Mahabharata

Vana Parva, Adhyaya 269

Containing 14 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Vana Parva, Adhyaya 269, Verse 1

ततो निविशमानांस्तान्सैनिकान्रावणानुगाः

अभिजग्मुर्गणानेके पिशाचक्षुद्ररक्षसाम्

Mahabharata

Vana Parva, Adhyaya 269, Verse 2

पर्वणः पूतनो जम्भः खरः क्रोधवशो हरिः

प्ररुजश्चारुजश्चैव प्रघसश्चैवमादयः

Mahabharata

Vana Parva, Adhyaya 269, Verse 3

ततोऽभिपततां तेषामदृश्यानां दुरात्मनाम्

अन्तर्धानवधं तज्ज्ञश्चकार स विभीषणः

Mahabharata

Vana Parva, Adhyaya 269, Verse 4

ते दृश्यमाना हरिभिर्बलिभिर्दूरपातिभिः

निहताः सर्वशो राजन्महीं जग्मुर्गतासवः

Mahabharata

Vana Parva, Adhyaya 269, Verse 5

अमृष्यमाणः सबलो रावणो निर्ययावथ

व्यूह्य चौशनसं व्यूहं हरीन्सर्वानहारयत्

Mahabharata

Vana Parva, Adhyaya 269, Verse 6

राघवस्त्वभिनिर्याय व्यूढानीकं दशाननम्

बार्हस्पत्यं विधिं कृत्वा प्रत्यव्यूहन्निशाचरम्

Mahabharata

Vana Parva, Adhyaya 269, Verse 7

समेत्य युयुधे तत्र ततो रामेण रावणः

युयुधे लक्ष्मणश्चैव तथैवेन्द्रजिता सह

Mahabharata

Vana Parva, Adhyaya 269, Verse 8

विरूपाक्षेण सुग्रीवस्तारेण च निखर्वटः

तुण्डेन च नलस्तत्र पटुशः पनसेन च

Mahabharata

Vana Parva, Adhyaya 269, Verse 9

विषह्यं यं हि यो मेने स स तेन समेयिवान्

युयुधे युद्धवेलायां स्वबाहुबलमाश्रितः

Mahabharata

Vana Parva, Adhyaya 269, Verse 10

स संप्रहारो ववृधे भीरूणां भयवर्धनः

लोमसंहर्षणो घोरः पुरा देवासुरे यथा

Mahabharata

Vana Parva, Adhyaya 269, Verse 11

रावणो राममानर्छच्छक्तिशूलासिवृष्टिभिः

निशितैरायसैस्तीक्ष्णै रावणं चापि राघवः

Mahabharata

Vana Parva, Adhyaya 269, Verse 12

तथैवेन्द्रजितं यत्तं लक्ष्मणो मर्मभेदिभिः

इन्द्रजिच्चापि सौमित्रिं बिभेद बहुभिः शरैः

Mahabharata

Vana Parva, Adhyaya 269, Verse 13

विभीषणः प्रहस्तं च प्रहस्तश्च विभीषणम्

खगपत्रैः शरैस्तीक्ष्णैरभ्यवर्षद्गतव्यथः

Mahabharata

Vana Parva, Adhyaya 269, Verse 14

तेषां बलवतामासीन्महास्त्राणां समागमः

विव्यथुः सकला येन त्रयो लोकाश्चराचराः