Vana Parva, Adhyaya 275, Verse 1
स हत्वा रावणं क्षुद्रं राक्षसेन्द्रं सुरद्विषम्
बभूव हृष्टः ससुहृद्रामः सौमित्रिणा सह
Containing 69 sacred Sanskrit shlokas with multi-author commentaries and translations.
स हत्वा रावणं क्षुद्रं राक्षसेन्द्रं सुरद्विषम्
बभूव हृष्टः ससुहृद्रामः सौमित्रिणा सह
ततो हते दशग्रीवे देवाः सर्षिपुरोगमाः
आशीर्भिर्जययुक्ताभिरानर्चुस्तं महाभुजम्
रामं कमलपत्राक्षं तुष्टुवुः सर्वदेवताः
गन्धर्वाः पुष्पवर्षैश्च वाग्भिश्च त्रिदशालयाः
पूजयित्वा यथा रामं प्रतिजग्मुर्यथागतम्
तन्महोत्सवसंकाशमासीदाकाशमच्युत
ततो हत्वा दशग्रीवं लङ्कां रामो महायशाः
विभीषणाय प्रददौ प्रभुः परपुरंजयः
ततः सीतां पुरस्कृत्य विभीषणपुरस्कृताम्
अविन्ध्यो नाम सुप्रज्ञो वृद्धामात्यो विनिर्ययौ
उवाच च महात्मानं काकुत्स्थं दैन्यमास्थितम्
प्रतीच्छ देवीं सद्वृत्तां महात्मञ्जानकीमिति
एतच्छ्रुत्वा वचस्तस्मादवतीर्य रथोत्तमात्
बाष्पेणापिहितां सीतां ददर्शेक्ष्वाकुनन्दनः
तां दृष्ट्वा चारुसर्वाङ्गीं यानस्थां शोककर्शिताम्
मलोपचितसर्वाङ्गीं जटिलां कृष्णवाससम्
उवाच रामो वैदेहीं परामर्शविशङ्कितः
गच्छ वैदेहि मुक्ता त्वं यत्कार्यं तन्मया कृतम्
मामासाद्य पतिं भद्रे न त्वं राक्षसवेश्मनि
जरां व्रजेथा इति मे निहतोऽसौ निशाचरः
कथं ह्यस्मद्विधो जातु जानन्धर्मविनिश्चयम्
परहस्तगतां नारीं मुहूर्तमपि धारयेत्
सुवृत्तामसुवृत्तां वाप्यहं त्वामद्य मैथिलि
नोत्सहे परिभोगाय श्वावलीढं हविर्यथा
ततः सा सहसा बाला तच्छ्रुत्वा दारुणं वचः
पपात देवी व्यथिता निकृत्ता कदली यथा
यो ह्यस्या हर्षसंभूतो मुखरागस्तदाभवत्
क्षणेन स पुनर्भ्रष्टो निःश्वासादिव दर्पणे
ततस्ते हरयः सर्वे तच्छ्रुत्वा रामभाषितम्
गतासुकल्पा निश्चेष्टा बभूवुः सहलक्ष्मणाः
ततो देवो विशुद्धात्मा विमानेन चतुर्मुखः
पितामहो जगत्स्रष्टा दर्शयामास राघवम्
शक्रश्चाग्निश्च वायुश्च यमो वरुण एव च
यक्षाधिपश्च भगवांस्तथा सप्तर्षयोऽमलाः
राजा दशरथश्चैव दिव्यभास्वरमूर्तिमान्
विमानेन महार्हेण हंसयुक्तेन भास्वता
ततोऽन्तरिक्षं तत्सर्वं देवगन्धर्वसंकुलम्
शुशुभे तारकाचित्रं शरदीव नभस्तलम्
तत उत्थाय वैदेहि तेषां मध्ये यशस्विनी
उवाच वाक्यं कल्याणी रामं पृथुलवक्षसम्
राजपुत्र न ते कोपं करोमि विदिता हि मे
गतिः स्त्रीणां नराणां च शृणु चेदं वचो मम
अन्तश्चरति भूतानां मातरिश्वा सदागतिः
स मे विमुञ्चतु प्राणान्यदि पापं चराम्यहम्
अग्निरापस्तथाकाशं पृथिवी वायुरेव च
विमुञ्चन्तु मम प्राणान्यदि पापं चराम्यहम्
ततोऽन्तरिक्षे वागासीत्सर्वा विश्रावयन्दिशः
पुण्या संहर्षणी तेषां वानराणां महात्मनाम्
भो भो राघव सत्यं वै वायुरस्मि सदागतिः
अपापा मैथिली राजन्संगच्छ सह भार्यया
अहमन्तःशरीरस्थो भूतानां रघुनन्दन
सुसूक्ष्ममपि काकुत्स्थ मैथिली नापराध्यति
रसा वै मत्प्रसूता हि भूतदेहेषु राघव
अहं वै त्वां प्रब्रवीमि मैथिली प्रतिगृह्यताम्
पुत्र नैतदिहाश्चर्यं त्वयि राजर्षिधर्मिणि
साधो सद्वृत्तमार्गस्थे शृणु चेदं वचो मम
शत्रुरेष त्वया वीर देवगन्धर्वभोगिनाम्
यक्षाणां दानवानां च महर्षीणां च पातितः