Vana Parva, Adhyaya 259, Verse 1
पुलस्त्यस्य तु यः क्रोधादर्धदेहोऽभवन्मुनिः
विश्रवा नाम सक्रोधः स वैश्रवणमैक्षत
Containing 40 sacred Sanskrit shlokas with multi-author commentaries and translations.
पुलस्त्यस्य तु यः क्रोधादर्धदेहोऽभवन्मुनिः
विश्रवा नाम सक्रोधः स वैश्रवणमैक्षत
बुबुधे तं तु सक्रोधं पितरं राक्षसेश्वरः
कुबेरस्तत्प्रसादार्थं यतते स्म सदा नृप
स राजराजो लङ्कायां निवसन्नरवाहनः
राक्षसीः प्रददौ तिस्रः पितुर्वै परिचारिकाः
तास्तदा तं महात्मानं संतोषयितुमुद्यताः
ऋषिं भरतशार्दूल नृत्तगीतविशारदाः
पुष्पोत्कटा च राका च मालिनी च विशां पते
अन्योन्यस्पर्धया राजञ्श्रेयस्कामाः सुमध्यमाः
तासां स भगवांस्तुष्टो महात्मा प्रददौ वरान्
लोकपालोपमान्पुत्रानेकैकस्या यथेप्सितान्
पुष्पोत्कटायां जज्ञाते द्वौ पुत्रौ राक्षसेश्वरौ
कुम्भकर्णदशग्रीवौ बलेनाप्रतिमौ भुवि
मालिनी जनयामास पुत्रमेकं विभीषणम्
राकायां मिथुनं जज्ञे खरः शूर्पणखा तथा
विभीषणस्तु रूपेण सर्वेभ्योऽभ्यधिकोऽभवत्
स बभूव महाभागो धर्मगोप्ता क्रियारतिः
दशग्रीवस्तु सर्वेषां ज्येष्ठो राक्षसपुंगवः
महोत्साहो महावीर्यो महासत्त्वपराक्रमः
कुम्भकर्णो बलेनासीत्सर्वेभ्योऽभ्यधिकस्तदा
मायावी रणशौण्डश्च रौद्रश्च रजनीचरः
खरो धनुषि विक्रान्तो ब्रह्मद्विट्पिशिताशनः
सिद्धविघ्नकरी चापि रौद्रा शूर्पणखा तथा
सर्वे वेदविदः शूराः सर्वे सुचरितव्रताः
ऊषुः पित्रा सह रता गन्धमादनपर्वते
ततो वैश्रवणं तत्र ददृशुर्नरवाहनम्
पित्रा सार्धं समासीनमृद्ध्या परमया युतम्
जातस्पर्धास्ततस्ते तु तपसे धृतनिश्चयाः
ब्रह्माणं तोषयामासुर्घोरेण तपसा तदा
अतिष्ठदेकपादेन सहस्रं परिवत्सरान्
वायुभक्षो दशग्रीवः पञ्चाग्निः सुसमाहितः
अधःशायी कुम्भकर्णो यताहारो यतव्रतः
विभीषणः शीर्णपर्णमेकमभ्यवहारयत्
उपवासरतिर्धीमान्सदा जप्यपरायणः
तमेव कालमातिष्ठत्तीव्रं तप उदारधीः
खरः शूर्पणखा चैव तेषां वै तप्यतां तपः
परिचर्यां च रक्षां च चक्रतुर्हृष्टमानसौ
पूर्णे वर्षसहस्रे तु शिरश्छित्त्वा दशाननः
जुहोत्यग्नौ दुराधर्षस्तेनातुष्यज्जगत्प्रभुः
ततो ब्रह्मा स्वयं गत्वा तपसस्तान्न्यवारयत्
प्रलोभ्य वरदानेन सर्वानेव पृथक्पृथक्
प्रीतोऽस्मि वो निवर्तध्वं वरान्वृणुत पुत्रकाः
यद्यदिष्टमृते त्वेकममरत्वं तथास्तु तत्
यद्यदग्नौ हुतं सर्वं शिरस्ते महदीप्सया
तथैव तानि ते देहे भविष्यन्ति यथेप्सितम्
वैरूप्यं च न ते देहे कामरूपधरस्तथा
भविष्यसि रणेऽरीणां विजेतासि न संशयः
गन्धर्वदेवासुरतो यक्षराक्षसतस्तथा
सर्पकिंनरभूतेभ्यो न मे भूयात्पराभवः
य एते कीर्तिताः सर्वे न तेभ्योऽस्ति भयं तव
ऋते मनुष्याद्भद्रं ते तथा तद्विहितं मया
एवमुक्तो दशग्रीवस्तुष्टः समभवत्तदा
अवमेने हि दुर्बुद्धिर्मनुष्यान्पुरुषादकः
कुम्भकर्णमथोवाच तथैव प्रपितामहः
स वव्रे महतीं निद्रां तमसा ग्रस्तचेतनः
तथा भविष्यतीत्युक्त्वा विभीषणमुवाच ह
वरं वृणीष्व पुत्र त्वं प्रीतोऽस्मीति पुनः पुनः
परमापद्गतस्यापि नाधर्मे मे मतिर्भवेत्
अशिक्षितं च भगवन्ब्रह्मास्त्रं प्रतिभातु मे