Vana Parva, Adhyaya 241, Verse 1
वसमानेषु पार्थेषु वने तस्मिन्महात्मसु
धार्तराष्ट्रा महेष्वासाः किमकुर्वन्त सत्तम
Containing 37 sacred Sanskrit shlokas with multi-author commentaries and translations.
वसमानेषु पार्थेषु वने तस्मिन्महात्मसु
धार्तराष्ट्रा महेष्वासाः किमकुर्वन्त सत्तम
कर्णो वैकर्तनश्चापि शकुनिश्च महाबलः
भीष्मद्रोणकृपाश्चैव तन्मे शंसितुमर्हसि
एवं गतेषु पार्थेषु विसृष्टे च सुयोधने
आगते हास्तिनपुरं मोक्षिते पाण्डुनन्दनैः
भीष्मोऽब्रवीन्महाराज धार्तराष्ट्रमिदं वचः
उक्तं तात मया पूर्वं गच्छतस्ते तपोवनम्
गमनं मे न रुचितं तव तन्न कृतं च ते
ततः प्राप्तं त्वया वीर ग्रहणं शत्रुभिर्बलात्
मोक्षितश्चासि धर्मज्ञैः पाण्डवैर्न च लज्जसे
प्रत्यक्षं तव गान्धारे ससैन्यस्य विशां पते
सूतपुत्रोऽपयाद्भीतो गन्धर्वाणां तदा रणात्
क्रोशतस्तव राजेन्द्र ससैन्यस्य नृपात्मज
दृष्टस्ते विक्रमश्चैव पाण्डवानां महात्मनाम्
कर्णस्य च महाबाहो सूतपुत्रस्य दुर्मतेः
न चापि पादभाक्कर्णः पाण्डवानां नृपोत्तम
धनुर्वेदे च शौर्ये च धर्मे वा धर्मवत्सल
तस्य तेऽहं क्षमं मन्ये पाण्डवैस्तैर्महात्मभिः
संधिं संधिविदां श्रेष्ठ कुलस्यास्य विवृद्धये
एवमुक्तस्तु भीष्मेण धार्तराष्ट्रो जनेश्वरः
प्रहस्य सहसा राजन्विप्रतस्थे ससौबलः
तं तु प्रस्थितमाज्ञाय कर्णदुःशासनादयः
अनुजग्मुर्महेष्वासा धार्तराष्ट्रं महाबलम्
तांस्तु संप्रस्थितान्दृष्ट्वा भीष्मः कुरुपितामहः
लज्जया व्रीडितो राजञ्जगाम स्वं निवेशनम्
गते भीष्मे महाराज धार्तराष्ट्रो जनाधिपः
पुनरागम्य तं देशममन्त्रयत मन्त्रिभिः
किमस्माकं भवेच्छ्रेयः किं कार्यमवशिष्यते
कथं नु सुकृतं च स्यान्मन्त्रयामास भारत
दुर्योधन निबोधेदं यत्त्वा वक्ष्यामि कौरव
श्रुत्वा च तत्तथा सर्वं कर्तुमर्हस्यरिंदम
तवाद्य पृथिवी वीर निःसपत्ना नृपोत्तम
तां पालय यथा शक्रो हतशत्रुर्महामनाः
एवमुक्तस्तु कर्णेन कर्णं राजाब्रवीत्पुनः
न किंचिद्दुर्लभं तस्य यस्य त्वं पुरुषर्षभ
सहायश्चानुरक्तश्च मदर्थं च समुद्यतः
अभिप्रायस्तु मे कश्चित्तं वै शृणु यथातथम्
राजसूयं पाण्डवस्य दृष्ट्वा क्रतुवरं तदा
मम स्पृहा समुत्पन्ना तां संपादय सूतज
एवमुक्तस्ततः कर्णो राजानमिदमब्रवीत्
तवाद्य पृथिवीपाला वश्याः सर्वे नृपोत्तम
आहूयन्तां द्विजवराः संभाराश्च यथाविधि
संभ्रियन्तां कुरुश्रेष्ठ यज्ञोपकरणानि च
ऋत्विजश्च समाहूता यथोक्तं वेदपारगाः
क्रियां कुर्वन्तु ते राजन्यथाशास्त्रमरिंदम
बह्वन्नपानसंयुक्तः सुसमृद्धगुणान्वितः
प्रवर्ततां महायज्ञस्तवापि भरतर्षभ
एवमुक्तस्तु कर्णेन धार्तराष्ट्रो विशां पते
पुरोहितं समानाय्य इदं वचनमब्रवीत्
राजसूयं क्रतुश्रेष्ठं समाप्तवरदक्षिणम्
आहर त्वं मम कृते यथान्यायं यथाक्रमम्
स एवमुक्तो नृपतिमुवाच द्विजपुंगवः
न स शक्यः क्रतुश्रेष्ठो जीवमाने युधिष्ठिरे
आहर्तुं कौरवश्रेष्ठ कुले तव नृपोत्तम
दीर्घायुर्जीवति च वै धृतराष्ट्रः पिता तव
अतश्चापि विरुद्धस्ते क्रतुरेष नृपोत्तम
अस्ति त्वन्यन्महत्सत्रं राजसूयसमं प्रभो
तेन त्वं यज राजेन्द्र शृणु चेदं वचो मम
य इमे पृथिवीपालाः करदास्तव पार्थिव
ते करान्संप्रयच्छन्तु सुवर्णं च कृताकृतम्
तेन ते क्रियतामद्य लाङ्गलं नृपसत्तम
यज्ञवाटस्य ते भूमिः कृष्यतां तेन भारत