Vana Parva, Adhyaya 273, Verse 1
तावुभौ पतितौ दृष्ट्वा भ्रातरावमितौजसौ
बबन्ध रावणिर्भूयः शरैर्दत्तवरैस्तदा
Containing 33 sacred Sanskrit shlokas with multi-author commentaries and translations.
तावुभौ पतितौ दृष्ट्वा भ्रातरावमितौजसौ
बबन्ध रावणिर्भूयः शरैर्दत्तवरैस्तदा
तौ वीरौ शरजालेन बद्धाविन्द्रजिता रणे
रेजतुः पुरुषव्याघ्रौ शकुन्ताविव पञ्जरे
तौ दृष्ट्वा पतितौ भूमौ शतशः सायकैश्चितौ
सुग्रीवः कपिभिः सार्धं परिवार्य ततः स्थितः
सुषेणमैन्दद्विविदैः कुमुदेनाङ्गदेन च
हनूमन्नीलतारैश्च नलेन च कपीश्वरः
ततस्तं देशमागम्य कृतकर्मा विभीषणः
बोधयामास तौ वीरौ प्रज्ञास्त्रेण प्रबोधितौ
विशल्यौ चापि सुग्रीवः क्षणेनोभौ चकार तौ
विशल्यया महौषध्या दिव्यमन्त्रप्रयुक्तया
तौ लब्धसंज्ञौ नृवरौ विशल्यावुदतिष्ठताम्
गततन्द्रीक्लमौ चास्तां क्षणेनोभौ महारथौ
ततो विभीषणः पार्थ राममिक्ष्वाकुनन्दनम्
उवाच विज्वरं दृष्ट्वा कृताञ्जलिरिदं वचः
अयमम्भो गृहीत्वा तु राजराजस्य शासनात्
गुह्यकोऽभ्यागतः श्वेतात्त्वत्सकाशमरिंदम
इदमम्भः कुबेरस्ते महाराजः प्रयच्छति
अन्तर्हितानां भूतानां दर्शनार्थं परंतप
अनेन स्पृष्टनयनो भूतान्यन्तर्हितान्युत
भवान्द्रक्ष्यति यस्मै च भवानेतत्प्रदास्यति
तथेति रामस्तद्वारि प्रतिगृह्याथ सत्कृतम्
चकार नेत्रयोः शौचं लक्ष्मणश्च महामनाः
सुग्रीवजाम्बवन्तौ च हनूमानङ्गदस्तथा
मैन्दद्विविदनीलाश्च प्रायः प्लवगसत्तमाः
तथा समभवच्चापि यदुवाच विभीषणः
क्षणेनातीन्द्रियाण्येषां चक्षूंष्यासन्युधिष्ठिर
इन्द्रजित्कृतकर्मा तु पित्रे कर्म तदात्मनः
निवेद्य पुनरागच्छत्त्वरयाजिशिरः प्रति
तमापतन्तं संक्रुद्धं पुनरेव युयुत्सया
अभिदुद्राव सौमित्रिर्विभीषणमते स्थितः
अकृताह्निकमेवैनं जिघांसुर्जितकाशिनम्
शरैर्जघान संक्रुद्धः कृतसंज्ञोऽथ लक्ष्मणः
तयोः समभवद्युद्धं तदान्योन्यं जिगीषतोः
अतीव चित्रमाश्चर्यं शक्रप्रह्लादयोरिव
अविध्यदिन्द्रजित्तीक्ष्णैः सौमित्रिं मर्मभेदिभिः
सौमित्रिश्चानलस्पर्शैरविध्यद्रावणिं शरैः
सौमित्रिशरसंस्पर्शाद्रावणिः क्रोधमूर्छितः
असृजल्लक्ष्मणायाष्टौ शरानाशीविषोपमान्
तस्यासून्पावकस्पर्शैः सौमित्रिः पत्रिभिस्त्रिभिः
यथा निरहरद्वीरस्तन्मे निगदतः शृणु
एकेनास्य धनुष्मन्तं बाहुं देहादपातयत्
द्वितीयेन सनाराचं भुजं भूमौ न्यपातयत्
तृतीयेन तु बाणेन पृथुधारेण भास्वता
जहार सुनसं चारु शिरो भ्राजिष्णुकुण्डलम्
विनिकृत्तभुजस्कन्धं कबन्धं भीमदर्शनम्
तं हत्वा सूतमप्यस्त्रैर्जघान बलिनां वरः
लङ्कां प्रवेशयामासुर्वाजिनस्तं रथं तदा
ददर्श रावणस्तं च रथं पुत्रविनाकृतम्
स पुत्रं निहतं दृष्ट्वा त्रासात्संभ्रान्तलोचनः
रावणः शोकमोहार्तो वैदेहीं हन्तुमुद्यतः
अशोकवनिकास्थां तां रामदर्शनलालसाम्
खड्गमादाय दुष्टात्मा जवेनाभिपपात ह
तं दृष्ट्वा तस्य दुर्बुद्धेरविन्ध्यः पापनिश्चयम्
शमयामास संक्रुद्धं श्रूयतां येन हेतुना
महाराज्ये स्थितो दीप्ते न स्त्रियं हन्तुमर्हसि
हतैवैषा यदा स्त्री च बन्धनस्था च ते गृहे
न चैषा देहभेदेन हता स्यादिति मे मतिः
जहि भर्तारमेवास्या हते तस्मिन्हता भवेत्