Mahabharata

Vana Parva, Adhyaya 257

Containing 10 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Vana Parva, Adhyaya 257, Verse 1

एवं हृतायां कृष्णायां प्राप्य क्लेशमनुत्तमम्

अत ऊर्ध्वं नरव्याघ्राः किमकुर्वत पाण्डवाः

Mahabharata

Vana Parva, Adhyaya 257, Verse 2

एवं कृष्णां मोक्षयित्वा विनिर्जित्य जयद्रथम्

आसां चक्रे मुनिगणैर्धर्मराजो युधिष्ठिरः

Mahabharata

Vana Parva, Adhyaya 257, Verse 3

तेषां मध्ये महर्षीणां शृण्वतामनुशोचताम्

मार्कण्डेयमिदं वाक्यमब्रवीत्पाण्डुनन्दनः

Mahabharata

Vana Parva, Adhyaya 257, Verse 4

मन्ये कालश्च बलवान्दैवं च विधिनिर्मितम्

भवितव्यं च भूतानां यस्य नास्ति व्यतिक्रमः

Mahabharata

Vana Parva, Adhyaya 257, Verse 5

कथं हि पत्नीमस्माकं धर्मज्ञां धर्मचारिणीम्

संस्पृशेदीदृशो भावः शुचिं स्तैन्यमिवानृतम्

Mahabharata

Vana Parva, Adhyaya 257, Verse 6

न हि पापं कृतं किंचित्कर्म वा निन्दितं क्वचित्

द्रौपद्या ब्राह्मणेष्वेव धर्मः सुचरितो महान्

Mahabharata

Vana Parva, Adhyaya 257, Verse 7

तां जहार बलाद्राजा मूढबुद्धिर्जयद्रथः

तस्याः संहरणात्प्राप्तः शिरसः केशवापनम्

पराजयं च संग्रामे ससहायः समाप्तवान्

Mahabharata

Vana Parva, Adhyaya 257, Verse 8

प्रत्याहृता तथास्माभिर्हत्वा तत्सैन्धवं बलम्

तद्दारहरणं प्राप्तमस्माभिरवितर्कितम्

Mahabharata

Vana Parva, Adhyaya 257, Verse 9

दुःखश्चायं वने वासो मृगयायां च जीविका

हिंसा च मृगजातीनां वनौकोभिर्वनौकसाम्

ज्ञातिभिर्विप्रवासश्च मिथ्या व्यवसितैरयम्

Mahabharata

Vana Parva, Adhyaya 257, Verse 10

अस्ति नूनं मया कश्चिदल्पभाग्यतरो नरः

भवता दृष्टपूर्वो वा श्रुतपूर्वोऽपि वा भवेत्