Vana Parva, Adhyaya 264, Verse 1
ततोऽविदूरे नलिनीं प्रभूतकमलोत्पलाम्
सीताहरणदुःखार्तः पम्पां रामः समासदत्
Containing 73 sacred Sanskrit shlokas with multi-author commentaries and translations.
ततोऽविदूरे नलिनीं प्रभूतकमलोत्पलाम्
सीताहरणदुःखार्तः पम्पां रामः समासदत्
मारुतेन सुशीतेन सुखेनामृतगन्धिना
सेव्यमानो वने तस्मिञ्जगाम मनसा प्रियाम्
विललाप स राजेन्द्रस्तत्र कान्तामनुस्मरन्
कामबाणाभिसंतप्तः सौमित्रिस्तमथाब्रवीत्
न त्वामेवंविधो भावः स्प्रष्टुमर्हति मानद
आत्मवन्तमिव व्याधिः पुरुषं वृद्धशीलिनम्
प्रवृत्तिरुपलब्धा ते वैदेह्या रावणस्य च
तां त्वं पुरुषकारेण बुद्ध्या चैवोपपादय
अभिगच्छाव सुग्रीवं शैलस्थं हरिपुंगवम्
मयि शिष्ये च भृत्ये च सहाये च समाश्वस
एवं बहुविधैर्वाक्यैर्लक्ष्मणेन स राघवः
उक्तः प्रकृतिमापेदे कार्ये चानन्तरोऽभवत्
निषेव्य वारि पम्पायास्तर्पयित्वा पितॄनपि
प्रतस्थतुरुभौ वीरौ भ्रातरौ रामलक्ष्मणौ
तावृश्यमूकमभ्येत्य बहुमूलफलं गिरिम्
गिर्यग्रे वानरान्पञ्च वीरौ ददृशतुस्तदा
सुग्रीवः प्रेषयामास सचिवं वानरं तयोः
बुद्धिमन्तं हनूमन्तं हिमवन्तमिव स्थितम्
तेन संभाष्य पूर्वं तौ सुग्रीवमभिजग्मतुः
सख्यं वानरराजेन चक्रे रामस्ततो नृप
तद्वासो दर्शयामासुस्तस्य कार्ये निवेदिते
वानराणां तु यत्सीता ह्रियमाणाभ्यवासृजत्
तत्प्रत्ययकरं लब्ध्वा सुग्रीवं प्लवगाधिपम्
पृथिव्यां वानरैश्वर्ये स्वयं रामोऽभ्यषेचयत्
प्रतिजज्ञे च काकुत्स्थः समरे वालिनो वधम्
सुग्रीवश्चापि वैदेह्याः पुनरानयनं नृप
इत्युक्त्वा समयं कृत्वा विश्वास्य च परस्परम्
अभ्येत्य सर्वे किष्किन्धां तस्थुर्युद्धाभिकाङ्क्षिणः
सुग्रीवः प्राप्य किष्किन्धां ननादौघनिभस्वनः
नास्य तन्ममृषे वाली तं तारा प्रत्यषेधयत्
यथा नदति सुग्रीवो बलवानेष वानरः
मन्ये चाश्रयवान्प्राप्तो न त्वं निर्गन्तुमर्हसि
हेममाली ततो वाली तारां ताराधिपाननाम्
प्रोवाच वचनं वाग्मी तां वानरपतिः पतिः
सर्वभूतरुतज्ञा त्वं पश्य बुद्ध्या समन्विता
केनापाश्रयवान्प्राप्तो ममैष भ्रातृगन्धिकः
चिन्तयित्वा मुहूर्तं तु तारा ताराधिपप्रभा
पतिमित्यब्रवीत्प्राज्ञा शृणु सर्वं कपीश्वर
हृतदारो महासत्त्वो रामो दशरथात्मजः
तुल्यारिमित्रतां प्राप्तः सुग्रीवेण धनुर्धरः
भ्राता चास्य महाबाहुः सौमित्रिरपराजितः
लक्ष्मणो नाम मेधावी स्थितः कार्यार्थसिद्धये
मैन्दश्च द्विविदश्चैव हनूमांश्चानिलात्मजः
जाम्बवानृक्षराजश्च सुग्रीवसचिवाः स्थिताः
सर्व एते महात्मानो बुद्धिमन्तो महाबलाः
अलं तव विनाशाय रामवीर्यव्यपाश्रयात्
तस्यास्तदाक्षिप्य वचो हितमुक्तं कपीश्वरः
पर्यशङ्कत तामीर्षुः सुग्रीवगतमानसाम्
तारां परुषमुक्त्वा स निर्जगाम गुहामुखात्
स्थितं माल्यवतोऽभ्याशे सुग्रीवं सोऽभ्यभाषत
असकृत्त्वं मया मूढ निर्जितो जीवितप्रियः
मुक्तो ज्ञातिरिति ज्ञात्वा का त्वरा मरणे पुनः
इत्युक्तः प्राह सुग्रीवो भ्रातरं हेतुमद्वचः
प्राप्तकालममित्रघ्नो रामं संबोधयन्निव
हृतदारस्य मे राजन्हृतराज्यस्य च त्वया
किं नु जीवितसामर्थ्यमिति विद्धि समागतम्
एवमुक्त्वा बहुविधं ततस्तौ संनिपेततुः
समरे वालिसुग्रीवौ शालतालशिलायुधौ