Mahabharata

Vana Parva, Adhyaya 244

Containing 16 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Vana Parva, Adhyaya 244, Verse 1

दुर्योधनं मोचयित्वा पाण्डुपुत्रा महाबलाः

किमकार्षुर्वने तस्मिंस्तन्ममाख्यातुमर्हसि

Mahabharata

Vana Parva, Adhyaya 244, Verse 2

ततः शयानं कौन्तेयं रात्रौ द्वैतवने मृगाः

स्वप्नान्ते दर्शयामासुर्बाष्पकण्ठा युधिष्ठिरम्

Mahabharata

Vana Parva, Adhyaya 244, Verse 3

तानब्रवीत्स राजेन्द्रो वेपमानान्कृताञ्जलीन्

ब्रूत यद्वक्तुकामाः स्थ के भवन्तः किमिष्यते

Mahabharata

Vana Parva, Adhyaya 244, Verse 4

एवमुक्ताः पाण्डवेन कौन्तेयेन यशस्विना

प्रत्यब्रुवन्मृगास्तत्र हतशेषा युधिष्ठिरम्

Mahabharata

Vana Parva, Adhyaya 244, Verse 5

वयं मृगा द्वैतवने हतशिष्टाः स्म भारत

नोत्सीदेम महाराज क्रियतां वासपर्ययः

Mahabharata

Vana Parva, Adhyaya 244, Verse 6

भवन्तो भ्रातरः शूराः सर्व एवास्त्रकोविदाः

कुलान्यल्पावशिष्टानि कृतवन्तो वनौकसाम्

Mahabharata

Vana Parva, Adhyaya 244, Verse 7

बीजभूता वयं केचिदवशिष्टा महामते

विवर्धेमहि राजेन्द्र प्रसादात्ते युधिष्ठिर

Mahabharata

Vana Parva, Adhyaya 244, Verse 8

तान्वेपमानान्वित्रस्तान्बीजमात्रावशेषितान्

मृगान्दृष्ट्वा सुदुःखार्तो धर्मराजो युधिष्ठिरः

Mahabharata

Vana Parva, Adhyaya 244, Verse 9

तांस्तथेत्यब्रवीद्राजा सर्वभूतहिते रतः

तथ्यं भवन्तो ब्रुवते करिष्यामि च तत्तथा

Mahabharata

Vana Parva, Adhyaya 244, Verse 10

इत्येवं प्रतिबुद्धः स रात्र्यन्ते राजसत्तमः

अब्रवीत्सहितान्भ्रातॄन्दयापन्नो मृगान्प्रति

Mahabharata

Vana Parva, Adhyaya 244, Verse 11

उक्तो रात्रौ मृगैरस्मि स्वप्नान्ते हतशेषितैः

तनुभूताः स्म भद्रं ते दया नः क्रियतामिति

Mahabharata

Vana Parva, Adhyaya 244, Verse 12

ते सत्यमाहुः कर्तव्या दयास्माभिर्वनौकसाम्

साष्टमासं हि नो वर्षं यदेनानुपयुञ्ज्महे

Mahabharata

Vana Parva, Adhyaya 244, Verse 13

पुनर्बहुमृगं रम्यं काम्यकं काननोत्तमम्

मरुभूमेः शिरः ख्यातं तृणबिन्दुसरः प्रति

तत्रेमा वसतीः शिष्टा विहरन्तो रमेमहि

Mahabharata

Vana Parva, Adhyaya 244, Verse 14

ततस्ते पाण्डवाः शीघ्रं प्रययुर्धर्मकोविदाः

ब्राह्मणैः सहिता राजन्ये च तत्र सहोषिताः

इन्द्रसेनादिभिश्चैव प्रेष्यैरनुगतास्तदा

Mahabharata

Vana Parva, Adhyaya 244, Verse 15

ते यात्वानुसृतैर्मार्गैः स्वन्नैः शुचिजलान्वितैः

ददृशुः काम्यकं पुण्यमाश्रमं तापसायुतम्

Mahabharata

Vana Parva, Adhyaya 244, Verse 16

विविशुस्ते स्म कौरव्या वृता विप्रर्षभैस्तदा

तद्वनं भरतश्रेष्ठाः स्वर्गं सुकृतिनो यथा