Mahabharata

Vana Parva, Adhyaya 271

Containing 27 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Vana Parva, Adhyaya 271, Verse 1

ततो विनिर्याय पुरात्कुम्भकर्णः सहानुगः

अपश्यत्कपिसैन्यं तज्जितकाश्यग्रतः स्थितम्

Mahabharata

Vana Parva, Adhyaya 271, Verse 2

तमभ्येत्याशु हरयः परिवार्य समन्ततः

अभ्यघ्नंश्च महाकायैर्बहुभिर्जगतीरुहैः

करजैरतुदंश्चान्ये विहाय भयमुत्तमम्

Mahabharata

Vana Parva, Adhyaya 271, Verse 3

बहुधा युध्यमानास्ते युद्धमार्गैः प्लवंगमाः

नानाप्रहरणैर्भीमं राक्षसेन्द्रमताडयन्

Mahabharata

Vana Parva, Adhyaya 271, Verse 4

स ताड्यमानः प्रहसन्भक्षयामास वानरान्

पनसं च गवाक्षं च वज्रबाहुं च वानरम्

Mahabharata

Vana Parva, Adhyaya 271, Verse 5

तद्दृष्ट्वा व्यथनं कर्म कुम्भकर्णस्य रक्षसः

उदक्रोशन्परित्रस्तास्तारप्रभृतयस्तदा

Mahabharata

Vana Parva, Adhyaya 271, Verse 6

तं तारमुच्चैः क्रोशन्तमन्यांश्च हरियूथपान्

अभिदुद्राव सुग्रीवः कुम्भकर्णमपेतभीः

Mahabharata

Vana Parva, Adhyaya 271, Verse 7

ततोऽभिपत्य वेगेन कुम्भकर्णं महामनाः

शालेन जघ्निवान्मूर्ध्नि बलेन कपिकुञ्जरः

Mahabharata

Vana Parva, Adhyaya 271, Verse 8

स महात्मा महावेगः कुम्भकर्णस्य मूर्धनि

बिभेद शालं सुग्रीवो न चैवाव्यथयत्कपिः

Mahabharata

Vana Parva, Adhyaya 271, Verse 9

ततो विनद्य प्रहसञ्शालस्पर्शविबोधितः

दोर्भ्यामादाय सुग्रीवं कुम्भकर्णोऽहरद्बलात्

Mahabharata

Vana Parva, Adhyaya 271, Verse 10

ह्रियमाणं तु सुग्रीवं कुम्भकर्णेन रक्षसा

अवेक्ष्याभ्यद्रवद्वीरः सौमित्रिर्मित्रनन्दनः

Mahabharata

Vana Parva, Adhyaya 271, Verse 11

सोऽभिपत्य महावेगं रुक्मपुङ्खं महाशरम्

प्राहिणोत्कुम्भकर्णाय लक्ष्मणः परवीरहा

Mahabharata

Vana Parva, Adhyaya 271, Verse 12

स तस्य देहावरणं भित्त्वा देहं च सायकः

जगाम दारयन्भूमिं रुधिरेण समुक्षितः

Mahabharata

Vana Parva, Adhyaya 271, Verse 13

तथा स भिन्नहृदयः समुत्सृज्य कपीश्वरम्

कुम्भकर्णो महेष्वासः प्रगृहीतशिलायुधः

अभिदुद्राव सौमित्रिमुद्यम्य महतीं शिलाम्

Mahabharata

Vana Parva, Adhyaya 271, Verse 14

तस्याभिद्रवतस्तूर्णं क्षुराभ्यामुच्छ्रितौ करौ

चिच्छेद निशिताग्राभ्यां स बभूव चतुर्भुजः

Mahabharata

Vana Parva, Adhyaya 271, Verse 15

तानप्यस्य भुजान्सर्वान्प्रगृहीतशिलायुधान्

क्षुरैश्चिच्छेद लघ्वस्त्रं सौमित्रिः प्रतिदर्शयन्

Mahabharata

Vana Parva, Adhyaya 271, Verse 16

स बभूवातिकायश्च बहुपादशिरोभुजः

तं ब्रह्मास्त्रेण सौमित्रिर्ददाहाद्रिचयोपमम्

Mahabharata

Vana Parva, Adhyaya 271, Verse 17

स पपात महावीर्यो दिव्यास्त्राभिहतो रणे

महाशनिविनिर्दग्धः पादपोऽङ्कुरवानिव

Mahabharata

Vana Parva, Adhyaya 271, Verse 18

तं दृष्ट्वा वृत्रसंकाशं कुम्भकर्णं तरस्विनम्

गतासुं पतितं भूमौ राक्षसाः प्राद्रवन्भयात्

Mahabharata

Vana Parva, Adhyaya 271, Verse 19

तथा तान्द्रवतो योधान्दृष्ट्वा तौ दूषणानुजौ

अवस्थाप्याथ सौमित्रिं संक्रुद्धावभ्यधावताम्

Mahabharata

Vana Parva, Adhyaya 271, Verse 20

तावाद्रवन्तौ संक्रुद्धौ वज्रवेगप्रमाथिनौ

प्रतिजग्राह सौमित्रिर्विनद्योभौ पतत्रिभिः

Mahabharata

Vana Parva, Adhyaya 271, Verse 21

ततः सुतुमुलं युद्धमभवल्लोमहर्षणम्

दूषणानुजयोः पार्थ लक्ष्मणस्य च धीमतः

Mahabharata

Vana Parva, Adhyaya 271, Verse 22

महता शरवर्षेण राक्षसौ सोऽभ्यवर्षत

तौ चापि वीरौ संक्रुद्धावुभौ तौ समवर्षताम्

Mahabharata

Vana Parva, Adhyaya 271, Verse 23

मुहूर्तमेवमभवद्वज्रवेगप्रमाथिनोः

सौमित्रेश्च महाबाहोः संप्रहारः सुदारुणः

Mahabharata

Vana Parva, Adhyaya 271, Verse 24

अथाद्रिशृङ्गमादाय हनूमान्मारुतात्मजः

अभिद्रुत्याददे प्राणान्वज्रवेगस्य रक्षसः

Mahabharata

Vana Parva, Adhyaya 271, Verse 25

नीलश्च महता ग्राव्णा दूषणावरजं हरिः

प्रमाथिनमभिद्रुत्य प्रममाथ महाबलः

Mahabharata

Vana Parva, Adhyaya 271, Verse 26

ततः प्रावर्तत पुनः संग्रामः कटुकोदयः

रामरावणसैन्यानामन्योन्यमभिधावताम्

Mahabharata

Vana Parva, Adhyaya 271, Verse 27

शतशो नैरृतान्वन्या जघ्नुर्वन्यांश्च नैरृताः

नैरृतास्तत्र वध्यन्ते प्रायशो न तु वानराः