Vana Parva, Adhyaya 256, Verse 1
जयद्रथस्तु संप्रेक्ष्य भ्रातरावुद्यतायुधौ
प्राद्रवत्तूर्णमव्यग्रो जीवितेप्सुः सुदुःखितः
Containing 30 sacred Sanskrit shlokas with multi-author commentaries and translations.
जयद्रथस्तु संप्रेक्ष्य भ्रातरावुद्यतायुधौ
प्राद्रवत्तूर्णमव्यग्रो जीवितेप्सुः सुदुःखितः
तं भीमसेनो धावन्तमवतीर्य रथाद्बली
अभिद्रुत्य निजग्राह केशपक्षेऽत्यमर्षणः
समुद्यम्य च तं रोषान्निष्पिपेष महीतले
गले गृहीत्वा राजानं ताडयामास चैव ह
पुनः संजीवमानस्य तस्योत्पतितुमिच्छतः
पदा मूर्ध्नि महाबाहुः प्राहरद्विलपिष्यतः
तस्य जानुं ददौ भीमो जघ्ने चैनमरत्निना
स मोहमगमद्राजा प्रहारवरपीडितः
विरोषं भीमसेनं तु वारयामास फल्गुनः
दुःशलायाः कृते राजा यत्तदाहेति कौरव
नायं पापसमाचारो मत्तो जीवितुमर्हति
द्रौपद्यास्तदनर्हायाः परिक्लेष्टा नराधमः
किं नु शक्यं मया कर्तुं यद्राजा सततं घृणी
त्वं च बालिशया बुद्ध्या सदैवास्मान्प्रबाधसे
एवमुक्त्वा सटास्तस्य पञ्च चक्रे वृकोदरः
अर्धचन्द्रेण बाणेन किंचिदब्रुवतस्तदा
विकल्पयित्वा राजानं ततः प्राह वृकोदरः
जीवितुं चेच्छसे मूढ हेतुं मे गदतः शृणु
दासोऽस्मीति त्वया वाच्यं संसत्सु च सभासु च
एवं ते जीवितं दद्यामेष युद्धजितो विधिः
एवमस्त्विति तं राजा कृच्छ्रप्राणो जयद्रथः
प्रोवाच पुरुषव्याघ्रं भीममाहवशोभिनम्
तत एनं विचेष्टन्तं बद्ध्वा पार्थो वृकोदरः
रथमारोपयामास विसंज्ञं पांसुगुण्ठितम्
ततस्तं रथमास्थाय भीमः पार्थानुगस्तदा
अभ्येत्याश्रममध्यस्थमभ्यगच्छद्युधिष्ठिरम्
दर्शयामास भीमस्तु तदवस्थं जयद्रथम्
तं राजा प्राहसद्दृष्ट्वा मुच्यतामिति चाब्रवीत्
राजानं चाब्रवीद्भीमो द्रौपद्यै कथयेति वै
दासभावं गतो ह्येष पाण्डूनां पापचेतनः
तमुवाच ततो ज्येष्ठो भ्राता सप्रणयं वचः
मुञ्चैनमधमाचारं प्रमाणं यदि ते वयम्
द्रौपदी चाब्रवीद्भीममभिप्रेक्ष्य युधिष्ठिरम्
दासोऽयं मुच्यतां राज्ञस्त्वया पञ्चसटः कृतः
स मुक्तोऽभ्येत्य राजानमभिवाद्य युधिष्ठिरम्
ववन्दे विह्वलो राजा तांश्च सर्वान्मुनींस्तदा
तमुवाच घृणी राजा धर्मपुत्रो युधिष्ठिरः
तथा जयद्रथं दृष्ट्वा गृहीतं सव्यसाचिना
अदासो गच्छ मुक्तोऽसि मैवं कार्षीः पुनः क्वचित्
स्त्रीकामुक धिगस्तु त्वां क्षुद्रः क्षुद्रसहायवान्
एवंविधं हि कः कुर्यात्त्वदन्यः पुरुषाधमः
गतसत्त्वमिव ज्ञात्वा कर्तारमशुभस्य तम्
संप्रेक्ष्य भरतश्रेष्ठः कृपां चक्रे नराधिपः
धर्मे ते वर्धतां बुद्धिर्मा चाधर्मे मनः कृथाः
साश्वः सरथपादातः स्वस्ति गच्छ जयद्रथ
एवमुक्तस्तु सव्रीडं तूष्णीं किंचिदवाङ्मुखः
जगाम राजा दुःखार्तो गङ्गाद्वाराय भारत
स देवं शरणं गत्वा विरूपाक्षमुमापतिम्
तपश्चचार विपुलं तस्य प्रीतो वृषध्वजः
बलिं स्वयं प्रत्यगृह्णात्प्रीयमाणस्त्रिलोचनः
वरं चास्मै ददौ देवः स च जग्राह तच्छृणु
समस्तान्सरथान्पञ्च जयेयं युधि पाण्डवान्
इति राजाब्रवीद्देवं नेति देवस्तमब्रवीत्
अजय्यांश्चाप्यवध्यांश्च वारयिष्यसि तान्युधि
ऋतेऽर्जुनं महाबाहुं देवैरपि दुरासदम्
यमाहुरजितं देवं शङ्खचक्रगदाधरम्
प्रधानः सोऽस्त्रविदुषां तेन कृष्णेन रक्ष्यते
एवमुक्तस्तु नृपतिः स्वमेव भवनं ययौ
पाण्डवाश्च वने तस्मिन्न्यवसन्काम्यके तदा