Mahabharata

Vana Parva, Adhyaya 263

Containing 43 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Vana Parva, Adhyaya 263, Verse 1

सखा दशरथस्यासीज्जटायुररुणात्मजः

गृध्रराजो महावीर्यः संपातिर्यस्य सोदरः

Mahabharata

Vana Parva, Adhyaya 263, Verse 2

स ददर्श तदा सीतां रावणाङ्कगतां स्नुषाम्

क्रोधादभ्यद्रवत्पक्षी रावणं राक्षसेश्वरम्

Mahabharata

Vana Parva, Adhyaya 263, Verse 3

अथैनमब्रवीद्गृध्रो मुञ्च मुञ्चेति मैथिलीम्

ध्रियमाणे मयि कथं हरिष्यसि निशाचर

न हि मे मोक्ष्यसे जीवन्यदि नोत्सृजसे वधूम्

Mahabharata

Vana Parva, Adhyaya 263, Verse 4

उक्त्वैवं राक्षसेन्द्रं तं चकर्त नखरैर्भृशम्

पक्षतुण्डप्रहारैश्च बहुशो जर्जरीकृतः

चक्षार रुधिरं भूरि गिरिः प्रस्रवणैरिव

Mahabharata

Vana Parva, Adhyaya 263, Verse 5

स वध्यमानो गृध्रेण रामप्रियहितैषिणा

खड्गमादाय चिच्छेद भुजौ तस्य पतत्रिणः

Mahabharata

Vana Parva, Adhyaya 263, Verse 6

निहत्य गृध्रराजं स छिन्नाभ्रशिखरोपमम्

ऊर्ध्वमाचक्रमे सीतां गृहीत्वाङ्केन राक्षसः

Mahabharata

Vana Parva, Adhyaya 263, Verse 7

यत्र यत्र तु वैदेही पश्यत्याश्रममण्डलम्

सरो वा सरितं वापि तत्र मुञ्चति भूषणम्

Mahabharata

Vana Parva, Adhyaya 263, Verse 8

सा ददर्श गिरिप्रस्थे पञ्च वानरपुंगवान्

तत्र वासो महद्दिव्यमुत्ससर्ज मनस्विनी

Mahabharata

Vana Parva, Adhyaya 263, Verse 9

तत्तेषां वानरेन्द्राणां पपात पवनोद्धुतम्

मध्ये सुपीतं पञ्चानां विद्युन्मेघान्तरे यथा

Mahabharata

Vana Parva, Adhyaya 263, Verse 10

एवं हृतायां वैदेह्यां रामो हत्वा महामृगम्

निवृत्तो ददृशे धीमान्भ्रातरं लक्ष्मणं तदा

Mahabharata

Vana Parva, Adhyaya 263, Verse 11

कथमुत्सृज्य वैदेहीं वने राक्षससेविते

इत्येवं भ्रातरं दृष्ट्वा प्राप्तोऽसीति व्यगर्हयत्

Mahabharata

Vana Parva, Adhyaya 263, Verse 12

मृगरूपधरेणाथ रक्षसा सोऽपकर्षणम्

भ्रातुरागमनं चैव चिन्तयन्पर्यतप्यत

Mahabharata

Vana Parva, Adhyaya 263, Verse 13

गर्हयन्नेव रामस्तु त्वरितस्तं समासदत्

अपि जीवति वैदेही नेति पश्यामि लक्ष्मण

Mahabharata

Vana Parva, Adhyaya 263, Verse 14

तस्य तत्सर्वमाचख्यौ सीताया लक्ष्मणो वचः

यदुक्तवत्यसदृशं वैदेही पश्चिमं वचः

Mahabharata

Vana Parva, Adhyaya 263, Verse 15

दह्यमानेन तु हृदा रामोऽभ्यपतदाश्रमम्

स ददर्श तदा गृध्रं निहतं पर्वतोपमम्

Mahabharata

Vana Parva, Adhyaya 263, Verse 16

राक्षसं शङ्कमानस्तु विकृष्य बलवद्धनुः

अभ्यधावत काकुत्स्थस्ततस्तं सहलक्ष्मणः

Mahabharata

Vana Parva, Adhyaya 263, Verse 17

स तावुवाच तेजस्वी सहितौ रामलक्ष्मणौ

गृध्रराजोऽस्मि भद्रं वां सखा दशरथस्य ह

Mahabharata

Vana Parva, Adhyaya 263, Verse 18

तस्य तद्वचनं श्रुत्वा संगृह्य धनुषी शुभे

कोऽयं पितरमस्माकं नाम्नाहेत्यूचतुश्च तौ

Mahabharata

Vana Parva, Adhyaya 263, Verse 19

ततो ददृशतुस्तौ तं छिन्नपक्षद्वयं तथा

तयोः शशंस गृध्रस्तु सीतार्थे रावणाद्वधम्

Mahabharata

Vana Parva, Adhyaya 263, Verse 20

अपृच्छद्राघवो गृध्रं रावणः कां दिशं गतः

तस्य गृध्रः शिरःकम्पैराचचक्षे ममार च

Mahabharata

Vana Parva, Adhyaya 263, Verse 21

दक्षिणामिति काकुत्स्थो विदित्वास्य तदिङ्गितम्

संस्कारं लम्भयामास सखायं पूजयन्पितुः

Mahabharata

Vana Parva, Adhyaya 263, Verse 22

ततो दृष्ट्वाश्रमपदं व्यपविद्धबृसीघटम्

विध्वस्तकलशं शून्यं गोमायुबलसेवितम्

Mahabharata

Vana Parva, Adhyaya 263, Verse 23

दुःखशोकसमाविष्टौ वैदेहीहरणार्दितौ

जग्मतुर्दण्डकारण्यं दक्षिणेन परंतपौ

Mahabharata

Vana Parva, Adhyaya 263, Verse 24

वने महति तस्मिंस्तु रामः सौमित्रिणा सह

ददर्श मृगयूथानि द्रवमाणानि सर्वशः

शब्दं च घोरं सत्त्वानां दावाग्नेरिव वर्धतः

Mahabharata

Vana Parva, Adhyaya 263, Verse 25

अपश्येतां मुहूर्ताच्च कबन्धं घोरदर्शनम्

मेघपर्वतसंकाशं शालस्कन्धं महाभुजम्

उरोगतविशालाक्षं महोदरमहामुखम्

Mahabharata

Vana Parva, Adhyaya 263, Verse 26

यदृच्छयाथ तद्रक्षः करे जग्राह लक्ष्मणम्

विषादमगमत्सद्यः सौमित्रिरथ भारत

Mahabharata

Vana Parva, Adhyaya 263, Verse 27

स राममभिसंप्रेक्ष्य कृष्यते येन तन्मुखम्

विषण्णश्चाब्रवीद्रामं पश्यावस्थामिमां मम

Mahabharata

Vana Parva, Adhyaya 263, Verse 28

हरणं चैव वैदेह्या मम चायमुपप्लवः

राज्यभ्रंशश्च भवतस्तातस्य मरणं तथा

Mahabharata

Vana Parva, Adhyaya 263, Verse 29

नाहं त्वां सह वैदेह्या समेतं कोसलागतम्

द्रक्ष्यामि पृथिवीराज्ये पितृपैतामहे स्थितम्

Mahabharata

Vana Parva, Adhyaya 263, Verse 30

द्रक्ष्यन्त्यार्यस्य धन्या ये कुशलाजशमीलवैः

अभिषिक्तस्य वदनं सोमं साभ्रलवं यथा