Vana Parva, Adhyaya 252, Verse 1
सरोषरागोपहतेन वल्गुना; सरागनेत्रेण नतोन्नतभ्रुवा
मुखेन विस्फूर्य सुवीरराष्ट्रपं; ततोऽब्रवीत्तं द्रुपदात्मजा पुनः
Containing 27 sacred Sanskrit shlokas with multi-author commentaries and translations.
सरोषरागोपहतेन वल्गुना; सरागनेत्रेण नतोन्नतभ्रुवा
मुखेन विस्फूर्य सुवीरराष्ट्रपं; ततोऽब्रवीत्तं द्रुपदात्मजा पुनः
यशस्विनस्तीक्ष्णविषान्महारथा;नधिक्षिपन्मूढ न लज्जसे कथम्
महेन्द्रकल्पान्निरतान्स्वकर्मसु; स्थितान्समूहेष्वपि यक्षरक्षसाम्
न किंचिदीड्यं प्रवदन्ति पापं; वनेचरं वा गृहमेधिनं वा
तपस्विनं संपरिपूर्णविद्यं; भषन्ति हैवं श्वनराः सुवीर
अहं तु मन्ये तव नास्ति कश्चि;देतादृशे क्षत्रियसंनिवेशे
यस्त्वाद्य पातालमुखे पतन्तं; पाणौ गृहीत्वा प्रतिसंहरेत
नागं प्रभिन्नं गिरिकूटकल्प;मुपत्यकां हैमवतीं चरन्तम्
दण्डीव यूथादपसेधसे त्वं; यो जेतुमाशंससि धर्मराजम्
बाल्यात्प्रसुप्तस्य महाबलस्य; सिंहस्य पक्ष्माणि मुखाल्लुनासि
पदा समाहत्य पलायमानः; क्रुद्धं यदा द्रक्ष्यसि भीमसेनम्
महाबलं घोरतरं प्रवृद्धं; जातं हरिं पर्वतकन्दरेषु
प्रसुप्तमुग्रं प्रपदेन हंसि; यः क्रुद्धमासेत्स्यसि जिष्णुमुग्रम्
कृष्णोरगौ तीक्ष्णविषौ द्विजिह्वौ; मत्तः पदाक्रामसि पुच्छदेशे
यः पाण्डवाभ्यां पुरुषोत्तमाभ्यां; जघन्यजाभ्यां प्रयुयुत्ससे त्वम्
यथा च वेणुः कदली नलो वा; फलन्त्यभावाय न भूतयेऽऽत्मनः
तथैव मां तैः परिरक्ष्यमाणा;मादास्यसे कर्कटकीव गर्भम्
जानामि कृष्णे विदितं ममैत;द्यथाविधास्ते नरदेवपुत्राः
न त्वेवमेतेन विभीषणेन; शक्या वयं त्रासयितुं त्वयाद्य
वयं पुनः सप्तदशेषु कृष्णे; कुलेषु सर्वेऽनवमेषु जाताः
षड्भ्यो गुणेभ्योऽभ्यधिका विहीना;न्मन्यामहे द्रौपदि पाण्डुपुत्रान्
सा क्षिप्रमातिष्ठ गजं रथं वा; न वाक्यमात्रेण वयं हि शक्याः
आशंस वा त्वं कृपणं वदन्ती; सौवीरराजस्य पुनः प्रसादम्
महाबला किं त्विह दुर्बलेव; सौवीरराजस्य मताहमस्मि
याहं प्रमाथादिह संप्रतीता; सौवीरराजं कृपणं वदेयम्
यस्या हि कृष्णौ पदवीं चरेतां; समास्थितावेकरथे सहायौ
इन्द्रोऽपि तां नापहरेत्कथंचि;न्मनुष्यमात्रः कृपणः कुतोऽन्यः
यदा किरीटी परवीरघाती; निघ्नन्रथस्थो द्विषतां मनांसि
मदन्तरे त्वद्ध्वजिनीं प्रवेष्टा; कक्षं दहन्नग्निरिवोष्णगेषु
जनार्दनस्यानुगा वृष्णिवीरा; महेष्वासाः केकयाश्चापि सर्वे
एते हि सर्वे मम राजपुत्राः; प्रहृष्टरूपाः पदवीं चरेयुः
मौर्वीविसृष्टाः स्तनयित्नुघोषा; गाण्डीवमुक्तास्त्वतिवेगवन्तः
हस्तं समाहत्य धनंजयस्य; भीमाः शब्दं घोरतरं नदन्ति
गाण्डीवमुक्तांश्च महाशरौघा;न्पतंगसंघानिव शीघ्रवेगान्
सशङ्खघोषः सतलत्रघोषो; गाण्डीवधन्वा मुहुरुद्वमंश्च
यदा शरानर्पयिता तवोरसि; तदा मनस्ते किमिवाभविष्यत्
गदाहस्तं भीममभिद्रवन्तं; माद्रीपुत्रौ संपतन्तौ दिशश्च
अमर्षजं क्रोधविषं वमन्तौ; दृष्ट्वा चिरं तापमुपैष्यसेऽधम
यथा चाहं नातिचरे कथंचि;त्पतीन्महार्हान्मनसापि जातु
तेनाद्य सत्येन वशीकृतं त्वां; द्रष्टास्मि पार्थैः परिकृष्यमाणम्
न संभ्रमं गन्तुमहं हि शक्ष्ये; त्वया नृशंसेन विकृष्यमाणा
समागताहं हि कुरुप्रवीरैः; पुनर्वनं काम्यकमागता च
सा ताननुप्रेक्ष्य विशालनेत्रा; जिघृक्षमाणानवभर्त्सयन्ती
प्रोवाच मा मा स्पृशतेति भीता; धौम्यं प्रचुक्रोश पुरोहितं सा
जग्राह तामुत्तरवस्त्रदेशे; जयद्रथस्तं समवाक्षिपत्सा
तया समाक्षिप्ततनुः स पापः; पपात शाखीव निकृत्तमूलः
प्रगृह्यमाणा तु महाजवेन; मुहुर्विनिःश्वस्य च राजपुत्री
सा कृष्यमाणा रथमारुरोह; धौम्यस्य पादावभिवाद्य कृष्णा
नेयं शक्या त्वया नेतुमविजित्य महारथान्
धर्मं क्षत्रस्य पौराणमवेक्षस्व जयद्रथ
क्षुद्रं कृत्वा फलं पापं प्राप्स्यसि त्वमसंशयम्
आसाद्य पाण्डवान्वीरान्धर्मराजपुरोगमान्
इत्युक्त्वा ह्रियमाणां तां राजपुत्रीं यशस्विनीम्
अन्वगच्छत्तदा धौम्यः पदातिगणमध्यगः