Mahabharata

Vana Parva, Adhyaya 249

Containing 13 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Vana Parva, Adhyaya 249, Verse 1

का त्वं कदम्बस्य विनम्य शाखा;मेकाश्रमे तिष्ठसि शोभमाना

देदीप्यमानाग्निशिखेव नक्तं; दोधूयमाना पवनेन सुभ्रूः

Mahabharata

Vana Parva, Adhyaya 249, Verse 2

अतीव रूपेण समन्विता त्वं; न चाप्यरण्येषु बिभेषि किं नु

देवी नु यक्षी यदि दानवी वा; वराप्सरा दैत्यवराङ्गना वा

Mahabharata

Vana Parva, Adhyaya 249, Verse 3

वपुष्मती वोरगराजकन्या; वनेचरी वा क्षणदाचरस्त्री

यद्येव राज्ञो वरुणस्य पत्नी; यमस्य सोमस्य धनेश्वरस्य

Mahabharata

Vana Parva, Adhyaya 249, Verse 4

धातुर्विधातुः सवितुर्विभोर्वा; शक्रस्य वा त्वं सदनात्प्रपन्ना

न ह्येव नः पृच्छसि ये वयं स्म; न चापि जानीम तवेह नाथम्

Mahabharata

Vana Parva, Adhyaya 249, Verse 5

वयं हि मानं तव वर्धयन्तः; पृच्छाम भद्रे प्रभवं प्रभुं च

आचक्ष्व बन्धूंश्च पतिं कुलं च; तत्त्वेन यच्चेह करोषि कार्यम्

Mahabharata

Vana Parva, Adhyaya 249, Verse 6

अहं तु राज्ञः सुरथस्य पुत्रो; यं कोटिकाश्येति विदुर्मनुष्याः

असौ तु यस्तिष्ठति काञ्चनाङ्गे; रथे हुतोऽग्निश्चयने यथैव

त्रिगर्तराजः कमलायताक्षि; क्षेमंकरो नाम स एष वीरः

Mahabharata

Vana Parva, Adhyaya 249, Verse 7

अस्मात्परस्त्वेष महाधनुष्मा;न्पुत्रः कुणिन्दाधिपतेर्वरिष्ठः

निरीक्षते त्वां विपुलायतांसः; सुविस्मितः पर्वतवासनित्यः

Mahabharata

Vana Parva, Adhyaya 249, Verse 8

असौ तु यः पुष्करिणीसमीपे; श्यामो युवा तिष्ठति दर्शनीयः

इक्ष्वाकुराज्ञः सुबलस्य पुत्रः; स एष हन्ता द्विषतां सुगात्रि

Mahabharata

Vana Parva, Adhyaya 249, Verse 9

यस्यानुयात्रं ध्वजिनः प्रयान्ति; सौवीरका द्वादश राजपुत्राः

शोणाश्वयुक्तेषु रथेषु सर्वे; मखेषु दीप्ता इव हव्यवाहाः

Mahabharata

Vana Parva, Adhyaya 249, Verse 10

अङ्गारकः कुञ्जरगुप्तकश्च; शत्रुंजयः संजयसुप्रवृद्धौ

प्रभंकरोऽथ भ्रमरो रविश्च; शूरः प्रतापः कुहरश्च नाम

Mahabharata

Vana Parva, Adhyaya 249, Verse 11

यं षट्सहस्रा रथिनोऽनुयान्ति; नागा हयाश्चैव पदातिनश्च

जयद्रथो नाम यदि श्रुतस्ते; सौवीरराजः सुभगे स एषः

Mahabharata

Vana Parva, Adhyaya 249, Verse 12

तस्यापरे भ्रातरोऽदीनसत्त्वा; बलाहकानीकविदारणाध्याः

सौवीरवीराः प्रवरा युवानो; राजानमेते बलिनोऽनुयान्ति

Mahabharata

Vana Parva, Adhyaya 249, Verse 13

एतैः सहायैरुपयाति राजा; मरुद्गणैरिन्द्र इवाभिगुप्तः

अजानतां ख्यापय नः सुकेशि; कस्यासि भार्या दुहिता च कस्य