Mahabharata

Vana Parva, Adhyaya 258

Containing 16 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Vana Parva, Adhyaya 258, Verse 1

प्राप्तमप्रतिमं दुःखं रामेण भरतर्षभ

रक्षसा जानकी तस्य हृता भार्या बलीयसा

Mahabharata

Vana Parva, Adhyaya 258, Verse 2

आश्रमाद्राक्षसेन्द्रेण रावणेन विहायसा

मायामास्थाय तरसा हत्वा गृध्रं जटायुषम्

Mahabharata

Vana Parva, Adhyaya 258, Verse 3

प्रत्याजहार तां रामः सुग्रीवबलमाश्रितः

बद्ध्वा सेतुं समुद्रस्य दग्ध्वा लङ्कां शितैः शरैः

Mahabharata

Vana Parva, Adhyaya 258, Verse 4

कस्मिन्रामः कुले जातः किंवीर्यः किंपराक्रमः

रावणः कस्य वा पुत्रः किं वैरं तस्य तेन ह

Mahabharata

Vana Parva, Adhyaya 258, Verse 5

एतन्मे भगवन्सर्वं सम्यगाख्यातुमर्हसि

श्रोतुमिच्छामि चरितं रामस्याक्लिष्टकर्मणः

Mahabharata

Vana Parva, Adhyaya 258, Verse 6

अजो नामाभवद्राजा महानिक्ष्वाकुवंशजः

तस्य पुत्रो दशरथः शश्वत्स्वाध्यायवाञ्शुचिः

Mahabharata

Vana Parva, Adhyaya 258, Verse 7

अभवंस्तस्य चत्वारः पुत्रा धर्मार्थकोविदाः

रामलक्ष्मणशत्रुघ्ना भरतश्च महाबलः

Mahabharata

Vana Parva, Adhyaya 258, Verse 8

रामस्य माता कौसल्या कैकेयी भरतस्य तु

सुतौ लक्ष्मणशत्रुघ्नौ सुमित्रायाः परंतपौ

Mahabharata

Vana Parva, Adhyaya 258, Verse 9

विदेहराजो जनकः सीता तस्यात्मजा विभो

यां चकार स्वयं त्वष्टा रामस्य महिषीं प्रियाम्

Mahabharata

Vana Parva, Adhyaya 258, Verse 10

एतद्रामस्य ते जन्म सीतायाश्च प्रकीर्तितम्

रावणस्यापि ते जन्म व्याख्यास्यामि जनेश्वर

Mahabharata

Vana Parva, Adhyaya 258, Verse 11

पितामहो रावणस्य साक्षाद्देवः प्रजापतिः

स्वयंभूः सर्वलोकानां प्रभुः स्रष्टा महातपाः

Mahabharata

Vana Parva, Adhyaya 258, Verse 12

पुलस्त्यो नाम तस्यासीन्मानसो दयितः सुतः

तस्य वैश्रवणो नाम गवि पुत्रोऽभवत्प्रभुः

Mahabharata

Vana Parva, Adhyaya 258, Verse 13

पितरं स समुत्सृज्य पितामहमुपस्थितः

तस्य कोपात्पिता राजन्ससर्जात्मानमात्मना

Mahabharata

Vana Parva, Adhyaya 258, Verse 14

स जज्ञे विश्रवा नाम तस्यात्मार्धेन वै द्विजः

प्रतीकाराय सक्रोधस्ततो वैश्रवणस्य वै

Mahabharata

Vana Parva, Adhyaya 258, Verse 15

पितामहस्तु प्रीतात्मा ददौ वैश्रवणस्य ह

अमरत्वं धनेशत्वं लोकपालत्वमेव च

Mahabharata

Vana Parva, Adhyaya 258, Verse 16

ईशानेन तथा सख्यं पुत्रं च नलकूबरम्

राजधानीनिवेशं च लङ्कां रक्षोगणान्विताम्