Vana Parva, Adhyaya 251, Verse 1
अथासीनेषु सर्वेषु तेषु राजसु भारत
कोटिकाश्यवचः श्रुत्वा शैब्यं सौवीरकोऽब्रवीत्
Containing 21 sacred Sanskrit shlokas with multi-author commentaries and translations.
अथासीनेषु सर्वेषु तेषु राजसु भारत
कोटिकाश्यवचः श्रुत्वा शैब्यं सौवीरकोऽब्रवीत्
यदा वाचं व्याहरन्त्यामस्यां मे रमते मनः
सीमन्तिनीनां मुख्यायां विनिवृत्तः कथं भवान्
एतां दृष्ट्वा स्त्रियो मेऽन्या यथा शाखामृगस्त्रियः
प्रतिभान्ति महाबाहो सत्यमेतद्ब्रवीमि ते
दर्शनादेव हि मनस्तया मेऽपहृतं भृशम्
तां समाचक्ष्व कल्याणीं यदि स्याच्छैब्य मानुषी
एषा वै द्रौपदी कृष्णा राजपुत्री यशस्विनी
पञ्चानां पाण्डुपुत्राणां महिषी संमता भृशम्
सर्वेषां चैव पार्थानां प्रिया बहुमता सती
तया समेत्य सौवीर सुवीरान्सुसुखी व्रज
एवमुक्तः प्रत्युवाच पश्यामो द्रौपदीमिति
पतिः सौवीरसिन्धूनां दुष्टभावो जयद्रथः
स प्रविश्याश्रमं शून्यं सिंहगोष्ठं वृको यथा
आत्मना सप्तमः कृष्णामिदं वचनमब्रवीत्
कुशलं ते वरारोहे भर्तारस्तेऽप्यनामयाः
येषां कुशलकामासि तेऽपि कच्चिदनामयाः
कौरव्यः कुशली राजा कुन्तीपुत्रो युधिष्ठिरः
अहं च भ्रातरश्चास्य यांश्चान्यान्परिपृच्छसि
पाद्यं प्रतिगृहाणेदमासनं च नृपात्मज
मृगान्पञ्चाशतं चैव प्रातराशं ददानि ते
ऐणेयान्पृषतान्न्यङ्कून्हरिणाञ्शरभाञ्शशान्
ऋश्यान्रुरूञ्शम्बरांश्च गवयांश्च मृगान्बहून्
वराहान्महिषांश्चैव याश्चान्या मृगजातयः
प्रदास्यति स्वयं तुभ्यं कुन्तीपुत्रो युधिष्ठिरः
कुशलं प्रातराशस्य सर्वा मेऽपचितिः कृता
एहि मे रथमारोह सुखमाप्नुहि केवलम्
गतश्रीकांश्च्युतान्राज्यात्कृपणान्गतचेतसः
अरण्यवासिनः पार्थान्नानुरोद्धुं त्वमर्हसि
न वै प्राज्ञा गतश्रीकं भर्तारमुपयुञ्जते
युञ्जानमनुयुञ्जीत न श्रियः संक्षये वसेत्
श्रिया विहीना राज्याच्च विनष्टाः शाश्वतीः समाः
अलं ते पाण्डुपुत्राणां भक्त्या क्लेशमुपासितुम्
भार्या मे भव सुश्रोणि त्यजैनान्सुखमाप्नुहि
अखिलान्सिन्धुसौवीरानवाप्नुहि मया सह
इत्युक्ता सिन्धुराजेन वाक्यं हृदयकम्पनम्
कृष्णा तस्मादपाक्रामद्देशात्सभ्रुकुटीमुखी
अवमत्यास्य तद्वाक्यमाक्षिप्य च सुमध्यमा
मैवमित्यब्रवीत्कृष्णा लज्जस्वेति च सैन्धवम्
सा काङ्क्षमाणा भर्तॄणामुपयानमनिन्दिता
विलोभयामास परं वाक्यैर्वाक्यानि युञ्जती