Mahabharata

Vana Parva, Adhyaya 254

Containing 21 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Vana Parva, Adhyaya 254, Verse 1

ततो घोरतरः शब्दो वने समभवत्तदा

भीमसेनार्जुनौ दृष्ट्वा क्षत्रियाणाममर्षिणाम्

Mahabharata

Vana Parva, Adhyaya 254, Verse 2

तेषां ध्वजाग्राण्यभिवीक्ष्य राजा; स्वयं दुरात्मा कुरुपुंगवानाम्

जयद्रथो याज्ञसेनीमुवाच; रथे स्थितां भानुमतीं हतौजाः

Mahabharata

Vana Parva, Adhyaya 254, Verse 3

आयान्तीमे पञ्च रथा महान्तो; मन्ये च कृष्णे पतयस्तवैते

सा जानती ख्यापय नः सुकेशि; परं परं पाण्डवानां रथस्थम्

Mahabharata

Vana Parva, Adhyaya 254, Verse 4

किं ते ज्ञातैर्मूढ महाधनुर्धरै;रनायुष्यं कर्म कृत्वातिघोरम्

एते वीराः पतयो मे समेता; न वः शेषः कश्चिदिहास्ति युद्धे

Mahabharata

Vana Parva, Adhyaya 254, Verse 5

आख्यातव्यं त्वेव सर्वं मुमूर्षो;र्मया तुभ्यं पृष्टया धर्म एषः

न मे व्यथा विद्यते त्वद्भयं वा; संपश्यन्त्याः सानुजं धर्मराजम्

Mahabharata

Vana Parva, Adhyaya 254, Verse 6

यस्य ध्वजाग्रे नदतो मृदङ्गौ; नन्दोपनन्दौ मधुरौ युक्तरूपौ

एतं स्वधर्मार्थविनिश्चयज्ञं; सदा जनाः कृत्यवन्तोऽनुयान्ति

Mahabharata

Vana Parva, Adhyaya 254, Verse 7

य एष जाम्बूनदशुद्धगौरः; प्रचण्डघोणस्तनुरायताक्षः

एतं कुरुश्रेष्ठतमं वदन्ति; युधिष्ठिरं धर्मसुतं पतिं मे

Mahabharata

Vana Parva, Adhyaya 254, Verse 8

अप्येष शत्रोः शरणागतस्य; दद्यात्प्राणान्धर्मचारी नृवीरः

परैह्येनं मूढ जवेन भूतये; त्वमात्मनः प्राञ्जलिर्न्यस्तशस्त्रः

Mahabharata

Vana Parva, Adhyaya 254, Verse 9

अथाप्येनं पश्यसि यं रथस्थं; महाभुजं शालमिव प्रवृद्धम्

संदष्टोष्ठं भ्रुकुटीसंहतभ्रुवं; वृकोदरो नाम पतिर्ममैषः

Mahabharata

Vana Parva, Adhyaya 254, Verse 10

आजानेया बलिनः साधु दान्ता; महाबलाः शूरमुदावहन्ति

एतस्य कर्माण्यतिमानुषाणि; भीमेति शब्दोऽस्य गतः पृथिव्याम्

Mahabharata

Vana Parva, Adhyaya 254, Verse 11

नास्यापराद्धाः शेषमिहाप्नुवन्ति; नाप्यस्य वैरं विस्मरते कदाचित्

वैरस्यान्तं संविधायोपयाति; पश्चाच्छान्तिं न च गच्छत्यतीव

Mahabharata

Vana Parva, Adhyaya 254, Verse 12

मृदुर्वदान्यो धृतिमान्यशस्वी; जितेन्द्रियो वृद्धसेवी नृवीरः

भ्राता च शिष्यश्च युधिष्ठिरस्य; धनंजयो नाम पतिर्ममैषः

Mahabharata

Vana Parva, Adhyaya 254, Verse 13

यो वै न कामान्न भयान्न लोभा;त्त्यजेद्धर्मं न नृशंसं च कुर्यात्

स एष वैश्वानरतुल्यतेजाः; कुन्तीसुतः शत्रुसहः प्रमाथी

Mahabharata

Vana Parva, Adhyaya 254, Verse 14

यः सर्वधर्मार्थविनिश्चयज्ञो; भयार्तानां भयहर्ता मनीषी

यस्योत्तमं रूपमाहुः पृथिव्यां; यं पाण्डवाः परिरक्षन्ति सर्वे

Mahabharata

Vana Parva, Adhyaya 254, Verse 15

प्राणैर्गरीयांसमनुव्रतं वै; स एष वीरो नकुलः पतिर्मे

यः खड्गयोधी लघुचित्रहस्तो; महांश्च धीमान्सहदेवोऽद्वितीयः

Mahabharata

Vana Parva, Adhyaya 254, Verse 16

यस्याद्य कर्म द्रक्ष्यसे मूढसत्त्व; शतक्रतोर्वा दैत्यसेनासु संख्ये

शूरः कृतास्त्रो मतिमान्मनीषी; प्रियंकरो धर्मसुतस्य राज्ञः

Mahabharata

Vana Parva, Adhyaya 254, Verse 17

य एष चन्द्रार्कसमानतेजा; जघन्यजः पाण्डवानां प्रियश्च

बुद्ध्या समो यस्य नरो न विद्यते; वक्ता तथा सत्सु विनिश्चयज्ञः

Mahabharata

Vana Parva, Adhyaya 254, Verse 18

स एष शूरो नित्यममर्षणश्च; धीमान्प्राज्ञः सहदेवः पतिर्मे

त्यजेत्प्राणान्प्रविशेद्धव्यवाहं; न त्वेवैष व्याहरेद्धर्मबाह्यम्

सदा मनस्वी क्षत्रधर्मे निविष्टः; कुन्त्याः प्राणैरिष्टतमो नृवीरः

Mahabharata

Vana Parva, Adhyaya 254, Verse 19

विशीर्यन्तीं नावमिवार्णवान्ते; रत्नाभिपूर्णां मकरस्य पृष्ठे

सेनां तवेमां हतसर्वयोधां; विक्षोभितां द्रक्ष्यसि पाण्डुपुत्रैः

Mahabharata

Vana Parva, Adhyaya 254, Verse 20

इत्येते वै कथिताः पाण्डुपुत्रा; यांस्त्वं मोहादवमन्य प्रवृत्तः

यद्येतैस्त्वं मुच्यसेऽरिष्टदेहः; पुनर्जन्म प्राप्स्यसे जीव एव

Mahabharata

Vana Parva, Adhyaya 254, Verse 21

ततः पार्थाः पञ्च पञ्चेन्द्रकल्पा;स्त्यक्त्वा त्रस्तान्प्राञ्जलींस्तान्पदातीन्

रथानीकं शरवर्षान्धकारं; चक्रुः क्रुद्धाः सर्वतः संनिगृह्य