वा पूजां यथार्हतः

वाचा सुनियतो भूत्वा चकारात्मनिवेदनम्

Mahabharata

Vana Parva, Adhyaya 279, Verse 6

तस्यार्घ्यमासनं चैव गां चावेद्य स धर्मवित्

किमागमनमित्येवं राजा राजानमब्रवीत्

Mahabharata

Vana Parva, Adhyaya 279, Verse 7

तस्य सर्वमभिप्रायमितिकर्तव्यतां च ताम्

सत्यवन्तं समुद्दिश्य सर्वमेव न्यवेदयत्

Mahabharata

Vana Parva, Adhyaya 279, Verse 8

सावित्री नाम राजर्षे कन्येयं मम शोभना

तां स्वधर्मेण धर्मज्ञ स्नुषार्थे त्वं गृहाण मे

Mahabharata

Vana Parva, Adhyaya 279, Verse 9

च्युताः स्म राज्याद्वनवासमाश्रिता;श्चराम धर्मं नियतास्तपस्विनः

कथं त्वनर्हा वनवासमाश्रमे; सहिष्यते क्लेशमिमं सुता तव

Mahabharata

Vana Parva, Adhyaya 279, Verse 10

सुखं च दुःखं च भवाभवात्मकं; यदा विजानाति सुताहमेव च

न मद्विधे युज्यति वाक्यमीदृशं; विनिश्चयेनाभिगतोऽस्मि ते नृप

Mahabharata

Vana Parva, Adhyaya 279, Verse 11

आशां नार्हसि मे हन्तुं सौहृदात्प्रणयेन च

अभितश्चागतं प्रेम्णा प्रत्याख्यातुं न मार्हसि

Mahabharata

Vana Parva, Adhyaya 279, Verse 12

अनुरूपो हि संयोगे त्वं ममाहं तवापि च

स्नुषां प्रतीच्छ मे कन्यां भार्यां सत्यवतः सुताम्

Mahabharata

Vana Parva, Adhyaya 279, Verse 13

पूर्वमेवाभिलषितः संबन्धो मे त्वया सह

भ्रष्टराज्यस्त्वहमिति तत एतद्विचारितम्

Mahabharata

Vana Parva, Adhyaya 279, Verse 14

अभिप्रायस्त्वयं यो मे पूर्वमेवाभिकाङ्क्षितः

स निर्वर्ततु मेऽद्यैव काङ्क्षितो ह्यसि मेऽतिथिः

Mahabharata

Vana Parva, Adhyaya 279, Verse 15

ततः सर्वान्समानीय द्विजानाश्रमवासिनः

यथाविधि समुद्वाहं कारयामासतुर्नृपौ

Mahabharata

Vana Parva, Adhyaya 279, Verse 16

दत्त्वा त्वश्वपतिः कन्यां यथार्हं च परिच्छदम्

ययौ स्वमेव भवनं युक्तः परमया मुदा

Mahabharata

Vana Parva, Adhyaya 279, Verse 17

सत्यवानपि भार्यां तां लब्ध्वा सर्वगुणान्विताम्

मुमुदे सा च तं लब्ध्वा भर्तारं मनसेप्सितम्

Mahabharata

Vana Parva, Adhyaya 279, Verse 18

गते पितरि सर्वाणि संन्यस्याभरणानि सा

जगृहे वल्कलान्येव वस्त्रं काषायमेव च

Mahabharata

Vana Parva, Adhyaya 279, Verse 19

परिचारैर्गुणैश्चैव प्रश्रयेण दमेन च

सर्वकामक्रियाभिश्च सर्वेषां तुष्टिमावहत्

Mahabharata

Vana Parva, Adhyaya 279, Verse 20

श्वश्रूं शरीरसत्कारैः सर्वैराच्छादनादिभिः

श्वशुरं देवकार्यैश्च वाचः संयमनेन च

Mahabharata

Vana Parva, Adhyaya 279, Verse 21

तथैव प्रियवादेन नैपुणेन शमेन च

रहश्चैवोपचारेण भर्तारं पर्यतोषयत्

Mahabharata

Vana Parva, Adhyaya 279, Verse 22

एवं तत्राश्रमे तेषां तदा निवसतां सताम्

कालस्तपस्यतां कश्चिदतिचक्राम भारत

Mahabharata

Vana Parva, Adhyaya 279, Verse 23

सावित्र्यास्तु शयानायास्तिष्ठन्त्याश्च दिवानिशम्

नारदेन यदुक्तं तद्वाक्यं मनसि वर्तते