Vana Parva, Adhyaya 261, Verse 1
उक्तं भगवता जन्म रामादीनां पृथक्पृथक्
प्रस्थानकारणं ब्रह्मञ्श्रोतुमिच्छामि कथ्यताम्
Containing 55 sacred Sanskrit shlokas with multi-author commentaries and translations.
उक्तं भगवता जन्म रामादीनां पृथक्पृथक्
प्रस्थानकारणं ब्रह्मञ्श्रोतुमिच्छामि कथ्यताम्
कथं दाशरथी वीरौ भ्रातरौ रामलक्ष्मणौ
प्रस्थापितौ वनं ब्रह्म मैथिली च यशस्विनी
जातपुत्रो दशरथः प्रीतिमानभवन्नृपः
क्रियारतिर्धर्मपरः सततं वृद्धसेविता
क्रमेण चास्य ते पुत्रा व्यवर्धन्त महौजसः
वेदेषु सरहस्येषु धनुर्वेदे च पारगाः
चरितब्रह्मचर्यास्ते कृतदाराश्च पार्थिव
यदा तदा दशरथः प्रीतिमानभवत्सुखी
ज्येष्ठो रामोऽभवत्तेषां रमयामास हि प्रजाः
मनोहरतया धीमान्पितुर्हृदयतोषणः
ततः स राजा मतिमान्मत्वात्मानं वयोऽधिकम्
मन्त्रयामास सचिवैर्धर्मज्ञैश्च पुरोहितैः
अभिषेकाय रामस्य यौवराज्येन भारत
प्राप्तकालं च ते सर्वे मेनिरे मन्त्रिसत्तमाः
लोहिताक्षं महाबाहुं मत्तमातङ्गगामिनम्
दीर्घबाहुं महोरस्कं नीलकुञ्चितमूर्धजम्
दीप्यमानं श्रिया वीरं शक्रादनवमं बले
पारगं सर्वधर्माणां बृहस्पतिसमं मतौ
सर्वानुरक्तप्रकृतिं सर्वविद्याविशारदम्
जितेन्द्रियममित्राणामपि दृष्टिमनोहरम्
नियन्तारमसाधूनां गोप्तारं धर्मचारिणाम्
धृतिमन्तमनाधृष्यं जेतारमपराजितम्
पुत्रं राजा दशरथः कौसल्यानन्दवर्धनम्
संदृश्य परमां प्रीतिमगच्छत्कुरुनन्दन
चिन्तयंश्च महातेजा गुणान्रामस्य वीर्यवान्
अभ्यभाषत भद्रं ते प्रीयमाणः पुरोहितम्
अद्य पुष्यो निशि ब्रह्मन्पुण्यं योगमुपैष्यति
संभाराः संभ्रियन्तां मे रामश्चोपनिमन्त्र्यताम्
इति तद्राजवचनं प्रतिश्रुत्याथ मन्थरा
कैकेयीमभिगम्येदं काले वचनमब्रवीत्
अद्य कैकेयि दौर्भाग्यं राज्ञा ते ख्यापितं महत्
आशीविषस्त्वां संक्रुद्धश्चण्डो दशति दुर्भगे
सुभगा खलु कौसल्या यस्याः पुत्रोऽभिषेक्ष्यते
कुतो हि तव सौभाग्यं यस्याः पुत्रो न राज्यभाक्
सा तद्वचनमाज्ञाय सर्वाभरणभूषिता
वेदीविलग्नमध्येव बिभ्रती रूपमुत्तमम्
विविक्ते पतिमासाद्य हसन्तीव शुचिस्मिता
प्रणयं व्यञ्जयन्तीव मधुरं वाक्यमब्रवीत्
सत्यप्रतिज्ञ यन्मे त्वं काममेकं निसृष्टवान्
उपाकुरुष्व तद्राजंस्तस्मान्मुच्यस्व संकटात्
वरं ददानि ते हन्त तद्गृहाण यदिच्छसि
अवध्यो वध्यतां कोऽद्य वध्यः कोऽद्य विमुच्यताम्
धनं ददानि कस्याद्य ह्रियतां कस्य वा पुनः
ब्राह्मणस्वादिहान्यत्र यत्किंचिद्वित्तमस्ति मे
सा तद्वचनमाज्ञाय परिगृह्य नराधिपम्
आत्मनो बलमाज्ञाय तत एनमुवाच ह
आभिषेचनिकं यत्ते रामार्थमुपकल्पितम्
भरतस्तदवाप्नोतु वनं गच्छतु राघवः
स तद्राजा वचः श्रुत्वा विप्रियं दारुणोदयम्
दुःखार्तो भरतश्रेष्ठ न किंचिद्व्याजहार ह
ततस्तथोक्तं पितरं रामो विज्ञाय वीर्यवान्
वनं प्रतस्थे धर्मात्मा राजा सत्यो भवत्विति
तमन्वगच्छल्लक्ष्मीवान्धनुष्माँल्लक्ष्मणस्तदा
सीता च भार्या भद्रं ते वैदेही जनकात्मजा
ततो वनं गते रामे राजा दशरथस्तदा
समयुज्यत देहस्य कालपर्यायधर्मणा
रामं तु गतमाज्ञाय राजानं च तथागतम्
आनाय्य भरतं देवी कैकेयी वाक्यमब्रवीत्