Mahabharata

Vana Parva, Adhyaya 246

Containing 36 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Vana Parva, Adhyaya 246, Verse 1

व्रीहिद्रोणः परित्यक्तः कथं तेन महात्मना

कस्मै दत्तश्च भगवन्विधिना केन चात्थ मे

Mahabharata

Vana Parva, Adhyaya 246, Verse 2

प्रत्यक्षधर्मा भगवान्यस्य तुष्टो हि कर्मभिः

सफलं तस्य जन्माहं मन्ये सद्धर्मचारिणः

Mahabharata

Vana Parva, Adhyaya 246, Verse 3

शिलोञ्छवृत्तिर्धर्मात्मा मुद्गलः संशितव्रतः

आसीद्राजन्कुरुक्षेत्रे सत्यवागनसूयकः

Mahabharata

Vana Parva, Adhyaya 246, Verse 4

अतिथिव्रती क्रियावांश्च कापोतीं वृत्तिमास्थितः

सत्रमिष्टीकृतं नाम समुपास्ते महातपाः

Mahabharata

Vana Parva, Adhyaya 246, Verse 5

सपुत्रदारो हि मुनिः पक्षाहारो बभूव सः

कपोतवृत्त्या पक्षेण व्रीहिद्रोणमुपार्जयत्

Mahabharata

Vana Parva, Adhyaya 246, Verse 6

दर्शं च पौर्णमासं च कुर्वन्विगतमत्सरः

देवतातिथिशेषेण कुरुते देहयापनम्

Mahabharata

Vana Parva, Adhyaya 246, Verse 7

तस्येन्द्रः सहितो देवैः साक्षात्त्रिभुवनेश्वरः

प्रत्यगृह्णान्महाराज भागं पर्वणि पर्वणि

Mahabharata

Vana Parva, Adhyaya 246, Verse 8

स पर्वकालं कृत्वा तु मुनिवृत्त्या समन्वितः

अतिथिभ्यो ददावन्नं प्रहृष्टेनान्तरात्मना

Mahabharata

Vana Parva, Adhyaya 246, Verse 9

व्रीहिद्रोणस्य तदहो ददतोऽन्नं महात्मनः

शिष्टं मात्सर्यहीनस्य वर्धत्यतिथिदर्शनात्

Mahabharata

Vana Parva, Adhyaya 246, Verse 10

तच्छतान्यपि भुञ्जन्ति ब्राह्मणानां मनीषिणाम्

मुनेस्त्यागविशुद्ध्या तु तदन्नं वृद्धिमृच्छति

Mahabharata

Vana Parva, Adhyaya 246, Verse 11

तं तु शुश्राव धर्मिष्ठं मुद्गलं संशितव्रतम्

दुर्वासा नृप दिग्वासास्तमथाभ्याजगाम ह

Mahabharata

Vana Parva, Adhyaya 246, Verse 12

बिभ्रच्चानियतं वेषमुन्मत्त इव पाण्डव

विकचः परुषा वाचो व्याहरन्विविधा मुनिः

Mahabharata

Vana Parva, Adhyaya 246, Verse 13

अभिगम्याथ तं विप्रमुवाच मुनिसत्तमः

अन्नार्थिनमनुप्राप्तं विद्धि मां मुनिसत्तम

Mahabharata

Vana Parva, Adhyaya 246, Verse 14

स्वागतं तेऽस्त्विति मुनिं मुद्गलः प्रत्यभाषत

पाद्यमाचमनीयं च प्रतिवेद्यान्नमुत्तमम्

Mahabharata

Vana Parva, Adhyaya 246, Verse 15

प्रादात्स तपसोपात्तं क्षुधितायातिथिव्रती

उन्मत्ताय परां श्रद्धामास्थाय स धृतव्रतः

Mahabharata

Vana Parva, Adhyaya 246, Verse 16

ततस्तदन्नं रसवत्स एव क्षुधयान्वितः

बुभुजे कृत्स्नमुन्मत्तः प्रादात्तस्मै च मुद्गलः

Mahabharata

Vana Parva, Adhyaya 246, Verse 17

भुक्त्वा चान्नं ततः सर्वमुच्छिष्टेनात्मनस्ततः

अथानुलिलिपेऽङ्गानि जगाम च यथागतम्

Mahabharata

Vana Parva, Adhyaya 246, Verse 18

एवं द्वितीये संप्राप्ते पर्वकाले मनीषिणः

आगम्य बुभुजे सर्वमन्नमुञ्छोपजीविनः

Mahabharata

Vana Parva, Adhyaya 246, Verse 19

निराहारस्तु स मुनिरुञ्छमार्जयते पुनः

न चैनं विक्रियां नेतुमशकन्मुद्गलं क्षुधा

Mahabharata

Vana Parva, Adhyaya 246, Verse 20

न क्रोधो न च मात्सर्यं नावमानो न संभ्रमः

सपुत्रदारमुञ्छन्तमाविवेश द्विजोत्तमम्

Mahabharata

Vana Parva, Adhyaya 246, Verse 21

तथा तमुञ्छधर्माणं दुर्वासा मुनिसत्तमम्

उपतस्थे यथाकालं षट्कृत्वः कृतनिश्चयः

Mahabharata

Vana Parva, Adhyaya 246, Verse 22

न चास्य मानसं किंचिद्विकारं ददृशे मुनिः

शुद्धसत्त्वस्य शुद्धं स ददृशे निर्मलं मनः

Mahabharata

Vana Parva, Adhyaya 246, Verse 23

तमुवाच ततः प्रीतः स मुनिर्मुद्गलं तदा

त्वत्समो नास्ति लोकेऽस्मिन्दाता मात्सर्यवर्जितः

Mahabharata

Vana Parva, Adhyaya 246, Verse 24

क्षुद्धर्मसंज्ञां प्रणुदत्यादत्ते धैर्यमेव च

विषयानुसारिणी जिह्वा कर्षत्येव रसान्प्रति

Mahabharata

Vana Parva, Adhyaya 246, Verse 25

आहारप्रभवाः प्राणा मनो दुर्निग्रहं चलम्

मनसश्चेन्द्रियाणां चाप्यैकाग्र्यं निश्चितं तपः

Mahabharata

Vana Parva, Adhyaya 246, Verse 26

श्रमेणोपार्जितं त्यक्तुं दुःखं शुद्धेन चेतसा

तत्सर्वं भवता साधो यथावदुपपादितम्

Mahabharata

Vana Parva, Adhyaya 246, Verse 27

प्रीताः स्मोऽनुगृहीताश्च समेत्य भवता सह

इन्द्रियाभिजयो धैर्यं संविभागो दमः शमः

Mahabharata

Vana Parva, Adhyaya 246, Verse 28

दया सत्यं च धर्मश्च त्वयि सर्वं प्रतिष्ठितम्

जितास्ते कर्मभिर्लोकाः प्राप्तोऽसि परमां गतिम्

Mahabharata

Vana Parva, Adhyaya 246, Verse 29

अहो दानं विघुष्टं ते सुमहत्स्वर्गवासिभिः

सशरीरो भवान्गन्ता स्वर्गं सुचरितव्रत

Mahabharata

Vana Parva, Adhyaya 246, Verse 30

इत्येवं वदतस्तस्य तदा दुर्वाससो मुनेः

देवदूतो विमानेन मुद्गलं प्रत्युपस्थितः