Mahabharata

Vana Parva, Adhyaya 276

Containing 13 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Vana Parva, Adhyaya 276, Verse 1

एवमेतन्महाबाहो रामेणामिततेजसा

प्राप्तं व्यसनमत्युग्रं वनवासकृतं पुरा

Mahabharata

Vana Parva, Adhyaya 276, Verse 2

मा शुचः पुरुषव्याघ्र क्षत्रियोऽसि परंतप

बाहुवीर्याश्रये मार्गे वर्तसे दीप्तनिर्णये

Mahabharata

Vana Parva, Adhyaya 276, Verse 3

न हि ते वृजिनं किंचिद्दृश्यते परमण्वपि

अस्मिन्मार्गे विषीदेयुः सेन्द्रा अपि सुरासुराः

Mahabharata

Vana Parva, Adhyaya 276, Verse 4

संहत्य निहतो वृत्रो मरुद्भिर्वज्रपाणिना

नमुचिश्चैव दुर्धर्षो दीर्घजिह्वा च राक्षसी

Mahabharata

Vana Parva, Adhyaya 276, Verse 5

सहायवति सर्वार्थाः संतिष्ठन्तीह सर्वशः

किं नु तस्याजितं संख्ये भ्राता यस्य धनंजयः

Mahabharata

Vana Parva, Adhyaya 276, Verse 6

अयं च बलिनां श्रेष्ठो भीमो भीमपराक्रमः

युवानौ च महेष्वासौ यमौ माद्रवतीसुतौ

एभिः सहायैः कस्मात्त्वं विषीदसि परंतप

Mahabharata

Vana Parva, Adhyaya 276, Verse 7

य इमे वज्रिणः सेनां जयेयुः समरुद्गणाम्

त्वमप्येभिर्महेष्वासैः सहायैर्देवरूपिभिः

विजेष्यसि रणे सर्वानमित्रान्भरतर्षभ

Mahabharata

Vana Parva, Adhyaya 276, Verse 8

इतश्च त्वमिमां पश्य सैन्धवेन दुरात्मना

बलिना वीर्यमत्तेन हृतामेभिर्महात्मभिः

Mahabharata

Vana Parva, Adhyaya 276, Verse 9

आनीतां द्रौपदीं कृष्णां कृत्वा कर्म सुदुष्करम्

जयद्रथं च राजानं विजितं वशमागतम्

Mahabharata

Vana Parva, Adhyaya 276, Verse 10

असहायेन रामेण वैदेही पुनराहृता

हत्वा संख्ये दशग्रीवं राक्षसं भीमविक्रमम्

Mahabharata

Vana Parva, Adhyaya 276, Verse 11

यस्य शाखामृगा मित्रा ऋक्षाः कालमुखास्तथा

जात्यन्तरगता राजन्नेतद्बुद्ध्यानुचिन्तय

Mahabharata

Vana Parva, Adhyaya 276, Verse 12

तस्मात्त्वं कुरुशार्दूल मा शुचो भरतर्षभ

त्वद्विधा हि महात्मानो न शोचन्ति परंतप

Mahabharata

Vana Parva, Adhyaya 276, Verse 13

एवमाश्वासितो राजा मार्कण्डेयेन धीमता

त्यक्त्वा दुःखमदीनात्मा पुनरेवेदमब्रवीत्