Mahabharata

Vana Parva, Adhyaya 242

Containing 24 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Vana Parva, Adhyaya 242, Verse 1

ततस्तु शिल्पिनः सर्वे अमात्यप्रवराश्च ह

विदुरश्च महाप्राज्ञो धार्तराष्ट्रे न्यवेदयत्

Mahabharata

Vana Parva, Adhyaya 242, Verse 2

सज्जं क्रतुवरं राजन्कालप्राप्तं च भारत

सौवर्णं च कृतं दिव्यं लाङ्गलं सुमहाधनम्

Mahabharata

Vana Parva, Adhyaya 242, Verse 3

एतच्छ्रुत्वा नृपश्रेष्ठो धार्तराष्ट्रो विशां पते

आज्ञापयामास नृपः क्रतुराजप्रवर्तनम्

Mahabharata

Vana Parva, Adhyaya 242, Verse 4

ततः प्रववृते यज्ञः प्रभूतान्नः सुसंस्कृतः

दीक्षितश्चापि गान्धारिर्यथाशास्त्रं यथाक्रमम्

Mahabharata

Vana Parva, Adhyaya 242, Verse 5

प्रहृष्टो धृतराष्ट्रोऽभूद्विदुरश्च महायशाः

भीष्मो द्रोणः कृपः कर्णो गान्धारी च यशस्विनी

Mahabharata

Vana Parva, Adhyaya 242, Verse 6

निमन्त्रणार्थं दूतांश्च प्रेषयामास शीघ्रगान्

पार्थिवानां च राजेन्द्र ब्राह्मणानां तथैव च

ते प्रयाता यथोद्दिष्टं दूतास्त्वरितवाहनाः

Mahabharata

Vana Parva, Adhyaya 242, Verse 7

तत्र कंचित्प्रयातं तु दूतं दुःशासनोऽब्रवीत्

गच्छ द्वैतवनं शीघ्रं पाण्डवान्पापपूरुषान्

निमन्त्रय यथान्यायं विप्रांस्तस्मिन्महावने

Mahabharata

Vana Parva, Adhyaya 242, Verse 8

स गत्वा पाण्डवावासमुवाचाभिप्रणम्य तान्

दुर्योधनो महाराज यजते नृपसत्तमः

Mahabharata

Vana Parva, Adhyaya 242, Verse 9

स्ववीर्यार्जितमर्थौघमवाप्य कुरुनन्दनः

तत्र गच्छन्ति राजानो ब्राह्मणाश्च ततस्ततः

Mahabharata

Vana Parva, Adhyaya 242, Verse 10

अहं तु प्रेषितो राजन्कौरवेण महात्मना

आमन्त्रयति वो राजा धार्तराष्ट्रो जनेश्वरः

मनोऽभिलषितं राज्ञस्तं क्रतुं द्रष्टुमर्हथ

Mahabharata

Vana Parva, Adhyaya 242, Verse 11

ततो युधिष्ठिरो राजा तच्छ्रुत्वा दूतभाषितम्

अब्रवीन्नृपशार्दूलो दिष्ट्या राजा सुयोधनः

यजते क्रतुमुख्येन पूर्वेषां कीर्तिवर्धनः

Mahabharata

Vana Parva, Adhyaya 242, Verse 12

वयमप्युपयास्यामो न त्विदानीं कथंचन

समयः परिपाल्यो नो यावद्वर्षं त्रयोदशम्

Mahabharata

Vana Parva, Adhyaya 242, Verse 13

श्रुत्वैतद्धर्मराजस्य भीमो वचनमब्रवीत्

तदा तु नृपतिर्गन्ता धर्मराजो युधिष्ठिरः

Mahabharata

Vana Parva, Adhyaya 242, Verse 14

अस्त्रशस्त्रप्रदीप्तेऽग्नौ यदा तं पातयिष्यति

वर्षात्त्रयोदशादूर्ध्वं रणसत्रे नराधिपः

Mahabharata

Vana Parva, Adhyaya 242, Verse 15

यदा क्रोधहविर्मोक्ता धार्तराष्ट्रेषु पाण्डवः

आगन्तारस्तदा स्मेति वाच्यस्ते स सुयोधनः

Mahabharata

Vana Parva, Adhyaya 242, Verse 16

शेषास्तु पाण्डवा राजन्नैवोचुः किंचिदप्रियम्

दूतश्चापि यथावृत्तं धार्तराष्ट्रे न्यवेदयत्

Mahabharata

Vana Parva, Adhyaya 242, Verse 17

अथाजग्मुर्नरश्रेष्ठा नानाजनपदेश्वराः

ब्राह्मणाश्च महाभागा धार्तराष्ट्रपुरं प्रति

Mahabharata

Vana Parva, Adhyaya 242, Verse 18

ते त्वर्चिता यथाशास्त्रं यथावर्णं यथाक्रमम्

मुदा परमया युक्ताः प्रीत्या चापि नरेश्वर

Mahabharata

Vana Parva, Adhyaya 242, Verse 19

धृतराष्ट्रोऽपि राजेन्द्र संवृतः सर्वकौरवैः

हर्षेण महता युक्तो विदुरं प्रत्यभाषत

Mahabharata

Vana Parva, Adhyaya 242, Verse 20

यथा सुखी जनः सर्वः क्षत्तः स्यादन्नसंयुतः

तुष्येच्च यज्ञसदने तथा क्षिप्रं विधीयताम्

Mahabharata

Vana Parva, Adhyaya 242, Verse 21

विदुरस्त्वेवमाज्ञप्तः सर्ववर्णानरिंदम

यथाप्रमाणतो विद्वान्पूजयामास धर्मवित्

Mahabharata

Vana Parva, Adhyaya 242, Verse 22

भक्ष्यभोज्यान्नपानेन माल्यैश्चापि सुगन्धिभिः

वासोभिर्विविधैश्चैव योजयामास हृष्टवत्

Mahabharata

Vana Parva, Adhyaya 242, Verse 23

कृत्वा ह्यवभृथं वीरो यथाशास्त्रं यथाक्रमम्

सान्त्वयित्वा च राजेन्द्रो दत्त्वा च विविधं वसु

विसर्जयामास नृपान्ब्राह्मणांश्च सहस्रशः

Mahabharata

Vana Parva, Adhyaya 242, Verse 24

विसर्जयित्वा स नृपान्भ्रातृभिः परिवारितः

विवेश हास्तिनपुरं सहितः कर्णसौबलैः