Mahabharata

Vana Parva, Adhyaya 243

Containing 24 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Vana Parva, Adhyaya 243, Verse 1

प्रविशन्तं महाराज सूतास्तुष्टुवुरच्युतम्

जनाश्चापि महेष्वासं तुष्टुवू राजसत्तमम्

Mahabharata

Vana Parva, Adhyaya 243, Verse 2

लाजैश्चन्दनचूर्णैश्चाप्यवकीर्य जनास्तदा

ऊचुर्दिष्ट्या नृपाविघ्नात्समाप्तोऽयं क्रतुस्तव

Mahabharata

Vana Parva, Adhyaya 243, Verse 3

अपरे त्वब्रुवंस्तत्र वातिकास्तं महीपतिम्

युधिष्ठिरस्य यज्ञेन न समो ह्येष तु क्रतुः

नैव तस्य क्रतोरेष कलामर्हति षोडशीम्

Mahabharata

Vana Parva, Adhyaya 243, Verse 4

एवं तत्राब्रुवन्केचिद्वातिकास्तं नरेश्वरम्

सुहृदस्त्वब्रुवंस्तत्र अति सर्वानयं क्रतुः

Mahabharata

Vana Parva, Adhyaya 243, Verse 5

ययातिर्नहुषश्चापि मान्धाता भरतस्तथा

क्रतुमेनं समाहृत्य पूताः सर्वे दिवं गताः

Mahabharata

Vana Parva, Adhyaya 243, Verse 6

एता वाचः शुभाः शृण्वन्सुहृदां भरतर्षभ

प्रविवेश पुरं हृष्टः स्ववेश्म च नराधिपः

Mahabharata

Vana Parva, Adhyaya 243, Verse 7

अभिवाद्य ततः पादौ मातापित्रोर्विशां पते

भीष्मद्रोणकृपाणां च विदुरस्य च धीमतः

Mahabharata

Vana Parva, Adhyaya 243, Verse 8

अभिवादितः कनीयोभिर्भ्रातृभिर्भ्रातृवत्सलः

निषसादासने मुख्ये भ्रातृभिः परिवारितः

Mahabharata

Vana Parva, Adhyaya 243, Verse 9

तमुत्थाय महाराज सूतपुत्रोऽब्रवीद्वचः

दिष्ट्या ते भरतश्रेष्ठ समाप्तोऽयं महाक्रतुः

Mahabharata

Vana Parva, Adhyaya 243, Verse 10

हतेषु युधि पार्थेषु राजसूये तथा त्वया

आहृतेऽहं नरश्रेष्ठ त्वां सभाजयिता पुनः

Mahabharata

Vana Parva, Adhyaya 243, Verse 11

तमब्रवीन्महाराजो धार्तराष्ट्रो महायशाः

सत्यमेतत्त्वया वीर पाण्डवेषु दुरात्मसु

Mahabharata

Vana Parva, Adhyaya 243, Verse 12

निहतेषु नरश्रेष्ठ प्राप्ते चापि महाक्रतौ

राजसूये पुनर्वीर त्वं मां संवर्धयिष्यसि

Mahabharata

Vana Parva, Adhyaya 243, Verse 13

एवमुक्त्वा महाप्राज्ञः कर्णमाश्लिष्य भारत

राजसूयं क्रतुश्रेष्ठं चिन्तयामास कौरवः

Mahabharata

Vana Parva, Adhyaya 243, Verse 14

सोऽब्रवीत्सुहृदश्चापि पार्श्वस्थान्नृपसत्तमः

कदा तु तं क्रतुवरं राजसूयं महाधनम्

निहत्य पाण्डवान्सर्वानाहरिष्यामि कौरवाः

Mahabharata

Vana Parva, Adhyaya 243, Verse 15

तमब्रवीत्तदा कर्णः शृणु मे राजकुञ्जर

पादौ न धावये तावद्यावन्न निहतोऽर्जुनः

Mahabharata

Vana Parva, Adhyaya 243, Verse 16

अथोत्क्रुष्टं महेष्वासैर्धार्तराष्ट्रैर्महारथैः

प्रतिज्ञाते फल्गुनस्य वधे कर्णेन संयुगे

विजितांश्चाप्यमन्यन्त पाण्डवान्धृतराष्ट्रजाः

Mahabharata

Vana Parva, Adhyaya 243, Verse 17

दुर्योधनोऽपि राजेन्द्र विसृज्य नरपुंगवान्

प्रविवेश गृहं श्रीमान्यथा चैत्ररथं प्रभुः

तेऽपि सर्वे महेष्वासा जग्मुर्वेश्मानि भारत

Mahabharata

Vana Parva, Adhyaya 243, Verse 18

पाण्डवाश्च महेष्वासा दूतवाक्यप्रचोदिताः

चिन्तयन्तस्तमेवार्थं नालभन्त सुखं क्वचित्

Mahabharata

Vana Parva, Adhyaya 243, Verse 19

भूयश्च चारै राजेन्द्र प्रवृत्तिरुपपादिता

प्रतिज्ञा सूतपुत्रस्य विजयस्य वधं प्रति

Mahabharata

Vana Parva, Adhyaya 243, Verse 20

एतच्छ्रुत्वा धर्मसुतः समुद्विग्नो नराधिप

अभेद्यकवचं मत्वा कर्णमद्भुतविक्रमम्

अनुस्मरंश्च संक्लेशान्न शान्तिमुपयाति सः

Mahabharata

Vana Parva, Adhyaya 243, Verse 21

तस्य चिन्तापरीतस्य बुद्धिर्जज्ञे महात्मनः

बहुव्यालमृगाकीर्णं त्यक्तुं द्वैतवनं वनम्

Mahabharata

Vana Parva, Adhyaya 243, Verse 22

धार्तराष्ट्रोऽपि नृपतिः प्रशशास वसुंधराम्

भ्रातृभिः सहितो वीरैर्भीष्मद्रोणकृपैस्तथा

Mahabharata

Vana Parva, Adhyaya 243, Verse 23

संगम्य सूतपुत्रेण कर्णेनाहवशोभिना

दुर्योधनः प्रिये नित्यं वर्तमानो महीपतिः

पूजयामास विप्रेन्द्रान्क्रतुभिर्भूरिदक्षिणैः

Mahabharata

Vana Parva, Adhyaya 243, Verse 24

भ्रातॄणां च प्रियं राजन्स चकार परंतपः

निश्चित्य मनसा वीरो दत्तभुक्तफलं धनम्