Mahabharata

Vana Parva, Adhyaya 278

Containing 32 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Vana Parva, Adhyaya 278, Verse 1

अथ मद्राधिपो राजा नारदेन समागतः

उपविष्टः सभामध्ये कथायोगेन भारत

Mahabharata

Vana Parva, Adhyaya 278, Verse 2

ततोऽभिगम्य तीर्थानि सर्वाण्येवाश्रमांस्तथा

आजगाम पितुर्वेश्म सावित्री सह मन्त्रिभिः

Mahabharata

Vana Parva, Adhyaya 278, Verse 3

नारदेन सहासीनं दृष्ट्वा सा पितरं शुभा

उभयोरेव शिरसा चक्रे पादाभिवन्दनम्

Mahabharata

Vana Parva, Adhyaya 278, Verse 4

क्व गताभूत्सुतेयं ते कुतश्चैवागता नृप

किमर्थं युवतीं भर्त्रे न चैनां संप्रयच्छसि

Mahabharata

Vana Parva, Adhyaya 278, Verse 5

कार्येण खल्वनेनैव प्रेषिताद्यैव चागता

तदस्याः शृणु देवर्षे भर्तारं योऽनया वृतः

Mahabharata

Vana Parva, Adhyaya 278, Verse 6

सा ब्रूहि विस्तरेणेति पित्रा संचोदिता शुभा

दैवतस्येव वचनं प्रतिगृह्येदमब्रवीत्

Mahabharata

Vana Parva, Adhyaya 278, Verse 7

आसीच्छाल्वेषु धर्मात्मा क्षत्रियः पृथिवीपतिः

द्युमत्सेन इति ख्यातः पश्चादन्धो बभूव ह

Mahabharata

Vana Parva, Adhyaya 278, Verse 8

विनष्टचक्षुषस्तस्य बालपुत्रस्य धीमतः

सामीप्येन हृतं राज्यं छिद्रेऽस्मिन्पूर्ववैरिणा

Mahabharata

Vana Parva, Adhyaya 278, Verse 9

स बालवत्सया सार्धं भार्यया प्रस्थितो वनम्

महारण्यगतश्चापि तपस्तेपे महाव्रतः

Mahabharata

Vana Parva, Adhyaya 278, Verse 10

तस्य पुत्रः पुरे जातः संवृद्धश्च तपोवने

सत्यवाननुरूपो मे भर्तेति मनसा वृतः

Mahabharata

Vana Parva, Adhyaya 278, Verse 11

अहो बत महत्पापं सावित्र्या नृपते कृतम्

अजानन्त्या यदनया गुणवान्सत्यवान्वृतः

Mahabharata

Vana Parva, Adhyaya 278, Verse 12

सत्यं वदत्यस्य पिता सत्यं माता प्रभाषते

ततोऽस्य ब्राह्मणाश्चक्रुर्नामैतत्सत्यवानिति

Mahabharata

Vana Parva, Adhyaya 278, Verse 13

बालस्याश्वाः प्रियाश्चास्य करोत्यश्वांश्च मृन्मयान्

चित्रेऽपि च लिखत्यश्वांश्चित्राश्व इति चोच्यते

Mahabharata

Vana Parva, Adhyaya 278, Verse 14

अपीदानीं स तेजस्वी बुद्धिमान्वा नृपात्मजः

क्षमावानपि वा शूरः सत्यवान्पितृनन्दनः

Mahabharata

Vana Parva, Adhyaya 278, Verse 15

विवस्वानिव तेजस्वी बृहस्पतिसमो मतौ

महेन्द्र इव शूरश्च वसुधेव क्षमान्वितः

Mahabharata

Vana Parva, Adhyaya 278, Verse 16

अपि राजात्मजो दाता ब्रह्मण्यो वापि सत्यवान्

रूपवानप्युदारो वाप्यथ वा प्रियदर्शनः

Mahabharata

Vana Parva, Adhyaya 278, Verse 17

साङ्कृते रन्तिदेवस्य स शक्त्या दानतः समः

ब्रह्मण्यः सत्यवादी च शिबिरौशीनरो यथा

Mahabharata

Vana Parva, Adhyaya 278, Verse 18

ययातिरिव चोदारः सोमवत्प्रियदर्शनः

रूपेणान्यतमोऽश्विभ्यां द्युमत्सेनसुतो बली

Mahabharata

Vana Parva, Adhyaya 278, Verse 19

स दान्तः स मृदुः शूरः स सत्यः स जितेन्द्रियः

स मैत्रः सोऽनसूयश्च स ह्रीमान्धृतिमांश्च सः

Mahabharata

Vana Parva, Adhyaya 278, Verse 20

नित्यशश्चार्जवं तस्मिन्स्थितिस्तस्यैव च ध्रुवा

संक्षेपतस्तपोवृद्धैः शीलवृद्धैश्च कथ्यते

Mahabharata

Vana Parva, Adhyaya 278, Verse 21

गुणैरुपेतं सर्वैस्तं भगवन्प्रब्रवीषि मे

दोषानप्यस्य मे ब्रूहि यदि सन्तीह केचन

Mahabharata

Vana Parva, Adhyaya 278, Verse 22

एको दोषोऽस्य नान्योऽस्ति सोऽद्य प्रभृति सत्यवान्

संवत्सरेण क्षीणायुर्देहन्यासं करिष्यति

Mahabharata

Vana Parva, Adhyaya 278, Verse 23

एहि सावित्रि गच्छ त्वमन्यं वरय शोभने

तस्य दोषो महानेको गुणानाक्रम्य तिष्ठति

Mahabharata

Vana Parva, Adhyaya 278, Verse 24

यथा मे भगवानाह नारदो देवसत्कृतः

संवत्सरेण सोऽल्पायुर्देहन्यासं करिष्यति

Mahabharata

Vana Parva, Adhyaya 278, Verse 25

सकृदंशो निपतति सकृत्कन्या प्रदीयते

सकृदाह ददानीति त्रीण्येतानि सकृत्सकृत्

Mahabharata

Vana Parva, Adhyaya 278, Verse 26

दीर्घायुरथ वाल्पायुः सगुणो निर्गुणोऽपि वा

सकृद्वृतो मया भर्ता न द्वितीयं वृणोम्यहम्

Mahabharata

Vana Parva, Adhyaya 278, Verse 27

मनसा निश्चयं कृत्वा ततो वाचाभिधीयते

क्रियते कर्मणा पश्चात्प्रमाणं मे मनस्ततः

Mahabharata

Vana Parva, Adhyaya 278, Verse 28

स्थिरा बुद्धिर्नरश्रेष्ठ सावित्र्या दुहितुस्तव

नैषा चालयितुं शक्या धर्मादस्मात्कथंचन

Mahabharata

Vana Parva, Adhyaya 278, Verse 29

नान्यस्मिन्पुरुषे सन्ति ये सत्यवति वै गुणाः

प्रदानमेव तस्मान्मे रोचते दुहितुस्तव

Mahabharata

Vana Parva, Adhyaya 278, Verse 30

अविचार्यमेतदुक्तं हि तथ्यं भगवता वचः

करिष्याम्येतदेवं च गुरुर्हि भगवान्मम