Mahabharata

Vana Parva, Adhyaya 265

Containing 30 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Vana Parva, Adhyaya 265, Verse 1

ततस्तां भर्तृशोकार्तां दीनां मलिनवाससम्

मणिशेषाभ्यलंकारां रुदतीं च पतिव्रताम्

Mahabharata

Vana Parva, Adhyaya 265, Verse 2

राक्षसीभिरुपास्यन्तीं समासीनां शिलातले

रावणः कामबाणार्तो ददर्शोपससर्प च

Mahabharata

Vana Parva, Adhyaya 265, Verse 3

देवदानवगन्धर्वयक्षकिंपुरुषैर्युधि

अजितोऽशोकवनिकां ययौ कन्दर्पमोहितः

Mahabharata

Vana Parva, Adhyaya 265, Verse 4

दिव्याम्बरधरः श्रीमान्सुमृष्टमणिकुण्डलः

विचित्रमाल्यमुकुटो वसन्त इव मूर्तिमान्

Mahabharata

Vana Parva, Adhyaya 265, Verse 5

स कल्पवृक्षसदृशो यत्नादपि विभूषितः

श्मशानचैत्यद्रुमवद्भूषितोऽपि भयंकरः

Mahabharata

Vana Parva, Adhyaya 265, Verse 6

स तस्यास्तनुमध्यायाः समीपे रजनीचरः

ददृशे रोहिणीमेत्य शनैश्चर इव ग्रहः

Mahabharata

Vana Parva, Adhyaya 265, Verse 7

स तामामन्त्र्य सुश्रोणीं पुष्पकेतुशराहतः

इदमित्यब्रवीद्बालां त्रस्तां रौहीमिवाबलाम्

Mahabharata

Vana Parva, Adhyaya 265, Verse 8

सीते पर्याप्तमेतावत्कृतो भर्तुरनुग्रहः

प्रसादं कुरु तन्वङ्गि क्रियतां परिकर्म ते

Mahabharata

Vana Parva, Adhyaya 265, Verse 9

भजस्व मां वरारोहे महार्हाभरणाम्बरा

भव मे सर्वनारीणामुत्तमा वरवर्णिनि

Mahabharata

Vana Parva, Adhyaya 265, Verse 10

सन्ति मे देवकन्याश्च राजर्षीणां तथाङ्गनाः

सन्ति दानवकन्याश्च दैत्यानां चापि योषितः

Mahabharata

Vana Parva, Adhyaya 265, Verse 11

चतुर्दश पिशाचानां कोट्यो मे वचने स्थिताः

द्विस्तावत्पुरुषादानां रक्षसां भीमकर्मणाम्

Mahabharata

Vana Parva, Adhyaya 265, Verse 12

ततो मे त्रिगुणा यक्षा ये मद्वचनकारिणः

केचिदेव धनाध्यक्षं भ्रातरं मे समाश्रिताः

Mahabharata

Vana Parva, Adhyaya 265, Verse 13

गन्धर्वाप्सरसो भद्रे मामापानगतं सदा

उपतिष्ठन्ति वामोरु यथैव भ्रातरं मम

Mahabharata

Vana Parva, Adhyaya 265, Verse 14

पुत्रोऽहमपि विप्रर्षेः साक्षाद्विश्रवसो मुनेः

पञ्चमो लोकपालानामिति मे प्रथितं यशः

Mahabharata

Vana Parva, Adhyaya 265, Verse 15

दिव्यानि भक्ष्यभोज्यानि पानानि विविधानि च

यथैव त्रिदशेशस्य तथैव मम भामिनि

Mahabharata

Vana Parva, Adhyaya 265, Verse 16

क्षीयतां दुष्कृतं कर्म वनवासकृतं तव

भार्या मे भव सुश्रोणि यथा मन्दोदरी तथा

Mahabharata

Vana Parva, Adhyaya 265, Verse 17

इत्युक्ता तेन वैदेही परिवृत्य शुभानना

तृणमन्तरतः कृत्वा तमुवाच निशाचरम्

Mahabharata

Vana Parva, Adhyaya 265, Verse 18

अशिवेनातिवामोरूरजस्रं नेत्रवारिणा

स्तनावपतितौ बाला सहितावभिवर्षती

उवाच वाक्यं तं क्षुद्रं वैदेही पतिदेवता

Mahabharata

Vana Parva, Adhyaya 265, Verse 19

असकृद्वदतो वाक्यमीदृशं राक्षसेश्वर

विषादयुक्तमेतत्ते मया श्रुतमभाग्यया

Mahabharata

Vana Parva, Adhyaya 265, Verse 20

तद्भद्रसुख भद्रं ते मानसं विनिवर्त्यताम्

परदारास्म्यलभ्या च सततं च पतिव्रता

Mahabharata

Vana Parva, Adhyaya 265, Verse 21

न चैवोपयिकी भार्या मानुषी कृपणा तव

विवशां धर्षयित्वा च कां त्वं प्रीतिमवाप्स्यसि

Mahabharata

Vana Parva, Adhyaya 265, Verse 22

प्रजापतिसमो विप्रो ब्रह्मयोनिः पिता तव

न च पालयसे धर्मं लोकपालसमः कथम्

Mahabharata

Vana Parva, Adhyaya 265, Verse 23

भ्रातरं राजराजानं महेश्वरसखं प्रभुम्

धनेश्वरं व्यपदिशन्कथं त्विह न लज्जसे

Mahabharata

Vana Parva, Adhyaya 265, Verse 24

इत्युक्त्वा प्रारुदत्सीता कम्पयन्ती पयोधरौ

शिरोधरां च तन्वङ्गी मुखं प्रच्छाद्य वाससा

Mahabharata

Vana Parva, Adhyaya 265, Verse 25

तस्या रुदत्या भामिन्या दीर्घा वेणी सुसंयता

ददृशे स्वसिता स्निग्धा काली व्यालीव मूर्धनि

Mahabharata

Vana Parva, Adhyaya 265, Verse 26

तच्छ्रुत्वा रावणो वाक्यं सीतयोक्तं सुनिष्ठुरम्

प्रत्याख्यातोऽपि दुर्मेधाः पुनरेवाब्रवीद्वचः

Mahabharata

Vana Parva, Adhyaya 265, Verse 27

काममङ्गानि मे सीते दुनोतु मकरध्वजः

न त्वामकामां सुश्रोणीं समेष्ये चारुहासिनीम्

Mahabharata

Vana Parva, Adhyaya 265, Verse 28

किं नु शक्यं मया कर्तुं यत्त्वमद्यापि मानुषम्

आहारभूतमस्माकं राममेवानुरुध्यसे

Mahabharata

Vana Parva, Adhyaya 265, Verse 29

इत्युक्त्वा तामनिन्द्याङ्गीं स राक्षसगणेश्वरः

तत्रैवान्तर्हितो भूत्वा जगामाभिमतां दिशम्

Mahabharata

Vana Parva, Adhyaya 265, Verse 30

राक्षसीभिः परिवृता वैदेही शोककर्शिता

सेव्यमाना त्रिजटया तत्रैव न्यवसत्तदा