Mahabharata

Vana Parva, Adhyaya 268

Containing 40 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Vana Parva, Adhyaya 268, Verse 1

प्रभूतान्नोदके तस्मिन्बहुमूलफले वने

सेनां निवेश्य काकुत्स्थो विधिवत्पर्यरक्षत

Mahabharata

Vana Parva, Adhyaya 268, Verse 2

रावणश्च विधिं चक्रे लङ्कायां शास्त्रनिर्मितम्

प्रकृत्यैव दुराधर्षा दृढप्राकारतोरणा

Mahabharata

Vana Parva, Adhyaya 268, Verse 3

अगाधतोयाः परिखा मीननक्रसमाकुलाः

बभूवुः सप्त दुर्धर्षाः खादिरैः शङ्कुभिश्चिताः

Mahabharata

Vana Parva, Adhyaya 268, Verse 4

कर्णाट्टयन्त्रदुर्धर्षा बभूवुः सहुडोपलाः

साशीविषघटायोधाः ससर्जरसपांसवः

Mahabharata

Vana Parva, Adhyaya 268, Verse 5

मुसलालातनाराचतोमरासिपरश्वधैः

अन्विताश्च शतघ्नीभिः समधूच्छिष्टमुद्गराः

Mahabharata

Vana Parva, Adhyaya 268, Verse 6

पुरद्वारेषु सर्वेषु गुल्माः स्थावरजङ्गमाः

बभूवुः पत्तिबहुलाः प्रभूतगजवाजिनः

Mahabharata

Vana Parva, Adhyaya 268, Verse 7

अङ्गदस्त्वथ लङ्काया द्वारदेशमुपागतः

विदितो राक्षसेन्द्रस्य प्रविवेश गतव्यथः

Mahabharata

Vana Parva, Adhyaya 268, Verse 8

मध्ये राक्षसकोटीनां बह्वीनां सुमहाबलः

शुशुभे मेघमालाभिरादित्य इव संवृतः

Mahabharata

Vana Parva, Adhyaya 268, Verse 9

स समासाद्य पौलस्त्यममात्यैरभिसंवृतम्

रामसंदेशमामन्त्र्य वाग्मी वक्तुं प्रचक्रमे

Mahabharata

Vana Parva, Adhyaya 268, Verse 10

आह त्वां राघवो राजन्कोसलेन्द्रो महायशाः

प्राप्तकालमिदं वाक्यं तदादत्स्व कुरुष्व च

Mahabharata

Vana Parva, Adhyaya 268, Verse 11

अकृतात्मानमासाद्य राजानमनये रतम्

विनश्यन्त्यनयाविष्टा देशाश्च नगराणि च

Mahabharata

Vana Parva, Adhyaya 268, Verse 12

त्वयैकेनापराद्धं मे सीतामाहरता बलात्

वधायानपराद्धानामन्येषां तद्भविष्यति

Mahabharata

Vana Parva, Adhyaya 268, Verse 13

ये त्वया बलदर्पाभ्यामाविष्टेन वनेचराः

ऋषयो हिंसिताः पूर्वं देवाश्चाप्यवमानिताः

Mahabharata

Vana Parva, Adhyaya 268, Verse 14

राजर्षयश्च निहता रुदन्त्यश्चाहृताः स्त्रियः

तदिदं समनुप्राप्तं फलं तस्यानयस्य ते

Mahabharata

Vana Parva, Adhyaya 268, Verse 15

हन्तास्मि त्वां सहामात्यं युध्यस्व पुरुषो भव

पश्य मे धनुषो वीर्यं मानुषस्य निशाचर

Mahabharata

Vana Parva, Adhyaya 268, Verse 16

मुच्यतां जानकी सीता न मे मोक्ष्यसि कर्हिचित्

अराक्षसमिमं लोकं कर्तास्मि निशितैः शरैः

Mahabharata

Vana Parva, Adhyaya 268, Verse 17

इति तस्य ब्रुवाणस्य दूतस्य परुषं वचः

श्रुत्वा न ममृषे राजा रावणः क्रोधमूर्छितः

Mahabharata

Vana Parva, Adhyaya 268, Verse 18

इङ्गितज्ञास्ततो भर्तुश्चत्वारो रजनीचराः

चतुर्ष्वङ्गेषु जगृहुः शार्दूलमिव पक्षिणः

Mahabharata

Vana Parva, Adhyaya 268, Verse 19

तांस्तथाङ्गेषु संसक्तानङ्गदो रजनीचरान्

आदायैव खमुत्पत्य प्रासादतलमाविशत्

Mahabharata

Vana Parva, Adhyaya 268, Verse 20

वेगेनोत्पततस्तस्य पेतुस्ते रजनीचराः

भुवि संभिन्नहृदयाः प्रहारपरिपीडिताः

Mahabharata

Vana Parva, Adhyaya 268, Verse 21

स मुक्तो हर्म्यशिखरात्तस्मात्पुनरवापतत्

लङ्घयित्वा पुरीं लङ्कां स्वबलस्य समीपतः

Mahabharata

Vana Parva, Adhyaya 268, Verse 22

कोसलेन्द्रमथाभ्येत्य सर्वमावेद्य चाङ्गदः

विशश्राम स तेजस्वी राघवेणाभिनन्दितः

Mahabharata

Vana Parva, Adhyaya 268, Verse 23

ततः सर्वाभिसारेण हरीणां वातरंहसाम्

भेदयामास लङ्कायाः प्राकारं रघुनन्दनः

Mahabharata

Vana Parva, Adhyaya 268, Verse 24

विभीषणर्क्षाधिपती पुरस्कृत्याथ लक्ष्मणः

दक्षिणं नगरद्वारमवामृद्नाद्दुरासदम्

Mahabharata

Vana Parva, Adhyaya 268, Verse 25

करभारुणगात्राणां हरीणां युद्धशालिनाम्

कोटीशतसहस्रेण लङ्कामभ्यपतत्तदा

Mahabharata

Vana Parva, Adhyaya 268, Verse 26

उत्पतद्भिः पतद्भिश्च निपतद्भिश्च वानरैः

नादृश्यत तदा सूर्यो रजसा नाशितप्रभः

Mahabharata

Vana Parva, Adhyaya 268, Verse 27

शालिप्रसूनसदृशैः शिरीषकुसुमप्रभैः

तरुणादित्यसदृशैः शरगौरैश्च वानरैः

Mahabharata

Vana Parva, Adhyaya 268, Verse 28

प्राकारं ददृशुस्ते तु समन्तात्कपिलीकृतम्

राक्षसा विस्मिता राजन्सस्त्रीवृद्धाः समन्ततः

Mahabharata

Vana Parva, Adhyaya 268, Verse 29

बिभिदुस्ते मणिस्तम्भान्कर्णाट्टशिखराणि च

भग्नोन्मथितवेगानि यन्त्राणि च विचिक्षिपुः

Mahabharata

Vana Parva, Adhyaya 268, Verse 30

परिगृह्य शतघ्नीश्च सचक्राः सहुडोपलाः

चिक्षिपुर्भुजवेगेन लङ्कामध्ये महाबलाः