Mahabharata

Vana Parva, Adhyaya 253

Containing 26 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Vana Parva, Adhyaya 253, Verse 1

ततो दिशः संप्रविहृत्य पार्था; मृगान्वराहान्महिषांश्च हत्वा

धनुर्धराः श्रेष्ठतमाः पृथिव्यां; पृथक्चरन्तः सहिता बभूवुः

Mahabharata

Vana Parva, Adhyaya 253, Verse 2

ततो मृगव्यालगणानुकीर्णं; महावनं तद्विहगोपघुष्टम्

भ्रातॄंश्च तानभ्यवदद्युधिष्ठिरः; श्रुत्वा गिरो व्याहरतां मृगाणाम्

Mahabharata

Vana Parva, Adhyaya 253, Verse 3

आदित्यदीप्तां दिशमभ्युपेत्य; मृगद्विजाः क्रूरमिमे वदन्ति

आयासमुग्रं प्रतिवेदयन्तो; महाहवं शत्रुभिर्वावमानम्

Mahabharata

Vana Parva, Adhyaya 253, Verse 4

क्षिप्रं निवर्तध्वमलं मृगैर्नो; मनो हि मे दूयति दह्यते च

बुद्धिं समाच्छाद्य च मे समन्यु;रुद्धूयते प्राणपतिः शरीरे

Mahabharata

Vana Parva, Adhyaya 253, Verse 5

सरः सुपर्णेन हृतोरगं यथा; राष्ट्रं यथाराजकमात्तलक्ष्मि

एवंविधं मे प्रतिभाति काम्यकं; शौण्डैर्यथा पीतरसश्च कुम्भः

Mahabharata

Vana Parva, Adhyaya 253, Verse 6

ते सैन्धवैरत्यनिलौघवेगै;र्महाजवैर्वाजिभिरुह्यमानाः

युक्तैर्बृहद्भिः सुरथैर्नृवीरा;स्तदाश्रमायाभिमुखा बभूवुः

Mahabharata

Vana Parva, Adhyaya 253, Verse 7

तेषां तु गोमायुरनल्पघोषो; निवर्ततां वाममुपेत्य पार्श्वम्

प्रव्याहरत्तं प्रविमृश्य राजा; प्रोवाच भीमं च धनंजयं च

Mahabharata

Vana Parva, Adhyaya 253, Verse 8

यथा वदत्येष विहीनयोनिः; शालावृको वाममुपेत्य पार्श्वम्

सुव्यक्तमस्मानवमन्य पापैः; कृतोऽभिमर्दः कुरुभिः प्रसह्य

Mahabharata

Vana Parva, Adhyaya 253, Verse 9

इत्येव ते तद्वनमाविशन्तो; महत्यरण्ये मृगयां चरित्वा

बालामपश्यन्त तदा रुदन्तीं; धात्रेयिकां प्रेष्यवधूं प्रियायाः

Mahabharata

Vana Parva, Adhyaya 253, Verse 10

तामिन्द्रसेनस्त्वरितोऽभिसृत्य; रथादवप्लुत्य ततोऽभ्यधावत्

प्रोवाच चैनां वचनं नरेन्द्र; धात्रेयिकामार्ततरस्तदानीम्

Mahabharata

Vana Parva, Adhyaya 253, Verse 11

किं रोदिषि त्वं पतिता धरण्यां; किं ते मुखं शुष्यति दीनवर्णम्

कच्चिन्न पापैः सुनृशंसकृद्भिः; प्रमाथिता द्रौपदी राजपुत्री

अनिन्द्यरूपा सुविशालनेत्रा; शरीरतुल्या कुरुपुंगवानाम्

Mahabharata

Vana Parva, Adhyaya 253, Verse 12

यद्येव देवी पृथिवीं प्रविष्टा; दिवं प्रपन्नाप्यथ वा समुद्रम्

तस्या गमिष्यन्ति पदं हि पार्था;स्तथा हि संतप्यति धर्मराजः

Mahabharata

Vana Parva, Adhyaya 253, Verse 13

को हीदृशानामरिमर्दनानां; क्लेशक्षमाणामपराजितानाम्

प्राणैः समामिष्टतमां जिहीर्षे;दनुत्तमं रत्नमिव प्रमूढः

न बुध्यते नाथवतीमिहाद्य; बहिश्चरं हृदयं पाण्डवानाम्

Mahabharata

