Vana Parva, Adhyaya 277, Verse 1
नात्मानमनुशोचामि नेमान्भ्रातॄन्महामुने
हरणं चापि राज्यस्य यथेमां द्रुपदात्मजाम्
Containing 41 sacred Sanskrit shlokas with multi-author commentaries and translations.
नात्मानमनुशोचामि नेमान्भ्रातॄन्महामुने
हरणं चापि राज्यस्य यथेमां द्रुपदात्मजाम्
द्यूते दुरात्मभिः क्लिष्टाः कृष्णया तारिता वयम्
जयद्रथेन च पुनर्वनादपहृता बलात्
अस्ति सीमन्तिनी काचिद्दृष्टपूर्वाथ वा श्रुता
पतिव्रता महाभागा यथेयं द्रुपदात्मजा
शृणु राजन्कुलस्त्रीणां महाभाग्यं युधिष्ठिर
सर्वमेतद्यथा प्राप्तं सावित्र्या राजकन्यया
आसीन्मद्रेषु धर्मात्मा राजा परमधार्मिकः
ब्रह्मण्यश्च शरण्यश्च सत्यसंधो जितेन्द्रियः
यज्वा दानपतिर्दक्षः पौरजानपदप्रियः
पार्थिवोऽश्वपतिर्नाम सर्वभूतहिते रतः
क्षमावाननपत्यश्च सत्यवाग्विजितेन्द्रियः
अतिक्रान्तेन वयसा संतापमुपजग्मिवान्
अपत्योत्पादनार्थं स तीव्रं नियममास्थितः
काले परिमिताहारो ब्रह्मचारी जितेन्द्रियः
हुत्वा शतसहस्रं स सावित्र्या राजसत्तम
षष्ठे षष्ठे तदा काले बभूव मितभोजनः
एतेन नियमेनासीद्वर्षाण्यष्टादशैव तु
पूर्णे त्वष्टादशे वर्षे सावित्री तुष्टिमभ्यगात्
स्वरूपिणी तदा राजन्दर्शयामास तं नृपम्
अग्निहोत्रात्समुत्थाय हर्षेण महतान्विता
उवाच चैनं वरदा वचनं पार्थिवं तदा
ब्रह्मचर्येण शुद्धेन दमेन नियमेन च
सर्वात्मना च मद्भक्त्या तुष्टास्मि तव पार्थिव
वरं वृणीष्वाश्वपते मद्रराज यथेप्सितम्
न प्रमादश्च धर्मेषु कर्तव्यस्ते कथंचन
अपत्यार्थः समारम्भः कृतो धर्मेप्सया मया
पुत्रा मे बहवो देवि भवेयुः कुलभावनाः
तुष्टासि यदि मे देवि काममेतं वृणोम्यहम्
संतानं हि परो धर्म इत्याहुर्मां द्विजातयः
पूर्वमेव मया राजन्नभिप्रायमिमं तव
ज्ञात्वा पुत्रार्थमुक्तो वै तव हेतोः पितामहः
प्रसादाच्चैव तस्मात्ते स्वयंभुविहिताद्भुवि
कन्या तेजस्विनी सौम्य क्षिप्रमेव भविष्यति
उत्तरं च न ते किंचिद्व्याहर्तव्यं कथंचन
पितामहनिसर्गेण तुष्टा ह्येतद्ब्रवीमि ते
स तथेति प्रतिज्ञाय सावित्र्या वचनं नृपः
प्रसादयामास पुनः क्षिप्रमेवं भवेदिति
अन्तर्हितायां सावित्र्यां जगाम स्वगृहं नृपः
स्वराज्ये चावसत्प्रीतः प्रजा धर्मेण पालयन्
कस्मिंश्चित्तु गते काले स राजा नियतव्रतः
ज्येष्ठायां धर्मचारिण्यां महिष्यां गर्भमादधे
राजपुत्र्यां तु गर्भः स मालव्यां भरतर्षभ
व्यवर्धत यथा शुक्ले तारापतिरिवाम्बरे
प्राप्ते काले तु सुषुवे कन्यां राजीवलोचनाम्
क्रियाश्च तस्या मुदितश्चक्रे स नृपतिस्तदा
सावित्र्या प्रीतया दत्ता सावित्र्या हुतया ह्यपि
सावित्रीत्येव नामास्याश्चक्रुर्विप्रास्तथा पिता
सा विग्रहवतीव श्रीर्व्यवर्धत नृपात्मजा
कालेन चापि सा कन्या यौवनस्था बभूव ह
तां सुमध्यां पृथुश्रोणीं प्रतिमां काञ्चनीमिव
प्राप्तेयं देवकन्येति दृष्ट्वा संमेनिरे जनाः
तां तु पद्मपलाशाक्षीं ज्वलन्तीमिव तेजसा
न कश्चिद्वरयामास तेजसा प्रतिवारितः
अथोपोष्य शिरःस्नाता दैवतान्यभिगम्य सा
हुत्वाग्निं विधिवद्विप्रान्वाचयामास पर्वणि
ततः सुमनसः शेषाः प्रतिगृह्य महात्मनः
पितुः सकाशमगमद्देवी श्रीरिव रूपिणी
साभिवाद्य पितुः पादौ शेषाः पूर्वं निवेद्य च
कृताञ्जलिर्वरारोहा नृपतेः पार्श्वतः स्थिता