Mahabharata

Vana Parva, Adhyaya 250

Containing 9 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Vana Parva, Adhyaya 250, Verse 1

अथाब्रवीद्द्रौपदी राजपुत्री; पृष्टा शिबीनां प्रवरेण तेन

अवेक्ष्य मन्दं प्रविमुच्य शाखां; संगृह्णती कौशिकमुत्तरीयम्

Mahabharata

Vana Parva, Adhyaya 250, Verse 2

बुद्ध्याभिजानामि नरेन्द्रपुत्र; न मादृशी त्वामभिभाष्टुमर्हा

न त्वेह वक्तास्ति तवेह वाक्य;मन्यो नरो वाप्यथ वापि नारी

Mahabharata

Vana Parva, Adhyaya 250, Verse 3

एका ह्यहं संप्रति तेन वाचं; ददानि वै भद्र निबोध चेदम्

अहं ह्यरण्ये कथमेकमेका; त्वामालपेयं निरता स्वधर्मे

Mahabharata

Vana Parva, Adhyaya 250, Verse 4

जानामि च त्वां सुरथस्य पुत्रं; यं कोटिकाश्येति विदुर्मनुष्याः

तस्मादहं शैब्य तथैव तुभ्य;माख्यामि बन्धून्प्रति तन्निबोध

Mahabharata

Vana Parva, Adhyaya 250, Verse 5

अपत्यमस्मि द्रुपदस्य राज्ञः; कृष्णेति मां शैब्य विदुर्मनुष्याः

साहं वृणे पञ्च जनान्पतित्वे; ये खाण्डवप्रस्थगताः श्रुतास्ते

Mahabharata

Vana Parva, Adhyaya 250, Verse 6

युधिष्ठिरो भीमसेनार्जुनौ च; माद्र्याश्च पुत्रौ पुरुषप्रवीरौ

ते मां निवेश्येह दिशश्चतस्रो; विभज्य पार्था मृगयां प्रयाताः

Mahabharata

Vana Parva, Adhyaya 250, Verse 7

प्राचीं राजा दक्षिणां भीमसेनो; जयः प्रतीचीं यमजावुदीचीम्

मन्ये तु तेषां रथसत्तमानां; कालोऽभितः प्राप्त इहोपयातुम्

Mahabharata

Vana Parva, Adhyaya 250, Verse 8

संमानिता यास्यथ तैर्यथेष्टं; विमुच्य वाहानवगाहयध्वम्

प्रियातिथिर्धर्मसुतो महात्मा; प्रीतो भविष्यत्यभिवीक्ष्य युष्मान्

Mahabharata

Vana Parva, Adhyaya 250, Verse 9

एतावदुक्त्वा द्रुपदात्मजा सा; शैब्यात्मजं चन्द्रमुखी प्रतीता

विवेश तां पर्णकुटीं प्रशस्तां; संचिन्त्य तेषामतिथिस्वधर्मम्