Mahabharata

Vana Parva, Adhyaya 248

Containing 17 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Vana Parva, Adhyaya 248, Verse 1

तस्मिन्बहुमृगेऽरण्ये रममाणा महारथाः

काम्यके भरतश्रेष्ठा विजह्रुस्ते यथामराः

Mahabharata

Vana Parva, Adhyaya 248, Verse 2

प्रेक्षमाणा बहुविधान्वनोद्देशान्समन्ततः

यथर्तुकालरम्याश्च वनराजीः सुपुष्पिताः

Mahabharata

Vana Parva, Adhyaya 248, Verse 3

पाण्डवा मृगयाशीलाश्चरन्तस्तन्महावनम्

विजह्रुरिन्द्रप्रतिमाः कंचित्कालमरिंदमाः

Mahabharata

Vana Parva, Adhyaya 248, Verse 4

ततस्ते यौगपद्येन ययुः सर्वे चतुर्दिशम्

मृगयां पुरुषव्याघ्रा ब्राह्मणार्थे परंतपाः

Mahabharata

Vana Parva, Adhyaya 248, Verse 5

द्रौपदीमाश्रमे न्यस्य तृणबिन्दोरनुज्ञया

महर्षेर्दीप्ततपसो धौम्यस्य च पुरोधसः

Mahabharata

Vana Parva, Adhyaya 248, Verse 6

ततस्तु राजा सिन्धूनां वार्द्धक्षत्रिर्महायशाः

विवाहकामः शाल्वेयान्प्रयातः सोऽभवत्तदा

Mahabharata

Vana Parva, Adhyaya 248, Verse 7

महता परिबर्हेण राजयोग्येन संवृतः

राजभिर्बहुभिः सार्धमुपायात्काम्यकं च सः

Mahabharata

Vana Parva, Adhyaya 248, Verse 8

तत्रापश्यत्प्रियां भार्यां पाण्डवानां यशस्विनीम्

तिष्ठन्तीमाश्रमद्वारि द्रौपदीं निर्जने वने

Mahabharata

Vana Parva, Adhyaya 248, Verse 9

विभ्राजमानां वपुषा बिभ्रतीं रूपमुत्तमम्

भ्राजयन्तीं वनोद्देशं नीलाभ्रमिव विद्युतम्

Mahabharata

Vana Parva, Adhyaya 248, Verse 10

अप्सरा देवकन्या वा माया वा देवनिर्मिता

इति कृत्वाञ्जलिं सर्वे ददृशुस्तामनिन्दिताम्

Mahabharata

Vana Parva, Adhyaya 248, Verse 11

ततः स राजा सिन्धूनां वार्द्धक्षत्रिर्जयद्रथः

विस्मितस्तामनिन्द्याङ्गीं दृष्ट्वासीद्धृष्टमानसः

Mahabharata

Vana Parva, Adhyaya 248, Verse 12

स कोटिकाश्यं राजानमब्रवीत्काममोहितः

कस्य त्वेषानवद्याङ्गी यदि वापि न मानुषी

Mahabharata

Vana Parva, Adhyaya 248, Verse 13

विवाहार्थो न मे कश्चिदिमां दृष्ट्वातिसुन्दरीम्

एतामेवाहमादाय गमिष्यामि स्वमालयम्

Mahabharata

Vana Parva, Adhyaya 248, Verse 14

गच्छ जानीहि सौम्यैनां कस्य का च कुतोऽपि वा

किमर्थमागता सुभ्रूरिदं कण्टकितं वनम्

Mahabharata

Vana Parva, Adhyaya 248, Verse 15

अपि नाम वरारोहा मामेषा लोकसुन्दरी

भजेदद्यायतापाङ्गी सुदती तनुमध्यमा

Mahabharata

Vana Parva, Adhyaya 248, Verse 16

अप्यहं कृतकामः स्यामिमां प्राप्य वरस्त्रियम्

गच्छ जानीहि को न्वस्या नाथ इत्येव कोटिक

Mahabharata

Vana Parva, Adhyaya 248, Verse 17

स कोटिकाश्यस्तच्छ्रुत्वा रथात्प्रस्कन्द्य कुण्डली

उपेत्य पप्रच्छ तदा क्रोष्टा व्याघ्रवधूमिव