Vana Parva, Adhyaya 253, Verse 14

कस्याद्य कायं प्रतिभिद्य घोरा; महीं प्रवेक्ष्यन्ति शिताः शराग्र्याः

मा त्वं शुचस्तां प्रति भीरु विद्धि; यथाद्य कृष्णा पुनरेष्यतीति

निहत्य सर्वान्द्विषतः समग्रा;न्पार्थाः समेष्यन्त्यथ याज्ञसेन्या

Mahabharata

Vana Parva, Adhyaya 253, Verse 15

अथाब्रवीच्चारुमुखं प्रमृज्य; धात्रेयिका सारथिमिन्द्रसेनम्

जयद्रथेनापहृता प्रमथ्य; पञ्चेन्द्रकल्पान्परिभूय कृष्णा

Mahabharata

Vana Parva, Adhyaya 253, Verse 16

तिष्ठन्ति वर्त्मानि नवान्यमूनि; वृक्षाश्च न म्लान्ति तथैव भग्नाः

आवर्तयध्वं ह्यनुयात शीघ्रं; न दूरयातैव हि राजपुत्री

Mahabharata

Vana Parva, Adhyaya 253, Verse 17

संनह्यध्वं सर्व एवेन्द्रकल्पा; महान्ति चारूणि च दंशनानि

गृह्णीत चापानि महाधनानि; शरांश्च शीघ्रं पदवीं व्रजध्वम्

Mahabharata

Vana Parva, Adhyaya 253, Verse 18

पुरा हि निर्भर्त्सनदण्डमोहिता; प्रमूढचित्ता वदनेन शुष्यता

ददाति कस्मैचिदनर्हते तनुं; वराज्यपूर्णामिव भस्मनि स्रुचम्

Mahabharata

Vana Parva, Adhyaya 253, Verse 19

पुरा तुषाग्नाविव हूयते हविः; पुरा श्मशाने स्रगिवापविध्यते

पुरा च सोमोऽध्वरगोऽवलिह्यते; शुना यथा विप्रजने प्रमोहिते

महत्यरण्ये मृगयां चरित्वा; पुरा शृगालो नलिनीं विगाहते

Mahabharata

Vana Parva, Adhyaya 253, Verse 20

मा वः प्रियायाः सुनसं सुलोचनं; चन्द्रप्रभाच्छं वदनं प्रसन्नम्

स्पृश्याच्छुभं कश्चिदकृत्यकारी; श्वा वै पुरोडाशमिवोपयुङ्क्षीत्

एतानि वर्त्मान्यनुयात शीघ्रं; मा वः कालः क्षिप्रमिहात्यगाद्वै

Mahabharata

Vana Parva, Adhyaya 253, Verse 21

भद्रे तूष्णीमास्स्व नियच्छ वाचं; मास्मत्सकाशे परुषाण्यवोचः

राजानो वा यदि वा राजपुत्रा; बलेन मत्ता वञ्चनां प्राप्नुवन्ति

Mahabharata

Vana Parva, Adhyaya 253, Verse 22

एतावदुक्त्वा प्रययुर्हि शीघ्रं; तान्येव वर्त्मान्यनुवर्तमानाः

मुहुर्मुहुर्व्यालवदुच्छ्वसन्तो; ज्यां विक्षिपन्तश्च महाधनुर्भ्यः

Mahabharata

Vana Parva, Adhyaya 253, Verse 23

ततोऽपश्यंस्तस्य सैन्यस्य रेणु;मुद्धूतं वै वाजिखुरप्रणुन्नम्

पदातीनां मध्यगतं च धौम्यं; विक्रोशन्तं भीममभिद्रवेति

Mahabharata

Vana Parva, Adhyaya 253, Verse 24

ते सान्त्व्य धौम्यं परिदीनसत्त्वाः; सुखं भवानेत्विति राजपुत्राः

श्येना यथैवामिषसंप्रयुक्ता; जवेन तत्सैन्यमथाभ्यधावन्

Mahabharata

Vana Parva, Adhyaya 253, Verse 25

तेषां महेन्द्रोपमविक्रमाणां; संरब्धानां धर्षणाद्याज्ञसेन्याः

क्रोधः प्रजज्वाल जयद्रथं च; दृष्ट्वा प्रियां तस्य रथे स्थितां च

Mahabharata

Vana Parva, Adhyaya 253, Verse 26

प्रचुक्रुशुश्चाप्यथ सिन्धुराजं; वृकोदरश्चैव धनंजयश्च

यमौ च राजा च महाधनुर्धरा;स्ततो दिशः संमुमुहुः परेषाम्