Vana Parva, Adhyaya 267, Verse 1
ततस्तत्रैव रामस्य समासीनस्य तैः सह
समाजग्मुः कपिश्रेष्ठाः सुग्रीववचनात्तदा
Containing 54 sacred Sanskrit shlokas with multi-author commentaries and translations.
ततस्तत्रैव रामस्य समासीनस्य तैः सह
समाजग्मुः कपिश्रेष्ठाः सुग्रीववचनात्तदा
वृतः कोटिसहस्रेण वानराणां तरस्विनाम्
श्वशुरो वालिनः श्रीमान्सुषेणो राममभ्ययात्
कोटीशतवृतौ चापि गजो गवय एव च
वानरेन्द्रौ महावीर्यौ पृथक्पृथगदृश्यताम्
षष्टिकोटिसहस्राणि प्रकर्षन्प्रत्यदृश्यत
गोलाङ्गूलो महाराज गवाक्षो भीमदर्शनः
गन्धमादनवासी तु प्रथितो गन्धमादनः
कोटीसहस्रमुग्राणां हरीणां समकर्षत
पनसो नाम मेधावी वानरः सुमहाबलः
कोटीर्दश द्वादश च त्रिंशत्पञ्च प्रकर्षति
श्रीमान्दधिमुखो नाम हरिवृद्धोऽपि वीर्यवान्
प्रचकर्ष महत्सैन्यं हरीणां भीमतेजसाम्
कृष्णानां मुखपुण्ड्राणामृक्षाणां भीमकर्मणाम्
कोटीशतसहस्रेण जाम्बवान्प्रत्यदृश्यत
एते चान्ये च बहवो हरियूथपयूथपाः
असंख्येया महाराज समीयू रामकारणात्
शिरीषकुसुमाभानां सिंहानामिव नर्दताम्
श्रूयते तुमुलः शब्दस्तत्र तत्र प्रधावताम्
गिरिकूटनिभाः केचित्केचिन्महिषसंनिभाः
शरदभ्रप्रतीकाशाः पिष्टहिङ्गुलकाननाः
उत्पतन्तः पतन्तश्च प्लवमानाश्च वानराः
उद्धुन्वन्तोऽपरे रेणून्समाजग्मुः समन्ततः
स वानरमहालोकः पूर्णसागरसंनिभः
निवेशमकरोत्तत्र सुग्रीवानुमते तदा
ततस्तेषु हरीन्द्रेषु समावृत्तेषु सर्वशः
तिथौ प्रशस्ते नक्षत्रे मुहूर्ते चाभिपूजिते
तेन व्यूढेन सैन्येन लोकानुद्वर्तयन्निव
प्रययौ राघवः श्रीमान्सुग्रीवसहितस्तदा
मुखमासीत्तु सैन्यस्य हनूमान्मारुतात्मजः
जघनं पालयामास सौमित्रिरकुतोभयः
बद्धगोधाङ्गुलित्राणौ राघवौ तत्र रेजतुः
वृतौ हरिमहामात्रैश्चन्द्रसूर्यौ ग्रहैरिव
प्रबभौ हरिसैन्यं तच्छालतालशिलायुधम्
सुमहच्छालिभवनं यथा सूर्योदयं प्रति
नलनीलाङ्गदक्राथमैन्दद्विविदपालिता
ययौ सुमहती सेना राघवस्यार्थसिद्धये
विधिवत्सुप्रशस्तेषु बहुमूलफलेषु च
प्रभूतमधुमांसेषु वारिमत्सु शिवेषु च
निवसन्ती निराबाधा तथैव गिरिसानुषु
उपायाद्धरिसेना सा क्षारोदमथ सागरम्
द्वितीयसागरनिभं तद्बलं बहुलध्वजम्
वेलावनं समासाद्य निवासमकरोत्तदा
ततो दाशरथिः श्रीमान्सुग्रीवं प्रत्यभाषत
मध्ये वानरमुख्यानां प्राप्तकालमिदं वचः
उपायः को नु भवतां मतः सागरलङ्घने
इयं च महती सेना सागरश्चापि दुस्तरः
तत्रान्ये व्याहरन्ति स्म वानराः पटुमानिनः
समर्था लङ्घने सिन्धोर्न तु कृत्स्नस्य वानराः
केचिन्नौभिर्व्यवस्यन्ति केचिच्च विविधैः प्लवैः
नेति रामश्च तान्सर्वान्सान्त्वयन्प्रत्यभाषत
शतयोजनविस्तारं न शक्ताः सर्ववानराः
क्रान्तुं तोयनिधिं वीरा नैषा वो नैष्ठिकी मतिः
नावो न सन्ति सेनाया बह्व्यस्तारयितुं तथा
वणिजामुपघातं च कथमस्मद्विधश्चरेत्
विस्तीर्णं चैव नः सैन्यं हन्याच्छिद्रेषु वै परः
प्लवोडुपप्रतारश्च नैवात्र मम रोचते
अहं त्विमं जलनिधिं समारप्स्याम्युपायतः
प्रतिशेष्याम्युपवसन्दर्शयिष्यति मां ततः