Mahabharata

Vana Parva, Adhyaya 239

Containing 26 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Vana Parva, Adhyaya 239, Verse 1

प्रायोपविष्टं राजानं दुर्योधनममर्षणम्

उवाच सान्त्वयन्राजञ्शकुनिः सौबलस्तदा

Mahabharata

Vana Parva, Adhyaya 239, Verse 2

सम्यगुक्तं हि कर्णेन तच्छ्रुतं कौरव त्वया

मयाहृतां श्रियं स्फीतां मोहात्समपहाय किम्

त्वमबुद्ध्या नृपवर प्राणानुत्स्रष्टुमिच्छसि

Mahabharata

Vana Parva, Adhyaya 239, Verse 3

अद्य चाप्यवगच्छामि न वृद्धाः सेवितास्त्वया

यः समुत्पतितं हर्षं दैन्यं वा न नियच्छति

स नश्यति श्रियं प्राप्य पात्रमाममिवाम्भसि

Mahabharata

Vana Parva, Adhyaya 239, Verse 4

अतिभीरुमतिक्लीबं दीर्घसूत्रं प्रमादिनम्

व्यसनाद्विषयाक्रान्तं न भजन्ति नृपं श्रियः

Mahabharata

Vana Parva, Adhyaya 239, Verse 5

सत्कृतस्य हि ते शोको विपरीते कथं भवेत्

मा कृतं शोभनं पार्थैः शोकमालम्ब्य नाशय

Mahabharata

Vana Parva, Adhyaya 239, Verse 6

यत्र हर्षस्त्वया कार्यः सत्कर्तव्याश्च पाण्डवाः

तत्र शोचसि राजेन्द्र विपरीतमिदं तव

Mahabharata

Vana Parva, Adhyaya 239, Verse 7

प्रसीद मा त्यजात्मानं तुष्टश्च सुकृतं स्मर

प्रयच्छ राज्यं पार्थानां यशो धर्ममवाप्नुहि

Mahabharata

Vana Parva, Adhyaya 239, Verse 8

क्रियामेतां समाज्ञाय कृतघ्नो न भविष्यसि

सौभ्रात्रं पाण्डवैः कृत्वा समवस्थाप्य चैव तान्

पित्र्यं राज्यं प्रयच्छैषां ततः सुखमवाप्नुहि

Mahabharata

Vana Parva, Adhyaya 239, Verse 9

शकुनेस्तु वचः श्रुत्वा दुःशासनमवेक्ष्य च

पादयोः पतितं वीरं विक्लवं भ्रातृसौहृदात्

Mahabharata

Vana Parva, Adhyaya 239, Verse 10

बाहुभ्यां साधुजाताभ्यां दुःशासनमरिंदमम्

उत्थाप्य संपरिष्वज्य प्रीत्याजिघ्रत मूर्धनि

Mahabharata

Vana Parva, Adhyaya 239, Verse 11

कर्णसौबलयोश्चापि संस्मृत्य वचनान्यसौ

निर्वेदं परमं गत्वा राजा दुर्योधनस्तदा

व्रीडयाभिपरीतात्मा नैराश्यमगमत्परम्

Mahabharata

Vana Parva, Adhyaya 239, Verse 12

सुहृदां चैव तच्छ्रुत्वा समन्युरिदमब्रवीत्

न धर्मधनसौख्येन नैश्वर्येण न चाज्ञया

नैव भोगैश्च मे कार्यं मा विहन्यत गच्छत

Mahabharata

Vana Parva, Adhyaya 239, Verse 13

निश्चितेयं मम मतिः स्थिता प्रायोपवेशने

गच्छध्वं नगरं सर्वे पूज्याश्च गुरवो मम

Mahabharata

Vana Parva, Adhyaya 239, Verse 14

त एवमुक्ताः प्रत्यूचू राजानमरिमर्दनम्

या गतिस्तव राजेन्द्र सास्माकमपि भारत

कथं वा संप्रवेक्ष्यामस्त्वद्विहीनाः पुरं वयम्

Mahabharata

Vana Parva, Adhyaya 239, Verse 15

स सुहृद्भिरमात्यैश्च भ्रातृभिः स्वजनेन च

बहुप्रकारमप्युक्तो निश्चयान्न व्यचाल्यत

Mahabharata

Vana Parva, Adhyaya 239, Verse 16

दर्भप्रस्तरमास्तीर्य निश्चयाद्धृतराष्ट्रजः

संस्पृश्यापः शुचिर्भूत्वा भूतलं समुपाश्रितः

Mahabharata

Vana Parva, Adhyaya 239, Verse 17

कुशचीराम्बरधरः परं नियममास्थितः

वाग्यतो राजशार्दूलः स स्वर्गगतिकाङ्क्षया

मनसोपचितिं कृत्वा निरस्य च बहिष्क्रियाः

Mahabharata

Vana Parva, Adhyaya 239, Verse 18

अथ तं निश्चयं तस्य बुद्ध्वा दैतेयदानवाः

पातालवासिनो रौद्राः पूर्वं देवैर्विनिर्जिताः

Mahabharata

Vana Parva, Adhyaya 239, Verse 19

ते स्वपक्षक्षयं तं तु ज्ञात्वा दुर्योधनस्य वै

आह्वानाय तदा चक्रुः कर्म वैतानसंभवम्

Mahabharata

Vana Parva, Adhyaya 239, Verse 20

बृहस्पत्युशनोक्तैश्च मन्त्रैर्मन्त्रविशारदाः

अथर्ववेदप्रोक्तैश्च याश्चोपनिषदि क्रियाः

मन्त्रजप्यसमायुक्तास्तास्तदा समवर्तयन्

Mahabharata

Vana Parva, Adhyaya 239, Verse 21

जुह्वत्यग्नौ हविः क्षीरं मन्त्रवत्सुसमाहिताः

ब्राह्मणा वेदवेदाङ्गपारगाः सुदृढव्रताः

Mahabharata

Vana Parva, Adhyaya 239, Verse 22

कर्मसिद्धौ तदा तत्र जृम्भमाणा महाद्भुता

कृत्या समुत्थिता राजन्किं करोमीति चाब्रवीत्

Mahabharata

Vana Parva, Adhyaya 239, Verse 23

आहुर्दैत्याश्च तां तत्र सुप्रीतेनान्तरात्मना

प्रायोपविष्टं राजानं धार्तराष्ट्रमिहानय

Mahabharata

Vana Parva, Adhyaya 239, Verse 24

तथेति च प्रतिश्रुत्य सा कृत्या प्रययौ तदा

निमेषादगमच्चापि यत्र राजा सुयोधनः

Mahabharata

Vana Parva, Adhyaya 239, Verse 25

समादाय च राजानं प्रविवेश रसातलम्

दानवानां मुहूर्ताच्च तमानीतं न्यवेदयत्

Mahabharata

Vana Parva, Adhyaya 239, Verse 26

तमानीतं नृपं दृष्ट्वा रात्रौ संहत्य दानवाः

प्रहृष्टमनसः सर्वे किंचिदुत्फुल्ललोचनाः

साभिमानमिदं वाक्यं दुर्योधनमथाब्रुवन्