Mahabharata

Vana Parva, Adhyaya 260

Containing 15 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Vana Parva, Adhyaya 260, Verse 1

ततो ब्रह्मर्षयः सिद्धा देवराजर्षयस्तथा

हव्यवाहं पुरस्कृत्य ब्रह्माणं शरणं गताः

Mahabharata

Vana Parva, Adhyaya 260, Verse 2

यः स विश्रवसः पुत्रो दशग्रीवो महाबलः

अवध्यो वरदानेन कृतो भगवता पुरा

Mahabharata

Vana Parva, Adhyaya 260, Verse 3

स बाधते प्रजाः सर्वा विप्रकारैर्महाबलः

ततो नस्त्रातु भगवन्नान्यस्त्राता हि विद्यते

Mahabharata

Vana Parva, Adhyaya 260, Verse 4

न स देवासुरैः शक्यो युद्धे जेतुं विभावसो

विहितं तत्र यत्कार्यमभितस्तस्य निग्रहे

Mahabharata

Vana Parva, Adhyaya 260, Verse 5

तदर्थमवतीर्णोऽसौ मन्नियोगाच्चतुर्भुजः

विष्णुः प्रहरतां श्रेष्ठः स कर्मैतत्करिष्यति

Mahabharata

Vana Parva, Adhyaya 260, Verse 6

पितामहस्ततस्तेषां संनिधौ वाक्यमब्रवीत्

सर्वैर्देवगणैः सार्धं संभवध्वं महीतले

Mahabharata

Vana Parva, Adhyaya 260, Verse 7

विष्णोः सहायानृक्षीषु वानरीषु च सर्वशः

जनयध्वं सुतान्वीरान्कामरूपबलान्वितान्

Mahabharata

Vana Parva, Adhyaya 260, Verse 8

ततो भागानुभागेन देवगन्धर्वदानवाः

अवतर्तुं महीं सर्वे रञ्जयामासुरञ्जसा

Mahabharata

Vana Parva, Adhyaya 260, Verse 9

तेषां समक्षं गन्धर्वीं दुन्दुभीं नाम नामतः

शशास वरदो देवो देवकार्यार्थसिद्धये

Mahabharata

Vana Parva, Adhyaya 260, Verse 10

पितामहवचः श्रुत्वा गन्धर्वी दुन्दुभी ततः

मन्थरा मानुषे लोके कुब्जा समभवत्तदा

Mahabharata

Vana Parva, Adhyaya 260, Verse 11

शक्रप्रभृतयश्चैव सर्वे ते सुरसत्तमाः

वानरर्क्षवरस्त्रीषु जनयामासुरात्मजान्

तेऽन्ववर्तन्पितॄन्सर्वे यशसा च बलेन च

Mahabharata

Vana Parva, Adhyaya 260, Verse 12

भेत्तारो गिरिशृङ्गाणां शालतालशिलायुधाः

वज्रसंहननाः सर्वे सर्वे चौघबलास्तथा

Mahabharata

Vana Parva, Adhyaya 260, Verse 13

कामवीर्यधराश्चैव सर्वे युद्धविशारदाः

नागायुतसमप्राणा वायुवेगसमा जवे

यत्रेच्छकनिवासाश्च केचिदत्र वनौकसः

Mahabharata

Vana Parva, Adhyaya 260, Verse 14

एवं विधाय तत्सर्वं भगवाँल्लोकभावनः

मन्थरां बोधयामास यद्यत्कार्यं यथा यथा

Mahabharata

Vana Parva, Adhyaya 260, Verse 15

सा तद्वचनमाज्ञाय तथा चक्रे मनोजवा

इतश्चेतश्च गच्छन्ती वैरसंधुक्षणे रता