Mahabharata

Vana Parva, Adhyaya 274

Containing 31 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Vana Parva, Adhyaya 274, Verse 1

ततः क्रुद्धो दशग्रीवः प्रिये पुत्रे निपातिते

निर्ययौ रथमास्थाय हेमरत्नविभूषितम्

Mahabharata

Vana Parva, Adhyaya 274, Verse 2

संवृतो राक्षसैर्घोरैर्विविधायुधपाणिभिः

अभिदुद्राव रामं स पोथयन्हरियूथपान्

Mahabharata

Vana Parva, Adhyaya 274, Verse 3

तमाद्रवन्तं संक्रुद्धं मैन्दनीलनलाङ्गदाः

हनूमाञ्जाम्बवांश्चैव ससैन्याः पर्यवारयन्

Mahabharata

Vana Parva, Adhyaya 274, Verse 4

ते दशग्रीवसैन्यं तदृक्षवानरयूथपाः

द्रुमैर्विध्वंसयां चक्रुर्दशग्रीवस्य पश्यतः

Mahabharata

Vana Parva, Adhyaya 274, Verse 5

ततः स्वसैन्यमालोक्य वध्यमानमरातिभिः

मायावी व्यदधान्मायां रावणो राक्षसेश्वरः

Mahabharata

Vana Parva, Adhyaya 274, Verse 6

तस्य देहाद्विनिष्क्रान्ताः शतशोऽथ सहस्रशः

राक्षसाः प्रत्यदृश्यन्त शरशक्त्यृष्टिपाणयः

Mahabharata

Vana Parva, Adhyaya 274, Verse 7

तान्रामो जघ्निवान्सर्वान्दिव्येनास्त्रेण राक्षसान्

अथ भूयोऽपि मायां स व्यदधाद्राक्षसाधिपः

Mahabharata

Vana Parva, Adhyaya 274, Verse 8

कृत्वा रामस्य रूपाणि लक्ष्मणस्य च भारत

अभिदुद्राव रामं च लक्ष्मणं च दशाननः

Mahabharata

Vana Parva, Adhyaya 274, Verse 9

ततस्ते राममर्छन्तो लक्ष्मणं च क्षपाचराः

अभिपेतुस्तदा राजन्प्रगृहीतोच्चकार्मुकाः

Mahabharata

Vana Parva, Adhyaya 274, Verse 10

तां दृष्ट्वा राक्षसेन्द्रस्य मायामिक्ष्वाकुनन्दनः

उवाच रामं सौमित्रिरसंभ्रान्तो बृहद्वचः

Mahabharata

Vana Parva, Adhyaya 274, Verse 11

जहीमान्राक्षसान्पापानात्मनः प्रतिरूपकान्

जघान रामस्तांश्चान्यानात्मनः प्रतिरूपकान्

Mahabharata

Vana Parva, Adhyaya 274, Verse 12

ततो हर्यश्वयुक्तेन रथेनादित्यवर्चसा

उपतस्थे रणे रामं मातलिः शक्रसारथिः

Mahabharata

Vana Parva, Adhyaya 274, Verse 13

अयं हर्यश्वयुग्जैत्रो मघोनः स्यन्दनोत्तमः

अनेन शक्रः काकुत्स्थ समरे दैत्यदानवान्

शतशः पुरुषव्याघ्र रथोदारेण जघ्निवान्

Mahabharata

Vana Parva, Adhyaya 274, Verse 14

तदनेन नरव्याघ्र मया यत्तेन संयुगे

स्यन्दनेन जहि क्षिप्रं रावणं मा चिरं कृथाः

Mahabharata

Vana Parva, Adhyaya 274, Verse 15

इत्युक्तो राघवस्तथ्यं वचोऽशङ्कत मातलेः

मायेयं राक्षसस्येति तमुवाच विभीषणः

Mahabharata

Vana Parva, Adhyaya 274, Verse 16

नेयं माया नरव्याघ्र रावणस्य दुरात्मनः

तदातिष्ठ रथं शीघ्रमिममैन्द्रं महाद्युते

Mahabharata

Vana Parva, Adhyaya 274, Verse 17

ततः प्रहृष्टः काकुत्स्थस्तथेत्युक्त्वा विभीषणम्

रथेनाभिपपाताशु दशग्रीवं रुषान्वितः

Mahabharata

Vana Parva, Adhyaya 274, Verse 18

हाहाकृतानि भूतानि रावणे समभिद्रुते

सिंहनादाः सपटहा दिवि दिव्याश्च नानदन्

Mahabharata

Vana Parva, Adhyaya 274, Verse 19

स रामाय महाघोरं विससर्ज निशाचरः

शूलमिन्द्राशनिप्रख्यं ब्रह्मदण्डमिवोद्यतम्

Mahabharata

Vana Parva, Adhyaya 274, Verse 20

तच्छूलमन्तरा रामश्चिच्छेद निशितैः शरैः

तद्दृष्ट्वा दुष्करं कर्म रावणं भयमाविशत्

Mahabharata

Vana Parva, Adhyaya 274, Verse 21

ततः क्रुद्धः ससर्जाशु दशग्रीवः शिताञ्शरान्

सहस्रायुतशो रामे शस्त्राणि विविधानि च

Mahabharata

Vana Parva, Adhyaya 274, Verse 22

ततो भुशुण्डीः शूलांश्च मुसलानि परश्वधान्

शक्तीश्च विविधाकाराः शतघ्नीश्च शितक्षुराः

Mahabharata

Vana Parva, Adhyaya 274, Verse 23

तां मायां विकृतां दृष्ट्वा दशग्रीवस्य रक्षसः

भयात्प्रदुद्रुवुः सर्वे वानराः सर्वतोदिशम्

Mahabharata

Vana Parva, Adhyaya 274, Verse 24

ततः सुपत्रं सुमुखं हेमपुङ्खं शरोत्तमम्

तूणादादाय काकुत्स्थो ब्रह्मास्त्रेण युयोज ह

Mahabharata

Vana Parva, Adhyaya 274, Verse 25

तं बाणवर्यं रामेण ब्रह्मास्त्रेणाभिमन्त्रितम्

जहृषुर्देवगन्धर्वा दृष्ट्वा शक्रपुरोगमाः

Mahabharata

Vana Parva, Adhyaya 274, Verse 26

अल्पावशेषमायुश्च ततोऽमन्यन्त रक्षसः

ब्रह्मास्त्रोदीरणाच्छत्रोर्देवगन्धर्वकिंनराः

Mahabharata

Vana Parva, Adhyaya 274, Verse 27

ततः ससर्ज तं रामः शरमप्रतिमौजसम्

रावणान्तकरं घोरं ब्रह्मदण्डमिवोद्यतम्

Mahabharata

Vana Parva, Adhyaya 274, Verse 28

स तेन राक्षसश्रेष्ठः सरथः साश्वसारथिः

प्रजज्वाल महाज्वालेनाग्निनाभिपरिष्कृतः

Mahabharata

Vana Parva, Adhyaya 274, Verse 29

ततः प्रहृष्टास्त्रिदशाः सगन्धर्वाः सचारणाः

निहतं रावणं दृष्ट्वा रामेणाक्लिष्टकर्मणा

Mahabharata

Vana Parva, Adhyaya 274, Verse 30

तत्यजुस्तं महाभागं पञ्च भूतानि रावणम्

भ्रंशितः सर्वलोकेषु स हि ब्रह्मास्त्रतेजसा