Vana Parva, Adhyaya 270, Verse 1
ततः प्रहस्तः सहसा समभ्येत्य विभीषणम्
गदया ताडयामास विनद्य रणकर्कशः
Containing 29 sacred Sanskrit shlokas with multi-author commentaries and translations.
ततः प्रहस्तः सहसा समभ्येत्य विभीषणम्
गदया ताडयामास विनद्य रणकर्कशः
स तयाभिहतो धीमान्गदया भीमवेगया
नाकम्पत महाबाहुर्हिमवानिव सुस्थिरः
ततः प्रगृह्य विपुलां शतघण्टां विभीषणः
अभिमन्त्र्य महाशक्तिं चिक्षेपास्य शिरः प्रति
पतन्त्या स तया वेगाद्राक्षसोऽशनिनादया
हृतोत्तमाङ्गो ददृशे वातरुग्ण इव द्रुमः
तं दृष्ट्वा निहतं संख्ये प्रहस्तं क्षणदाचरम्
अभिदुद्राव धूम्राक्षो वेगेन महता कपीन्
तस्य मेघोपमं सैन्यमापतद्भीमदर्शनम्
दृष्ट्वैव सहसा दीर्णा रणे वानरपुंगवाः
ततस्तान्सहसा दीर्णान्दृष्ट्वा वानरपुंगवान्
निर्याय कपिशार्दूलो हनूमान्पर्यवस्थितः
तं दृष्ट्वावस्थितं संख्ये हरयः पवनात्मजम्
वेगेन महता राजन्संन्यवर्तन्त सर्वशः
ततः शब्दो महानासीत्तुमुलो लोमहर्षणः
रामरावणसैन्यानामन्योन्यमभिधावताम्
तस्मिन्प्रवृत्ते संग्रामे घोरे रुधिरकर्दमे
धूम्राक्षः कपिसैन्यं तद्द्रावयामास पत्रिभिः
तं राक्षसमहामात्रमापतन्तं सपत्नजित्
तरसा प्रतिजग्राह हनूमान्पवनात्मजः
तयोर्युद्धमभूद्घोरं हरिराक्षसवीरयोः
जिगीषतोर्युधान्योन्यमिन्द्रप्रह्लादयोरिव
गदाभिः परिघैश्चैव राक्षसो जघ्निवान्कपिम्
कपिश्च जघ्निवान्रक्षः सस्कन्धविटपैर्द्रुमैः
ततस्तमतिकायेन साश्वं सरथसारथिम्
धूम्राक्षमवधीद्धीमान्हनूमान्मारुतात्मजः
ततस्तं निहतं दृष्ट्वा धूम्राक्षं राक्षसोत्तमम्
हरयो जातविस्रम्भा जघ्नुरभ्येत्य सैनिकान्
ते वध्यमाना बलिभिर्हरिभिर्जितकाशिभिः
राक्षसा भग्नसंकल्पा लङ्कामभ्यपतन्भयात्
तेऽभिपत्य पुरं भग्ना हतशेषा निशाचराः
सर्वं राज्ञे यथावृत्तं रावणाय न्यवेदयन्
श्रुत्वा तु रावणस्तेभ्यः प्रहस्तं निहतं युधि
धूम्राक्षं च महेष्वासं ससैन्यं वानरर्षभैः
सुदीर्घमिव निःश्वस्य समुत्पत्य वरासनात्
उवाच कुम्भकर्णस्य कर्मकालोऽयमागतः
इत्येवमुक्त्वा विविधैर्वादित्रैः सुमहास्वनैः
शयानमतिनिद्रालुं कुम्भकर्णमबोधयत्
प्रबोध्य महता चैनं यत्नेनागतसाध्वसः
स्वस्थमासीनमव्यग्रं विनिद्रं राक्षसाधिपः
ततोऽब्रवीद्दशग्रीवः कुम्भकर्णं महाबलम्
धन्योऽसि यस्य ते निद्रा कुम्भकर्णेयमीदृशी
य इमं दारुणं कालं न जानीषे महाभयम्
एष तीर्त्वार्णवं रामः सेतुना हरिभिः सह
अवमन्येह नः सर्वान्करोति कदनं महत्
मया ह्यपहृता भार्या सीता नामास्य जानकी
तां मोक्षयिषुरायातो बद्ध्वा सेतुं महार्णवे
तेन चैव प्रहस्तादिर्महान्नः स्वजनो हतः
तस्य नान्यो निहन्तास्ति त्वदृते शत्रुकर्शन
स दंशितोऽभिनिर्याय त्वमद्य बलिनां वर
रामादीन्समरे सर्वाञ्जहि शत्रूनरिंदम
दूषणावरजौ चैव वज्रवेगप्रमाथिनौ
तौ त्वां बलेन महता सहितावनुयास्यतः
इत्युक्त्वा राक्षसपतिः कुम्भकर्णं तरस्विनम्
संदिदेशेतिकर्तव्ये वज्रवेगप्रमाथिनौ
तथेत्युक्त्वा तु तौ वीरौ रावणं दूषणानुजौ
कुम्भकर्णं पुरस्कृत्य तूर्णं निर्ययतुः पुरात्