Vana Parva, Adhyaya 247, Verse 1
महर्षेऽकार्यबुद्धिस्त्वं यः स्वर्गसुखमुत्तमम्
संप्राप्तं बहु मन्तव्यं विमृशस्यबुधो यथा
Containing 47 sacred Sanskrit shlokas with multi-author commentaries and translations.
महर्षेऽकार्यबुद्धिस्त्वं यः स्वर्गसुखमुत्तमम्
संप्राप्तं बहु मन्तव्यं विमृशस्यबुधो यथा
उपरिष्टादसौ लोको योऽयं स्वरिति संज्ञितः
ऊर्ध्वगः सत्पथः शश्वद्देवयानचरो मुने
नातप्ततपसः पुंसो नामहायज्ञयाजिनः
नानृता नास्तिकाश्चैव तत्र गच्छन्ति मुद्गल
धर्मात्मानो जितात्मानः शान्ता दान्ता विमत्सराः
दानधर्मरताः पुंसः शूराश्चाहतलक्षणाः
तत्र गच्छन्ति कर्माग्र्यं कृत्वा शमदमात्मकम्
लोकान्पुण्यकृतां ब्रह्मन्सद्भिरासेवितान्नृभिः
देवाः साध्यास्तथा विश्वे मरुतश्च महर्षिभिः
यामा धामाश्च मौद्गल्य गन्धर्वाप्सरसस्तथा
एषां देवनिकायानां पृथक्पृथगनेकशः
भास्वन्तः कामसंपन्ना लोकास्तेजोमयाः शुभाः
त्रयस्त्रिंशत्सहस्राणि योजनानां हिरण्मयः
मेरुः पर्वतराड्यत्र देवोद्यानानि मुद्गल
नन्दनादीनि पुण्यानि विहाराः पुण्यकर्मणाम्
न क्षुत्पिपासे न ग्लानिर्न शीतोष्णभयं तथा
बीभत्समशुभं वापि रोगा वा तत्र केचन
मनोज्ञाः सर्वतो गन्धाः सुखस्पर्शाश्च सर्वशः
शब्दाः श्रुतिमनोग्राह्याः सर्वतस्तत्र वै मुने
न शोको न जरा तत्र नायासपरिदेवने
ईदृशः स मुने लोकः स्वकर्मफलहेतुकः
सुकृतैस्तत्र पुरुषाः संभवन्त्यात्मकर्मभिः
तैजसानि शरीराणि भवन्त्यत्रोपपद्यताम्
कर्मजान्येव मौद्गल्य न मातृपितृजान्युत
न च स्वेदो न दौर्गन्ध्यं पुरीषं मूत्रमेव च
तेषां न च रजो वस्त्रं बाधते तत्र वै मुने
न म्लायन्ति स्रजस्तेषां दिव्यगन्धा मनोरमाः
पर्युह्यन्ते विमानैश्च ब्रह्मन्नेवंविधाश्च ते
ईर्ष्याशोकक्लमापेता मोहमात्सर्यवर्जिताः
सुखं स्वर्गजितस्तत्र वर्तयन्ति महामुने
तेषां तथाविधानां तु लोकानां मुनिपुंगव
उपर्युपरि शक्रस्य लोका दिव्यगुणान्विताः
पुरस्ताद्ब्रह्मणस्तत्र लोकास्तेजोमयाः शुभाः
यत्र यान्त्यृषयो ब्रह्मन्पूताः स्वैः कर्मभिः शुभैः
ऋभवो नाम तत्रान्ये देवानामपि देवताः
तेषां लोकाः परतरे तान्यजन्तीह देवताः
स्वयंप्रभास्ते भास्वन्तो लोकाः कामदुघाः परे
न तेषां स्त्रीकृतस्तापो न लोकैश्वर्यमत्सरः
न वर्तयन्त्याहुतिभिस्ते नाप्यमृतभोजनाः
तथा दिव्यशरीरास्ते न च विग्रहमूर्तयः
न सुखे सुखकामाश्च देवदेवाः सनातनाः
न कल्पपरिवर्तेषु परिवर्तन्ति ते तथा
जरा मृत्युः कुतस्तेषां हर्षः प्रीतिः सुखं न च
न दुःखं न सुखं चापि रागद्वेषौ कुतो मुने
देवानामपि मौद्गल्य काङ्क्षिता सा गतिः परा
दुष्प्रापा परमा सिद्धिरगम्या कामगोचरैः
त्रयस्त्रिंशदिमे लोकाः शेषा लोका मनीषिभिः
गम्यन्ते नियमैः श्रेष्ठैर्दानैर्वा विधिपूर्वकैः
सेयं दानकृता व्युष्टिरत्र प्राप्ता सुखावहा
तां भुङ्क्ष्व सुकृतैर्लब्धां तपसा द्योतितप्रभः
एतत्स्वर्गसुखं विप्र लोका नानाविधास्तथा
गुणाः स्वर्गस्य प्रोक्तास्ते दोषानपि निबोध मे
कृतस्य कर्मणस्तत्र भुज्यते यत्फलं दिवि
न चान्यत्क्रियते कर्म मूलच्छेदेन भुज्यते
सोऽत्र दोषो मम मतस्तस्यान्ते पतनं च यत्
सुखव्याप्तमनस्कानां पतनं यच्च मुद्गल
असंतोषः परीतापो दृष्ट्वा दीप्ततराः श्रियः
यद्भवत्यवरे स्थाने स्थितानां तच्च दुष्करम्